श्रीकृष्ण उवाच ॥
अग्निहोत्रे सुखासीनं गर्गः पृच्छाति कौशिकम् । बंधने संनिरोधेंगव्याधीनां संप्रप्रीडने ॥१॥
कथं मोक्षो भवेत्तस्य साध्यासाध्यं ब्रवीहि मे । गर्गेण कौशिकः पृष्टः इद वचनमब्रवीत ॥२॥
आधाने जन्मनक्षत्रे नैधनप्रत्यरेषु च । व्याधिरुत्पद्यते यस्य क्लेशाय मरणाय च ॥३॥
कृत्तिकासु यदा कश्विव्द्याधिं संप्रतिपद्यते । नवरात्रं भवेत्प्रीढा त्रिरात्रं रोहिणीषु च ॥४॥
मृगशीर्षे पञ्चरात्रमार्द्रा प्राणवियोजिनी । पुनर्वसौ च पुष्ये च सप्तरात्र विधीयते ॥५॥
नवरात्रं तथाश्लेषा स्मशानां तं मघासु च । द्वौ मासौ फाल्गुनी चैव उत्तरासु त्रिपक्षकम् ॥६॥
हस्ते च तनु दृश्येत चित्रायां त्वर्द्धमासकम् ॥७॥
मासद्वयं तथास्वातौ विशाखा विशतिर्दिनाः मैत्रे चैव दशाहं तु ज्येष्ठा चैवार्द्धमासिका ॥८॥
मूलेन जायते मोक्षश्वाषाढासु त्रिपञ्चकम् । उत्तरा दिनविंशत्या द्वौ मासां श्रवणेन तु ॥९॥
धनिष्ठायामर्द्धमासं वारुणे तु दशाहभिः । नव भाद्रपदाऋक्ष उत्तरामु त्रिपंचकम् ॥१०॥
रेवती दशरात्रं तु अहोरात्रं तथाश्विनी । प्राणौर्वियेजयेन्नित्यं गर्ग नास्त्यत्र संशयः ॥११॥
कौशिकेन समादिष्टो नक्षत्रव्याधिसंभवः । दैवज्ञेनापि ज्ञातव्य्म नक्षत्रमथ जन्म ॥१२॥
क्षीरवृक्षस्य समिधो जुहुयादश्वदैवते । तिलान्मधुप्लुतान्याम्ये यवमेवाग्निदैवते ॥१३॥
प्राजपत्ये तु जुहुयाद्भोग्यबीजकरंबकम् । सौम्ये प्रियंवारौद्रेसर्प्पिर्माससमन्वितम् ॥१४॥
आदित्ये प्रयत्नेन घृताक्ताः सिततंदुलाः । पयसाः सर्पिषा साकं बृहस्पत्यधिदैवते ॥१५॥
ग्राम्यौषधैर्वटपत्रैः सर्प्पिः सर्पाधिदैवते । होमः प्रोक्तः प्रियंगूनां नक्षत्रे यामदैवते ॥१६॥
सावित्रे दधिहोमोत्र त्वाष्ट्रे चित्रोदनं हविः ॥१७॥
यवान्सहान्येनहुनेत्करेऽग्नौ तु पयौदनम् । नैत्रेणाथ तु मंत्रेण मैत्रे कंटकमिश्रितम् ॥१८॥
नैऋत्ये तिलहोमः स्यादव्यक्ते च हुताशने । अब्दैवत्ये शालिबीजैर्वैश्वदेवं तु कारयेत् ॥१९॥
रक्ताश्व तंडुलाश्वैव होतव्या विष्णुदैवत । वारुणे पारिजातानां पुष्पाणां होम इप्यते ॥२०॥
अजैकपादे नक्षत्रे प्राजापत्येन तत्समम् । आहिर्बुन्ध्ये तु नक्षत्रै वैश्वदेवं तु कारयेत् ॥२१॥
पौषे फलान्यखंडानि जुहुयादष्टोत्तरं शतम् ॥२२॥
सावित्रीहोममेकं तु ब्रह्माभिहितवान्पुरा । सर्वज्वरप्राशमनं सद्योज्वरहरं परम् ॥२३॥ [ ६५०० ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे नक्षत्रहोमविधि वर्णनं नामपंचचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४५॥