युधिष्ठिर उवाच ॥
शांतिं कथय देवेश गणनाथस्य मे विभो । यां कृत्वा सर्वदुर्गाणि तरते मानवोऽखिलाम ॥१॥
श्रीकृष्ण उवाच ॥
शांतिं वक्ष्यामि राजेन्द्र गगनाथप्रियां पराम् । यस्या आचरणेनैव सर्वारिष्टक्षयोभवेत् ॥२॥
विनायकं कर्मविघ्रैसिद्धयर्थ विनिबोधते । स्वप्नेऽवगाहतेऽत्यर्थ जलं मुंडांश्व पश्यति ॥३॥
काषायवासश्वैव क्रव्यादानधिरोहति । अपमूधैः रुद्रैः सहैकत्र च तिष्ठति ॥४॥
व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः । विमना विफलारंभः संसीदत्यनिमित्ततः ॥५॥
तेनो पसृष्टो लभते राज्यं न राजनंदनः । कुमारी न च भर्तारमपत्य्म गर्भिणी तथा ॥६॥
आचार्यत्वं श्रोत्रियश्व न शिष्योऽध्यापनं तथा । वणिग्लाभं न चाप्नोति च कृषिं च कृषीवलः ॥७॥
स्त्रपनं तस्य कर्तव्यं पुण्येऽह्री विधिपूर्वकम् । मौरसर्षपकल्केन राज्येनोत्सादितस्य तु ॥८॥
मुगन्धकुंकुमालिप्तशरीरशिरस्तथा । भद्रासनोपविष्टस्य स्वस्तिवाच्य द्विजाञ्छभान् ॥९॥
अश्वस्थानाद्वजस्थानाद्वल्मीकात्संगमाद्ध्रदात् । मृत्तिकां रोचनां गंधान्गुग्गुलं चाप्सु निक्षिपेत् ॥१०॥
यदाहृता ह्येकवर्णैर्मनुभिः कलशैर्ह्रदात् । चर्मण्यानडुहे रक्ते स्थाप्य भद्रासनं तथा ॥११॥
सहस्त्राक्षं शतधार ऋषिणा वचनंकृतम् । तेन त्वामभिषिंचामि पावमान्यः पुनंतु ते ॥१२॥
भगं ते वरुणो राजा भगं सूर्यो बृह स्पतिः । भगमिन्द्रश्ववायुश्व भगं सप्तर्षयो ददुः ॥१३॥
यत्ते केशेषु दौर्भाग्य सीमंते यच्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तन्द्धन्तु ते सदा ॥१४॥
स्त्रातस्य सार्षपं तैलं स्त्रुवेणौदुम्बरेण च । जुहुयान्मूर्द्धनि कुशान्सव्येन परिगृह्य च ॥१५॥
मितश्वसंमितश्वैव तथासालकटंकटौ । कूष्मांडौ राजपुबश्व अंतेस्वाहा समन्वितैः ॥१६॥
नामभिर्वालिमंत्रैश्व नमस्कारस्मन्वितैः दद्याच्चुतुष्पथे शूर्पे कुशानास्तीर्य सर्वशः ॥१७॥
कृताकृतां स्तंडुलांश्व पललौदनमेव ल्च । मत्स्यान्पक्कांस्तथैवामंमांसमेतावदेव तु ॥१८॥
पुष्पं चित्रं सुगंधं च सुरां च त्रिविधामपि । मूलकं पूरिकापूपं तथैवोंडेरकस्त्रजम् ॥१९॥
दूर्वा सर्वप्रपुष्पाणां दत्वार्ध पूर्णमंडलाम् । विनायकस्य जननीमुपतिष्ठेत्ततोंऽबिकाम् ॥२०॥
रुपं देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वकामांञ्च देहि मे ॥२१॥
ततः शुल्कांबरधरः शुल्कमाल्यानुलेपनः । भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ॥२२॥
एवं विनायकं पूज्य ग्रहांश्वैव विधानतः । कर्मणा फलमाप्नोति श्रियमाप्नोति चोत्तमाम् ॥२३॥
आदित्यस्य तथा पूजां तिलकं स्वामिन स्तया । महागणपतेश्वैव कुर्वन्सिद्धिमवाप्नुयात् ॥२४॥
श्वेतार्कस्य तु यो मूले महागणपतिः कृतः । सर्वलक्षणसंपूर्णः सोऽपि सिद्धिकरः स्मृतः ॥२५॥
संजप्यते शुचौ देशे विघ्नंनात्र हि देहिनः । परमं पूजयेन्नित्यं गधमाल्यस्त्रगादिभिः ॥२६॥
क्षीणभाग्योऽपि पुरुषः पूजितश्व नरेश्वरः । सर्वसिद्धिमवाप्नोति जयी भवति सर्वदा ॥२७॥ [ ६४७७ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गणनाथशांतिवर्णनं नाम चतुश्वत्वारिंशदुत्तरशततमोऽध्यायः ॥१४४॥