समय मातृका - तृतीयः समयः

क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है ।



अथ सर्वार्थ-जननीं जननीं वेश-योषिताम् ।
मित्रे स्वभाव-मलिनाम् आनेतुं गन्तुम् उद्यते ॥१॥

सङ्कोच-क्लेश-सञ्जातां शूरताम् इव रागिणाम् ।
आसन्न-श्री-वियोगानां स्वाप-ग्लानिर् अजायत ॥२॥

शनैर् दिन-धने क्षीणे स्वल्प-शेषाम्बरः परम् ।
अलम्बत क्षणं रागी सन्ध्या-धाम्नि दिनेश्वरः ॥३॥

सन्ध्यया क्षिप्र-रागिण्या निरस्तः परितापवान् ।
नीरागः सागर-जले चिक्षेप तपनस् तनुम् ॥४॥

ततस् तिमिर-सम्भारैर् वार-रामा-प्रसाधने ।
कृष्णागुरु-भरोद्भूत-धूप-धूमोद्गत-मायितम् ॥५॥

यामिनी-कामिनी-कीर्ण-केश-पाशोपमं तमः ।
दीप-चम्पक-मालाभिर् विश्रान्ति-नियमं ययौ ॥६॥
अथ स्व-वेश-वनिता-सापत्न्य-कलह-च्युतम् ।
अदृश्यत शशङ्कार्धं दन्त-पत्रम् इवामबरे ॥७॥

रजनी-रमणी-कान्ते दिनान्ते तुहिन-त्विषि ।
उदिते मुदिते लोके बभूव मदनोत्सवः ॥८॥
भुक्तां सहस्र-कर-सम्पदम् अम्बर-श्रीः
कृत्वा जन-स्मरण-मात्र-दशावशेषाम् ।
वेश्येव कामम् अनपेक्षित-पक्ष-पाता
क्षिप्रं शशाङ्क-विभवाभरणा बभूव ॥९॥
ततः कर्तुं प्रवृत्तेषु वेश्यावेश्माग्र-वर्त्मसु ।
विटेषु मधु-लुब्धेषु निर्व्यापारं गतागतम् ॥१०॥

द्वाराग्र-दत्त-कर्णासु ग्रहण-ग्रहणेप्सया ।
कुट्टनीषु तृणापाते’प्य् उन्मुखीषु मुहुर् मुहुः ॥११॥

दिन-कामुक-निर्माल्य-माल्य-ताम्बूलिनीं भुवम् ।
संमृज्य सज्ज-शय्यासु वेश्यास्व् अन्य-प्रतीक्षया ॥१२॥

आस्तीर्यमाण-खट्वान्तः किङ्किणी-क्वाण-संज्ञया ।
पारावतेषु विरुतैर् व्रजत्सु स्मर-वन्दिताम् ॥१३॥

गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः ।
पूर्वं किं नागतो’सीति वदन्तीष्व् अपरासु च ॥१४॥

उदराबद्ध-वसनैर् जटाग्रन्थि-निपीडनम् ।
कुर्वाणैर् वार-कलहे प्रारब्धे शठ-देशिकैः ॥१५॥

स्वयं मात्रा च युगपद् गृहीतं ग्रहण-द्वये ।
वारे प्राप्ते तृतीये च यान्तीष्व् अन्यास्व् अदर्शनम् ॥१६॥

अनायाते परिचिते प्रत्याख्याते नवागते ।
उभय-भ्रंश-शोकेन सीदन्तीष्व् अपरासु च ॥१७॥

भुक्तोज्झितानाम् अन्यासु पुनः प्राप्तार्थ-सम्पदाम् ।
जननीं दुर्जनीकृत्य कुर्वाणासु प्रसादनम् ॥१८॥

यदि त्वां सा सुजननी न जानीयात् सुधा-मयम् ।
अभविष्यद् उपायो मे तत् को’सौ प्राण-धारणे ॥१९॥

नित्यावहार-कुपितं सर्वार्थैर् उपकारिणम् ।
ऋजुम् आवर्जयन्तीषु विदग्धासुतवैरिषु ॥२०॥

अन्य-नाम्ना प्रविष्टानां कलहे कूट-कामिनाम् ।
कुट्टनीषु रटन्तीषु घण्टारण-रणोत्कटम् ॥२१॥

प्रसुप्त-कटक-क्षीब-क्षीण-क्षुद्राभृते गृहे ।
सखी-भवनम् अन्यासु यान्तीष्व् आदाय कामुकम् ॥२२॥

