तृतीयकाण्डः - ३६ ते ४०
पैप्पलादसंहिता
३६
जय प्रेहि माप क्रामः शत्रूणां वेद आ खिद ।
इन्द्रः सपत्नहा भीम: सञ्जयस्ते समानृधत् ॥१॥
त्वं जयासि न परा जयासा अर्भेष्वाजौ मघवन् महत्सु च ।
उग्रं चित् त्वामवसे सं शिशीमहे स त्वं न इन्द्र हवनेषु मृड़ ॥२॥
गोजिता बाहू असमक्रतू युधि कर्मन्कर्मञ्छतमूती खजङ्करा ।
अकल्प इन्द्रो ऽप्रतिमानमोजः स त्वं न इन्द्र हवनेषु मृड़ ॥३॥
वेदाहमैन्द्रं प्रियमस्य शेवधिं यदस्य नाम गुह्यं समीके ।
स इज्जयाति मघवा ममासत्यस्माकं युध्मो विहवे हवं गमत् ॥४॥
वयं जयेम त्वायुजा भृतो अस्माकमंशमुदवा भरेभरे ।
अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥५॥
त्वां देवेषु प्रथमं हवामहे त्वं बभूविथ पृतनासु सासहिः ।
सेमं न: कारुमुपमन्युमुद्भिदमिन्द्र करासि प्रसवे रथं पुर: ॥६॥
३७
स्मर स्मरो ऽसि देवैर्दत्तो ऽसि स्मर ।
अमुष्य मन आ स्मर यथाहं कामये तथा ॥१॥
शोचयास्य हृदयं काम गच्छाङ्गज्वरो दहतु शोचतु त्मना ।
सङ्कल्पा अस्य समरन्ताधीभिरियमेवास्य दिगमहन्यन्याः ॥२॥
निरानन्दाः प्रमुच्छदो मनोमुहोनयुवो नष्टकृत्वा अरण्यवः ।
आवेशिनीः प्रद्रुपो रोपयिष्णुरेत आस्ताध्य: प्र हिणोमि ब्रह्मणा ॥३॥
हृत्कर्तनी ऋतुदा ग्रामान्नाशनीः स्वप्नच्छिद उघ्ननीघ्ना मनोमुह: ।
आवेशिनीः प्रद्रुपो रोपयिष्णुरेत आस्ताध्यः प्र हिणोमि ब्रह्मणा ॥४॥
इन्द्राग्नी मित्रावरुणा ते अद्योभे च द्यावापृथिवी मातरिश्वा ।
अश्विना देवः सविता भगश्च मनस्त उघ्नन्तु न रमासा अत्र ॥५॥
त्रयस्त्रिंशत्त्वा उत घ्नन्तु देवा आध्यश्चित्तमुप ते भरन्ताम् ।
भरद्वाजस्य मतयस्त ईशतां छिन्नेव नौर्बन्धनात् प्र प्लवस्व ॥६॥
एताः एतन्त्याध्यो वार्षिकीरिव विद्युत: ।
तासां प्रतिग्रहो भव सायं गोष्ठे गवामिव ॥७॥
नि शीर्षतो नि पातित आध्यो वेशयामि ते ।
तास्त्वा समुत्तुदन्तीर्बाधयन्तीरुपासताम् ॥८॥
एतास्त आध्य: प्र हिणोमि ब्रह्मणा तृप्रा अश्रीपुरोगवाः ।
तास्त्वा तृणमिव शोषयानथो त्वा रोदयान् बहु ॥९॥
३८
अजो ह्यग्नेरजनिष्ट शोकात् सोऽपश्यज्जनितारमग्रे ।
तेन देवा देवतामग्र आयन् तेन रोहानरोहन्नुप मेधीयांसः ॥१॥
क्रमध्वमग्निभिर्नाकमुख्यां हस्तेषु बिभ्रतः ।
दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥२॥
अग्ने प्रेहि प्रथमो देवयतां चक्षुर्देवानामुत मर्त्यनाम् ।
इयक्षमाणा भृगुभिः सजोषसः स्वर्यन्तु यजमानाः स्वस्ति ॥३॥
स्वर्यन्तो नापेक्षन्त आा द्यां रोहन्तु राधसः ।
यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥४॥
ओदनमनज्मि शवसा घृतेन दिव्यं समुद्रं पयसं बृहन्तम् ।
तेन गेष्म सुकृतस्य लोकं सरो रुहाणा अधि नाकमुत्तमम् ॥५॥
यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्योदन॥
ताभ्यां पत्यास्म सुकृतस्य लोकं यत्रर्षय: प्रथमजाः पुराणाः ॥६॥
यतस्तिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन ।
अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह ॥७॥
पृष्ठात् पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम्।
दिवो नाकस्य पृष्ठात् स्वर्ज्योतिरगामहम् ॥८॥
अजो ऽस्यज स्वर्गोसि त्वया लोकमङ्गिरसः प्र जानन्।
तं लोकमनु प्र ज्ञेष्म ॥९॥
येना सहस्रं वहसि येन वा सर्ववेदसम् ।
तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१०॥
अजं च पचत पञ्च चौदनान्।
अजं पञ्चौदनं पक्त्वा देवा लोकान् समानशुः ॥११॥
३९
या ते प्रजापिहिता पुराभूद् ध्रुवेणाश्विनापतं भरामि ।
अग्निष्टे तामाद् यमः पुनर्दाद्वैश्वानर: परमस्माद् व्योम्नः ॥१॥
त्वं पतिः शिवो ऽग्नेद्वितीयो ऽस्यै प्रजां जरदष्टिं सृजस्व ।
मुञ्चैनां ग्रह्या निर्ऋतिर्यद्बन्धाग्ने प्रजां प्रजाकामायै धेहि ॥२॥
त्वामग्ने वृषभं वाशितेयमाच्य जानु पुत्रकामा सपर्यति ।
तामारोह सुमनस्यमानः प्रजापते: प्रजया सं सृजैनाम् ॥३॥
तुभ्यं नारी पुत्रकामेयमग्ने शुद्धं पूतं घृतमा जुहोति ।
तामधिस्कन्द वीरयस्व रेतोधा उग्रः प्रजया सं सृजैनाम् ॥४॥
पर्वताद् दिवो योनेर्गात्राद्गात्रात् समाशृतम् ।
रेतो देवस्यदेवस्य त्सरौ पर्णमिवा धाम् ॥५॥
इन्द्रस्य जातस्य प्र पपात नाभिस्तामेको देवः प्रति जग्राह कामी।
त्वया वयं ब्राह्मणाः सोमपाः सूपयाम उत या न सूते ॥६॥
४०
तेजनात् त्यजनं जातं तेजनं जायते शरात् ।
न येषति न शोचति यस्त्वा बिभर्ति तेजन ॥१॥
परुत्नमसि तेजन परुत्नन्ते प्रभञ्जनम् ।
परुत्नो अस्तु स कामो येनामून् कामयामहे ॥२॥
यावदोषः शरो अस्त्वोजनेभ्यः कृणवद्भयम् ।
तावदोषस्त्वन्तेजन त्यजनं भवतादिह ॥३॥
त्यजनं म आापो दधन् त्यजनं मरुतो दधन् ।
त्यजनं मे विश्वे देवास्त्यजनं पितरो दधन् ॥४॥
तेनाहमन्येषां स्त्रियो अत्याक्षं विद्विषः पुरा ।
पुरा द्विषो अत्याक्षं पुरा मध्यन्दिनादुत ।
पुरा सायत्वादत्याक्षं तेजने हि महद्बलम् ॥५॥
अस्थाद्द्यौरस्थात् पृथिव्यस्थाद्विश्वमिदं जगत् ।
अस्थादवहृदेवात्तिष्ठात् कामो अयं तव ॥६॥
(ढ़ति षडृचोनामतृतीयकाण्डेऽष्टमो ऽनुवाकः)
इत्यथर्ववेदे पैप्पलाद संहितायां षडृचोनामतृतीयः काण्डः समाप्तः
N/A
References : N/A
Last Updated : May 10, 2021
TOP