बाल-मार्जारिकाह्वान-व्याजेनान्यासु वर्त्मनि ।
कटाक्षैः कलयन्तीषु दूरात् कामुकम् आमिषम् ॥२३॥

एकः स्थितो’न्तः प्राप्तो’न्यः परस्याद्यैव दुर्ग्रहः ।
किं करोमीति जननीं पृच्छन्तीष्व् अपरासु च ॥२४॥

निशा दीर्घा नवः कामी तनयेयं कनीयसी ।
व्यत्येति काल-हाराय वृद्धा-वर्गे कथोद्यते ॥२५॥

नाज्ञाताद् गृह्यते भाटी चरन्ती म्लेच्छ-गायनाः ।
इत्य् अन्यासु वदन्तीषु शून्य-शय्यासु लज्जया ॥२६॥

आयाते वार्यमाणे’पि निर्माणे क्षीण-कामुके ।
व्याज-कुक्षि-शिरः-शूला-क्रन्दिनीषु परासु च ॥२७॥

मुग्ध-कामुक-मित्राणां स्वेच्छया व्यय-कारिणाम् ।
प्रस्तुते स्थिर-लाभाय कुट्टनीभिर् गुण-स्तवे ॥२८॥

लज्जामहे वयं स्वल्प-धनेनेति विभाविनि ।
गण्यमाने दश-गुणे धूर्तैः प्रथम-कामिनाम् ॥२९॥

प्रवास-सक्तेर् अधिकारि-सूनोः स्थितावरुद्धा तनया ममेति ।
काचिद् वदन्ती विजने विगूह्य जग्राह भाटीं त्रिगुणां समृद्धात् ॥३०॥
अल्पं ममैतद् दुहितुर् न योग्यं
न च क्षणो’स्ति त्वम् अदृष्ट-पूर्वः ।
इति ब्रुवाणापि विटं पटान्ते
गाढं गृहीत्वा न मुमोच काचित् ॥३१॥
अमात्य-पुत्रेण सुताद्य नीता
क्षमस्व रात्रिं प्रणयान् ममैकाम् ।
उक्त्वेति काचिज् जरती चकार
रिक्तस्य सक्तस्य च विप्रलम्भम् ॥३२॥
दातव्यं न ददाति वार-विरहे टक्वो‘द्य लब्ध-स्थलः
क्रूरः सैन्य-पतिः प्रयाति रिपुतां सद्यैव वारं विना ।
वृत्तिर् देव-गृहात् कथं नु दिविरे वारोज्झिते लभ्यते
वाटी-पेटक-वारतां गतवती प्रोवाच काचित् सखीम् ॥३३॥
अन्यास् ताः सखि कूट-पाश-निचयैर् आकृष्ट-मुग्ध-श्रियः
कुर्मः किं वयम् एव वञ्चन-कलां जात्या न जानीमहे ।
सद्-भावे सततं स्वभाव-विमुखः सर्वाभिशङ्की जनो
वाक्यैः काचिद् इति प्रकाशम् अकरोत् सक्तार्जवावर्जनम् ॥३४॥
सकलैव सा रसवती नीता क्षणेन क्षपा
पापेन क्षपितं दिनं निशि तया शय्यावहारः कृतः ।
इत्य् उद्वेग-परिग्रह-ग्लपित-धीः पृष्टः सहासैर् विटैर्
व्याचष्टे कटु-कुट्टनी-कुटिलताम् अक्लिष्ट-कूटां विटः ॥३५॥
नास्मद्-गेह-प्रवेशः सगुण-जन-कथा-केलि-मात्रोपचारैर्
व्यापारारम्भ-सार-प्रवसद्-अवसरे वासरे कामुकानाम् ।
वृत्तिर् वृत्तानुरोधात् कथम् अपि विदिताद् गृह्यते यामवत्याम्
इत्य् उच्चैः काचिद् ऊचे बहु-गत-गणिका-वर्ग-गर्वोपशान्त्यै ॥३६॥
कुरु तरलिके हारं कण्ठे गृहाण मनोहरे
वलय-युगलं लीले लोलां विलोकय मेखलाम् ।
भज मलयजं चित्रे रात्रिः प्रयाति कठोरताम्
इति चतुरताचार्यस् तासाम् बभूव सखी-जनः ॥३७॥
इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां प्रदोष-वेश्यालाप-वर्णनम् नाम तृतीयः समयः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP