अथ को ऽयं रस इत्युच्यते--
विभावेनानुभावेन व्यक्तः संचारिणा तथा ।
रसतामेति रत्यादिः स्थायीभावः सचेतसाम् ॥१॥
विभावादयो वक्ष्यन्ते ।
सात्त्विकाश्चानुभावरूपत्वात् न पृथगुक्ताः, व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते ।
तदुक्तं लोचनकारैः-- "रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद् व्यवहारः" इति ।
अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थम् ।
ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव ।
तदुक्तम्-- "रसावस्थः परम्भावः स्थायितां प्रतिपद्यते" इति ।
अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते--
सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः ।
वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥२॥
लोकोत्तरचकत्कारप्राणः कैश्चित् प्रमातृभिः ।
स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ॥३॥
"रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते" इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् ।
तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः ।
अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनम् ।
अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः ।
स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या ।
चिन्मय इति स्वरूपार्थे मयट् ।
चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः ।
तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम् ।
तदाह धर्मदत्तः स्वग्रन्थे-- रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम्" ॥
इति ।
कैश्चिदिति प्राक्तनपुण्यशालिभिः ।
यदुक्तम्-- "पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम्" ।
इति ।
यद्यपि "स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः" इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्, तथापि "रसः स्वाद्यते" इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः ।
तदुक्तम्-"रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रसः" इति ।
एकमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः ।
नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेषत्वाद् द्वयोरैक्यमापतितम् ।
ततश्च-- "स्वज्ञानेनान्यधीहेतुः सिद्धेर्ऽथे व्यञ्जको मतः ।
यथा दीपो ऽन्यथाभावे को विशेषो ऽस्य कारकात्" ॥
इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तम् ।
अत एवाहुः-- "विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः ।
अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः" इति ।
अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति ।
ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादत्युच्यते--
करुणादावपि रसे जायते यत्परं सुखम् ।
सचेतसामनुभवः प्रमाणं तत्र केवलम् ॥४॥
आदिशब्दाद्बीभत्सभयानकादयः ।
तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते--
किञ्च तेषु यदा दुःखं न को ऽपि स्यात्तदुन्मुखः ।
नहि कश्चत् सचेता आत्मनो दुःखाय प्रवर्त्तते ।
करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात् सुखमयत्वमेव ।
अनुपपत्त्यन्तरमाह--
तथा रामायणादीनां भविता दुःखहेतुता ॥५॥
करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् ।
ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह--
हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् ।
शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ॥६॥
अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् ।
सुखं सञ्जायते तेभ्यः सर्वेभ्यो ऽपीति का क्षतिः ॥७॥
ये खलु रामवनवासादयो लोके "दुःखारणानि" इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते ।
तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते ।
अतश्च "लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते" इति लोक एव प्रतिनियमः ।
काव्ये पुन) "सर्वेभ्यो ऽपि विभावादिभ्यः सुखमेव जायते" इति नियमान्न कश्चिद्दोषः ।
कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते--
अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः ।
तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह--
न जायते तदास्वादो विना रत्यादिवासनाम् ॥८॥
वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् ।
यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् ।
उक्तञ्च धर्म्मदत्तेन-- "सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।
निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः" ॥
इति ।
ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते--
व्यापारो ऽस्ति विभावादेर्नाम्ना साधारणीकृतिः ।
तत्प्रभावेण यस्यासन् पाथोधिप्लवनादयः ॥९॥
प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते ।
ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते--
उत्साहादिसमुद्वोधः साधारण्याभिमानतः ॥१०॥
नृणामपि समुद्रादिलङ्घनादौ न दुष्यति ।
रत्यादयो ऽपि साधारण्येनैव प्रतीयान्त इत्याह--
साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ॥११॥
रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् ।
परगतत्वेन त्वरस्यतापातः ।
विभावादयो ऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह--
परस्य न परस्येति ममेति न ममेति च ।
तदास्वादे विभावादेः परिच्छेदो न विद्यते ॥१२॥
ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते--
विभावनादिव्यापारमलौकिकमुपेयुषाम् ।
अलौकिकत्वमेतेषां भूषणं न तु दूषणम् ॥१३॥
आदिशब्दादनुभावसञ्चारणो ।
तत्र विभावनं रत्यादेविशेषणास्वादाङ्कुरणयौग्यतानयनम् ।
अनुभावनमेवम्यूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् ।
सञ्चारणं तथाभूतस्यैव तस्य सम्यक् चारणम् ।
विभावादीनां यथासङ्ख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते --
कारण-कार्य-सञ्चारिरूपा अपि हि लोकतः ।
रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ॥१४॥
ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते--
प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते ।
ततः सम्बलितः सर्वो विभावादिः सचेतसाम् ॥१५॥
प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् ।
यथा खण्डमरिचादीनां सम्मेलनादपूर्व्व इव कश्चिदास्वादः प्रपाणकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः ।
ननु यदि विभावानुभावव्यभिचारिभिर्म्मिलितैरेव रसस्तत् कथं तेषामेकस्य द्वयोर्वा सद्भावे ऽपि स स्यादित्युच्यते--
सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ॥१६॥
भ्क्तटित्यन्यसमाक्षेपे तदा दोषो न विद्यते ।
अन्यसमाक्षेपश्च प्रकरणादिवशात् ।
यथा-- "दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली धन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः" ॥
अत्र मालविकामभिलषतो ऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णने ऽपि सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फारादीनामौचित्यादेवाक्षेपः ।
एकमन्याक्षेपे ऽप्यूह्यम् ।
"अनुकार्य्यगतो रसः" इति वदतः प्रत्याह--
पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा ॥१७॥
अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत् ॥
सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात् कथं रसरूपतामियात् ।
(क) रसस्यैतद्धर्म्मत्रितयविलक्षणधर्म्मकत्वात् ।
अनुकर्त्तृगतत्वञ्चास्य निरस्यति--
शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपताम् ॥१८॥
दर्शयन्नर्त्तको नैव रसस्यास्वादको भवेत् ।
किञ्च--
काव्यार्थभावनेनायमपि सभ्यपदास्पदम् ॥१९॥
यदि पुनर्नटो ऽपि काव्यार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत् तदा सो ऽपि सभ्यमध्य एव गण्यते ।
नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः ।
यो हि ज्ञाप्यो घटादिः सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा॑ प्रतीतिमन्तरेणाभावात् ।
यस्मादेष विभावादिसमूहालम्बनात्मकः ॥२०॥
तस्मान्न कार्यः--
यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् ।
ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्, कारणज्ञानतकार्य्यज्ञानयोर्युगपददर्शनात् ।
नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानञ्चैकदा सम्भवति ।
रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणत्वमित्यभिप्रायः ।
-- नो नित्यः पूर्वसंवेदनोज्झितः ।
असंवेदनकाले हि न भावो ऽष्यस्य विद्यते (क) ॥२१॥
न खलु नित्यस्य वस्तुनो ऽसंवेदनकाले ऽसम्भवः ।
नापि भविप्यन् साक्षादानन्दमयस्वप्रकाशरूपत्वात् ।
कार्यक्षाप्यविलक्षणभावान्नो वर्त्तमानो ऽपि ॥२२॥
विभावादिपरामर्शविषयत्वात् सचेतसाम् ।
परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ॥२३॥
न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते ।
तथाभिलापसंसर्गयोग्यत्वविरहान्न च ॥२४॥
सविकल्पकंसंवेद्यः--
सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा ।
--साक्षात्कारतया न च ।
परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात ॥२५॥
तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरुपणप्रकारस्येत्याह--
तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम् ।
तत्किं पुनः प्रमाणं तस्य सद्भाव इत्याह--
प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ॥२६॥
चर्वणा आस्वादनम् ।
तच्च "स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः" इत्युक्तप्रकारम् ।
ननु यदि रसो न कार्यस्तत्कथं महषिणा(क) विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः" इति लक्षणं कृतमित्युच्यते--
निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः ।
यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते ।
अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ॥२७॥
तस्य रसस्य ।
आदिशब्दादलक्ष्यत्वादि ।
ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाखण्डत्वमित्याह--
रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत् ।
अतो ऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ॥२८॥
यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्यते, न च तथा, तादात्म्याङ्गीकारात् ।
यदुक्तम्-- "यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावे ऽपि व्यवहार इति भावः" इति ।
"सुखादितादात्म्याड्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्त्रं प्रमोदनिद्रामुपेयाः" इति च ।
"अभिन्नो ऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः" इति च ।
ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः ।
तादात्म्यादेवास्याखण्डत्वम् ।
रत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वे ऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते ।
तदुक्तम् -- "विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ।
प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम्" ॥
इति ।
"परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः" इति च ।
अथं के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह--
रत्याद्युद्वोधका लोके विभावाः काव्यनाट्ययोः ।
ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः "विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः" इति विभावा उच्यन्ते ।
तदुक्तं भर्त्तृहरिणा-- "शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान् ।
प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते" ॥
इति ।
तद्भेदावाह--
आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ।
स्पष्टम् ।
तत्र--
आलम्बनं नायकादिस्तमालम्ब्य रसोद्रमात् ॥२९॥
आदिशब्दान्नायिकाप्रतिनायिकादयः ।
अथ यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते ।
तत्र नायकः--
त्यागी कृती कुलीनः सुश्रीको रूपयोवनोत्साही ।
दक्षो ऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ॥३०॥
दक्षः क्षिप्रकारी ।
शीलं सद्वृतम् ।
एवमादिगुणसम्पन्नो नेता नायको भवति ।
तद्भेदानाह--
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥३१॥
स्पष्टम् ।
तत्र धीरोदात्तः--
अविकत्थनः क्षमावानतिगम्भीरो माहसत्त्वः ।
स्थेयान्नगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥३२॥
अविकत्थनो ऽनात्मश्लाघाकरः ।
महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः ।
निगूढमानो विनयच्छन्नगर्वः ।
दृढव्रतो ऽङ्गीकृतनिर्वाहकः ।
यथा--रामयुधिष्टिरादिः ।
अथ धीरोद्धतः--
मायापरः प्रचण्डश्चपलो ऽहङ्कारदर्पभूयिष्ठः ।
आत्मश्लाघानिरतो धीरैर्धोरोद्धतः कथितः ॥३३॥
यथा--भीमसेनादिः. अथ धीरललितः--
निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् ।
कला नृत्यादिका ।
यथा--सत्नवाल्यादौ वत्सराजादिः ।
अथ धीरप्रशान्तः--
सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः स्यात् ॥३४॥
यथा--मालतीमाधवादौ माधवादिः ।
एषां च शृङ्गारादिरूपत्वे भेदानाह--
एभिर्दक्षिणाधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।
तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारा नायकः ।
एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥३५॥
द्वयोस्त्रिचतुः प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः ।
यथा-- स्नाता तिष्ठति कुन्तलेश्वरसुता, वारो ऽङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कलमया, देवी प्रसाद्याद्य च ।
इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाया विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥
कृतागा अपि निःशङ्कस्तर्जितो ऽपि न लज्जितः ।
दृष्टदोषो ऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥३६॥
यथा मम-- शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि ।
किञ्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ! ध्यातश्चेतसि कौतुकं वितनुते कोपो ऽपि वामभ्रुवः ॥
अनुकूल एकनिरतः--
एकस्यामेव नायिकायामासक्तो ऽनुकूलनायकः ।
यथा-- अस्माकं सखि ! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गातिरुद्धतं न हसितं, नैवास्ति, कश्चिन्मदः ।
किन्त्वन्ये ऽपि जना वदन्ति सुभगो ऽप्यस्याः प्रियो नान्यतो दृष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥
शठो ऽयमेकत्र बद्धभावो यः ।
दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥३७॥
यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्दर्शितानुरागो ऽन्यस्यां नायिकायां गूढं विप्रियमाचरित स शठः ।
यथा-- "शटान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत्क्वाचक्षे घृतमधुमयत्वद्वहुवचो- विषेणाघूर्णन्ती किमपि न सखी मे गणयति" ॥
एषां च त्रैविध्यादुत्तममध्याधमत्वेन ।
उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ॥३८॥
एषामुक्तषोडशभेदानाम् ।
अथ प्रसङ्गादेतेषां सहायानाह--
दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु ।
किञ्चित्तद्गुणहीनः सहाय एवास्य पीठमर्द्दाख्यः ॥३९॥
तस्य नायकस्य बहुव्यापिनि प्रसङ्गसंगते इतिवृत्ते ऽनन्तरोक्तैर्नायकसामान्यगुणैः किञ्चिदूनः पीठमर्द्दनामासहायो भवति ।
यथा-रामचन्द्रादीनां सुग्रीवादयः ।
अथ शृङ्गारसहायाः--
शृङ्गारे ऽस्य सहाया विटचेटविदूषकाद्याः स्युः ।
भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ॥४०॥
आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः ।
तत्र विटः--
संभोगहीनसंपद्विटस्तु धूर्त्तः कलैकदेशज्ञः ।
वेशोपचारकुशलो वाग्ग्मी मधुरो ऽथ बहुमतो गोष्ठ्याम् ॥४१॥
चेटः प्रसिद्ध एव ।
कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः ।
हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः ॥४२॥
स्वकर्म हास्यादि ।
अर्थचिन्तने सहायमाह--
मन्त्रीस्यादर्थानां चिन्तायां--
अर्थास्तन्त्रावापादयः ।
यत्त्वत्र सहायकथनप्रस्तावे-- "मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने" इति केनाचिल्लक्षणं कृतम्, तदपि राज्ञोर्ऽथचिन्तनोपायलक्षणप्रकरणो लक्षयितव्यम्, न तु सहायकथनप्रकरणो ।
"नायकस्यार्थचिन्तने मन्त्री सहायः" इत्युक्ते ऽपि नायकस्यार्थत एव सिद्धत्वात् ।
यदप्युक्तम्-- "मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्तसिद्धयः" इति, तदपि स्वलक्षणकथनेनैक लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् ।
न चार्थचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव संपादकः॑ तस्यार्थचिन्तनाद्यभावात् ।
अथान्तः पुरसहायाः--
--तद्वदवरोधे ।
वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्यः ॥४३॥
मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।
सो ऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥४४॥
आद्यशब्दान्मूकादयः ।
तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नाबल्याम्-- नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥
शकारो मृच्छकटिकादिषु प्रसिद्धः ।
अन्ये ऽपि यथादर्शनं ज्ञातव्याः ।
अथ दण्डसहायाः--
दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।
दुष्टनिग्रहो दण्डः ।
स्पष्टम् ।
ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ॥४५॥
ब्रह्मविदो वेदविदः, आत्मविदो वा ।
अत्र च--
उत्तमाः पीठमर्दाद्याः--
आद्यशब्दान्मन्त्रिपुरोहितादयः ।
--मध्यौ विटविदूषकौ ।
तथा शकारचेटाद्या अधमाः परिकीर्तिताः ॥४६॥
आद्यशब्दात्ताम्बूलिकगान्धिकादयः ।
अथ प्रसङ्गाद्दूतानां विभागगर्भलक्षणमाह--
निसृष्टार्थो मितार्थश्च तथा संदेशहारकः ।
कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः ॥४७॥
तत्र कार्यप्रेष्यो दूत इति लक्षणम् ।
तत्र--
उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः ॥४८॥
उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च ।
मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः ।
यावद्भाषितसंदेशहारः संदेशहारकः ॥४९॥
अथ सात्त्विकनायकगुणाः--
शीभा बिलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी ।
ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥५०॥
तत्र--
शूरता तक्षता सत्यं महोत्साहो ऽनुरागिता ।
नीये घृणाधिके स्पर्धा यतः शोभेति तां विदुः ॥५१॥
तत्रानुरागिता यथा-- अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उपधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥
एवमन्यदपि ।
अथ विलासः--
धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।
यथा-- दृष्टीस्तृणीकृतजगत्र्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारके ऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥
संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥५२॥
ऊह्यमुदाहरणम् ।
भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।
यथा-- आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पो ऽप्याकारविभ्रमः ॥
व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥५३॥
यथा-श्रुताप्सरोगीतिरप क्षणो ऽस्मिन् हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्यये ऽप्यसहनं तत्तेजः समुदाहृतम् ॥५४॥
वाग्वेशयोर्मधुरता तद्वच्छङ्गारचेष्टितं ललितम् ।
दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता ॥५५॥
एषामुदाहरणान्यूह्यानि ।
अथ नायिका त्रिभेदा स्वान्या साधारणा स्त्रीति ।
नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥५६॥
नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति ।
सा च स्वस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा ।
तत्र स्वस्त्री--
विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।
यथा-- "लज्जापज्जत्तपसाहणाइं परभत्तिणिप्पिवासंइं ।
अविणअदुम्मेधाइं धण्णाण घरे कलत्ताइं ॥
सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ॥५७॥
तत्र--
प्रथमावतीर्णयौवनमदनबिकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥५८॥
तत्र प्रथमावतीर्णयौवना यथा मम तातापादानाम्-- मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति ।
कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा- दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥
प्रथमावतीर्णमदनविकारा यथा मम प्रभावती परिणये-- दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः पुरात्, नोद्दामं इसति क्षणात्कलयते ह्रीयन्त्रणां कामपि, किंचिद्भावगभीरवक्रिमलवस्प्टष्टं मनाग्भाषते, सभ्रूभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीम् ॥
रतौ वामा यथा-- "दृष्टा दृष्टिमधो ददाति, कुरुते नालपमाभाषिता, शय्यायां परिवृत्त्य तिष्ठति, बालादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते, जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया" ॥
माने मृदुर्यथा-- "सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥
समधिकलज्जावती यथा-- "दत्ते सालसमन्थरम्--ऽित्यत्र (११३ पृ-) श्लोके ।
अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनम् ।
अथ मध्या--
मध्या विचित्रसुरता प्ररूढस्मरयौवना ।
ईषत्प्रगल्भवचना मध्यमव्रीडिता मता ॥५९॥
विचित्रसुरता यथा-- "कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः" ॥
प्ररूढस्मरा यथात्रैवोदाहरणो ।
प्ररूढयोवना यथा मम-- "नत्रे खञ्जनगञ्जने, सरसिजप्रत्यर्थि पाणिद्वयं, वक्षोजौ कारिकुम्भविभ्रमकीमत्युन्नतिं गच्छतः ।
कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी, स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा" ॥
एवमन्यत्रापि ।
अथ प्रगल्भा--
स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।
भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ॥६०॥
स्मरान्धा यथा-- "धन्यासि या कथयसि प्रियसंगमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचदपि स्मरामि(क)" ॥
गाढतारुण्या यथा-- "अत्युन्नतस्तनमुरो नयने सुदीर्घे, वक्रे भ्रुवावतितरां, वचनं ततो ऽपि ।
मध्यो ऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः" ॥
समस्तरतकोविदा यथा-- "क्वचित्ताम्बूलाक्तः क्वचिद्गरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्ररी क्वचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः" ॥
भावोन्नता यथा-- "मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै- रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।
असकृदसकृत्स्फारस्फाररैपाङ्गविलोकितै- स्भिभुवनजये सा पञ्चेषोः करोति सहायताम्" ॥
स्वल्पब्रीडा यथा-- "धन्यासि या कथयसि"-- इत्यत्रेव (११६ पृ दृ) आक्रान्तनायका यथा-- स्वामिन् भङ्गुरयालकं, सतिलकं भालं विलासिन् कुरु, प्राणोश त्रुटितं पयोधरतटे हारं पुनर्योजय ।
इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना स्पृष्टा तेन तथैव जातमुलका प्राप्ता पुनर्मोहनम्" ॥
मध्याप्रगल्भयोर्भेदान्तराण्याह--
ते धीरा चाप्यधीरा च धीराधीरेति षङ्विधे ।
ते मध्याप्रगल्भे ।
तत्र--
प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेदुषा ॥६१॥
धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ।
तत्र मध्या धीरा यथा-- "तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाः कामिनां मण्डनश्रीर्- व्रजति हि सफलत्वं वल्लभालोकनेन" ॥
मध्यैव धीराधीरा यथा-- "बाले ! नाथ ! विमुञ्च मानिनि ! रुषं, रोषान्मया किं कृतं, खेदो ऽस्मासु, न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि ।
तत्किं रोदिषि गद्रदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते" ॥
इयमेवाधीरा यथा-- "सार्धं मनोरथशतैस्तव धूर्त ! कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या ।
अस्माकमस्ति नहिं कश्चिदिहावकाश- रस्तस्मात्कृतं चरणणतविडम्बनाभिः" ॥
प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ॥६२॥
उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः ।
तत्र प्रिये ।
यथा-- "एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद्दूरत- स्ताम्बूलानयनच्छलेन रभसाश्लेषो ऽपि संविघ्नितः ।
आलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थोकृतः" ॥
धीराधीरा तु सोल्लुण्ठभाषैतैः खेदयत्यमुम् ॥६३॥
अमुं नायकम् ।
यथा मम-- "अनलङ्कृतो ऽपि सुन्दर ? हरसि मनो मे यतः प्रसभम् ।
किं पुनरलङ्कृतस्त्वं सम्प्रति नखक्षतैस्तस्याः" ॥
तर्जयेत्ताडयेदन्या--
अन्या अधीरा ।
यथा-"शोणं वीक्ष्य मुखं-" इत्यत्र ।
अत्र च सर्वत्र "रुषा" इत्यनुवर्तते ।
--प्रत्येकं ता अपि द्विधा ।
कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ॥६४॥
ता अनन्तरोक्ताः षड्भेदा नायिकाः ।
यथा-- "दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति" ॥
मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश कीतिंताः ।
मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ॥६५॥
परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।
तत्र--
यात्रादिनिरतान्योढा कुलटा गलितत्रपा ॥६६॥
यथा-- "स्वामी निः श्वसिते ऽप्यसूयति, मनोजिघ्रः सपत्नीजनः, श्वश्रूरिङ्गीतदैवतं नयनयोरीहालिहो यातरः ।
तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक ! व्यर्थो ऽयमत्र श्रमः" ॥
अत्र हि मम परिणोतान्नाच्छादनादिदातृतया स्वाम्येव न तु वल्लभः ।
त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभो ऽसीत्यादिव्यङ्ग्यार्थवशादस्याः परनायकविषया रतिः प्रतीयते ।
कन्या त्वजातोपयमा सलज्जानवयौवना ।
अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वम् ।
यथा मालतीमाधवादौ मालत्यादिः ।
धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ॥६७॥
निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि ।
वित्तमात्रं समालोक्य सा रागं दर्शयेद्वहिः ॥६८॥
काममङ्गीकृतमपि परिक्षीणधनं नरम् ।
मात्रा निः सारयेदेषा पुनः संधानकाङ्क्षया ॥६९॥
तस्कराः पण्डका मूर्खाः सुखप्राप्तधनस्तथा ।
लिङ्गिनश्छन्नकामाद्या अस्याः प्रायेण वल्लभाः ॥७०॥
एषापि मदनायत्ता क्वापि सत्यानुरागिणि ।
रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ॥७१॥
पण्डको वातपाण्ड्वादिः ।
छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः ।
तत्ररागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः ।
रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः ।
पुनश्च--
अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ।
स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥७२॥
कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।
अन्या वासकसञ्जा स्याद्विरहोत्कण्ठिता तथा ॥७३॥
तत्र--
कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥७४॥
यथा-- "अस्माकं सखि वाससी--ऽित्यादि ।
पार्श्वमेति प्रियो यस्या अन्यसंयोगचिह्नितः ।
सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥७५॥
यथा-- "तदवितथमवादीः--" इत्यादि ।
अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥७६॥
क्रमाद्यथा-- न च मे ऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमभिगम्य वदेरभिदूति कचिदिति संदिदिशे ॥
"उत्क्षिप्तं करकङ्कणद्वयमिदं, बद्धा दृढं मेखला, यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता ।
आरब्धे रभसान्मया प्रियसखि ! क्रीडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः" ॥
संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।
अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ॥७७॥
विचित्रोज्ज्वलवेषा तु रणन्नूपुकङ्कणा ।
प्रमोदस्मेरवदना स्याद्वेश्यभिसरेद्यदि ॥७८॥
मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना ।
आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ॥७९॥
तत्राद्ये "उत्क्षिप्तम्" इत्यादि ।
अन्ययोः ऊह्यमुदाहरणम् ।
प्रसङ्गादभिसारस्थानानि कथ्यन्ते--
क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
मालापञ्चः श्मशानं च नद्यादीनां तटी तथा ॥८०॥
एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।
स्थानान्यष्टौ तथा ध्वान्तच्छन्ने कुत्रचिदाश्रये ॥८१॥
चाटुकारमपि प्राणनाथं राषादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥८२॥
यथा मम तातपादानाम्-- "नो चाटुश्रवणं कृतं, न च दृशा हारो ऽन्तिके वीक्षितः, कान्तस्य प्रियहेतवे निजसखीवाचो ऽपि दूरीकृताः ।
पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य इन्त ! सहसा कण्ठे कथं नार्पितः" ॥
प्रियः कृत्वापि संकेतं यस्या नायाति संनिधिम् ।
विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ॥८३॥
यथा-- "उत्तिष्ठ दूति, यामो यामो यातस्तथापि नायातः ।
यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः" ॥
नानाकार्यवशाद्यस्या दूरदेशं गतः पतिः ॥
सा मनोभवदुःखार्ता भवेत्प्रोषितभर्तृका ॥८४॥
यथा-- "तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्" ॥
कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि ।
सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा ॥८५॥
यथा राघवानन्दानां नाटके-- "विदूरे केयूरे कुरु, करयुगे रत्नवलयै- रलं, गुर्वो ग्रीवाभरणलतिकेयं किमनया ।
नवामेकामेकावलिमयि मयि त्वं विरचयेर्- न नेपथ्यं बहुतरमनङ्गोत्सवविधौ" ॥
आगन्तुं कृतचित्तो ऽपि दैवान्नायाति यत्प्रियः ।
तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ॥८६॥
यथा-- "किं रुद्धः प्रियया कयाचि, दथवा सख्या ममोद्वेजितः, किं वा कारणगौरवं किमपि, यन्नाद्यागतो वल्लभः ।
इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निः श्वसितं, चिरं च रुदितं, क्षिप्ताश्च पुष्पस्त्रजः" ॥
इति साष्टाविंशतिशतमुत्तममध्याधमस्वरूपेण ।
चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदाः ॥८७॥
इह च "परस्त्रियौ कन्यकान्योढे संकेतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूष कादिना सहाभिसरन्तयावभिसारिके, कुतो ऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे, इति त्र्यवस्थैवानयोरस्वाधींनप्रिययोरवस्थान्तरायोगात्" ।
इति कश्चित् ।
क्वचिदन्योन्यसाङ्कर्यमासं लक्ष्येषु दृश्यते ।
यथा-- "न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् ।
विट ! विटपममुं ददस्व तस्यै भवति यतः सदृशोश्चिराय योगः ।
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्कर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम्" ॥
मुहुरुपदसिताविवालिनादैवितरसि नः कलिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ ! कलिरेष महांस्त्वयाद्य दत्तः" ॥
"इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च" ॥
इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधीरमध्यताधीरप्रगल्भताभिः संकीर्णा ।
एकमन्यत्राप्यूह्यम् ।
इतरा अप्यसंख्यास्ता नोक्ता विस्तरश्ङ्कया ॥८८॥
ता नायिकाः ।
अथासामलङ्काराः--
यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।
अलङ्कारास्तत्र भावहावहेलास्त्रयो ऽङ्गजाः ॥८९॥
शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्थं धैर्यमित्येते सप्तैव स्युरयत्नजाः ॥९०॥
लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥९१॥
विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।
हसितं चकितं केलिरित्यष्टादशसंख्यकाः ॥९२॥
स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि ।
पूर्वे भावादयो धैर्यान्ता दश नायकानामपि संभवन्ति ।
किंतु सर्वे ऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णान्ति ।
तत्र भावः--
निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥९३॥
जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः ।
यथा-- "स एव सुरभिः कालः स एव मलयानिलः ।
सैवेयमबला किंतु मनो ऽन्यदिव दृश्यते" ॥
अथ हावः--
भ्रूनेत्रादिविकारैस्तु संभोगेञ्छाप्रकाशकः ।
भाव एवाल्पसंलक्ष्यविकारो हाव उच्यते ॥९४॥
यथा-- "विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन" ॥
अथ हेला--
हलात्यन्तसमालक्ष्यविकारः स्यात् स एव तु ।
स एव भाव एव ।
यथा-- "तह ते भ्क्तत्ति पौत्ता वहुए सव्वङ्गविब्भमा सअला ।
संसै अमुद्धभावा होइ चिरं जै सहीणं पि" ॥
अथ शोभा--
रूपयौवनलालित्यभोगाधैरङ्गभूषणम् ॥९५॥
शोभा प्रोक्ता--
तत्र यौवनशोभा यथा-- "असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे" ॥
एव मन्यत्रापि ।
अथ कान्तिः--
सैव कान्तिर्मन्यथाष्यायितद्युतिः ।
मन्मथोन्मषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते ।
यथा-- "नेत्रे खञ्जनगञ्जने--" इत्यत्र ।
अथ दीप्तिः--
कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥९६॥
यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम्-- "तारुण्यस्य विलासः समधिकलावण्यसंपदो हासः ।
धरणितलस्याभरणं युवजनमनसो वशीकरणम्" ॥
अथ माधुर्यम्--
सर्वावस्थाविशेषेषु माधुर्यं रमणीयता ।
यथा-- "सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोलर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमि हि मधुरणां मण्डनं नाकृतीनाम्" ॥
अथ प्रगल्भता--
निःसाध्वसत्वं प्रागलभ्यम्--
यथा-- "समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि ।
दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः" ॥
अथौदार्यम्--
--औदार्यं विनयः सदा ॥९७॥
यथा-- "न ब्रूते परुषां गिरं वितनुते न भ्रयुगं भङ्गरं, नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटे ऽप्यागसि ।
कान्ता गर्भगृहे गावाक्षविवरव्यापारिताक्ष्या बहीः सख्या वक्त्रमभिप्रयच्छति परं पर्यश्रुणी लोचने" ॥
अथ धैर्यम्--
मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला ।
यथा--ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी, दहतु मदनः, किंवा मृत्योः परेण विधास्यति ।
मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्" ॥
अथ लीला--
अङ्गैर्वेषैरलङ्कारैः प्रेमिभिर्वचनैरपि ॥९८॥
प्रीतिप्रयोजितैर्लोलां प्रियस्यानुकृतिं विदुः ।
यथा--मृणालव्यालवलया वेणीबन्धकपर्दिनी ।
हारनुकारिणी पातु लीलया पार्वती जगत् ॥
अथ विलासः--
यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥९९॥
विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना ।
यथा-- "अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत्" ॥
अथ विच्छत्तिः--
स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।
यथा-- "स्वच्छाम्भः स्नपनविधौतमङ्गमोष्टस्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासस्तु प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः" ॥
अथ विव्वोकः--
विव्वोकस्त्वतिगर्वेण वस्तुनीष्टे ऽप्यनादरः ॥१००॥
यथा-- "यासां सत्यपि सद्गुणानुसरणो दोषानुवृत्तिः परा, याः प्राणान् वरमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमते ऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसिदन्तु ते" ॥
अथ किलकिञ्चितम्--
स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
साङ्कर्यं किलाकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥१०१॥
यथा-- "पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखे ऽपि" ॥
अथ मोट्टायितम्--
तद्भावभाविते चित्ते वल्लभस्य कथादिषु ।
मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥१०२॥
यथा-- "सुभग ! त्वत्कथारम्भे कर्णकण्डूतिलालसा ।
उज्जृम्भवनाम्भोजा भिनत्त्यङ्गानि साङ्गना" ॥
अथ कुट्टमितम्--
केशस्तनाधरादीनां ग्रहे हर्षे ऽपि सम्भ्रमात् ।
आहुः कुट्टमितं नाम शिरः करविधूननम् ॥१०३॥
यथा-- "पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण" ॥
अथ विभ्रमः--
त्वरया हर्षरागादेर्दयितागमनादिषु ।
अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ॥१०४॥
यथा-- "श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया ।
भले ऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः" ॥
अथ ललितम्--
सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ।
यथा-- "गुरुतरकलनूपुरानुनादं सललितनतितवामपादपद्मा ।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम" ॥
अथ मदः--
मदो विकारः सौभग्ययौवनाद्यवलेपजः ॥१०५॥
यथा-- "मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न खलु भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः" ॥
अथ विहृतम्--
वक्तव्यकाले ऽप्यवचो व्रीडया विहृतं मतम् ।
यथा-- "दूरागतेन कुशलं पृष्टा नोवाच सा मया किञ्चित् ।
पर्यश्रुणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम्" ॥
अथ तपनम्--
तपनं प्रियविच्छेदे स्मरवेगोत्थचेष्टितम् ॥१०६॥
यथा मम-- "श्वासान्मुञ्चति भूतले विलुठति, त्वन्मार्गमालोकते, दर्घं रोदिति, विभिपत्य इतः क्षामां भुजावल्लरीम् ।
किञ्च, प्राणसमान ! काङ्क्षितवती स्वप्ने ऽपि ते सङ्गमं, निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि" ॥
अथ मौग्ध्यम्--
अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः ।
वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥१०७॥
यथा--के द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः ।
नाय ! मत्कङ्गणन्यस्तं येषां मुक्ताफलं फलम्" ॥
अथ विक्षेपः--
भूषाणामर्धरचना मिथ्या विष्वगवेक्षणम् ।
रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥१०८॥
यथा-- "धम्मिल्लमर्धमुक्तं कलयति तिलकं तथासकलम् ।
किञ्चिद्वदति रहस्यं चकितं विष्वग्विलोकते तन्वी ॥
अथ कुतूहलम्--
रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् ।
यथा-- "प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवीं ततान" ॥
अथ हसितम्--
हसितं तु वृथाहासो यौवनोद्भेदसम्भवः ॥१०९॥
यथा-- "अकस्मादेव तन्वङ्गी जहास यदियं पुनः ।
नूनं प्रसूनवाणो ऽस्यां स्वराज्यमधितिष्ठति ॥
अथ चकितम्--
कुतो ऽपि दयितस्याग्रे चकतं भयसम्भ्रमः ।
यथा-- "त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लोलाभिः किमु सति कारणो तरुण्यः ॥
अथ केलिः--
विहारे सह कान्तेन क्रीडितं कोलिरुच्यते ॥११०॥
यथा-- "व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी" ॥
अथ मुग्धाकन्ययोरनुरागेङ्गितानि--
दृष्टवा दर्शयति व्रीङां सम्मुखं नैव पश्यति ।
प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियम् ॥१११॥
बहुधा पृच्छ्यमानापि मन्दमन्दमधोमुखी ।
सगद्रदस्वरं किञ्चित्प्रियं प्रायेण भाषते ॥११२॥
अन्यैः प्रवर्तितां शश्वत्सावधाना च तत्कथाम् ।
शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ॥११३॥
अथ सकलानामपि नायिकानामनुरागेङ्गितानि--
चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।
विलोचनपथं चास्य न गच्छत्यनलङ्कृता ॥११४॥
क्वापि कुन्तलसंव्यानसंयमव्यपदेशतः ।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥११५॥
आच्छादयति वागाद्यैः प्रियस्य परिचारकान् ।
विश्वसित्यस्य मित्रेषु बहुमानं करोति च ॥११६॥
सखीमघ्ये गुणान् ब्रूते स्वधनं प्रददाति च ।
सुप्ते स्वपिति दुःखे ऽस्य दुःखं धत्ते सुखे सुखम् ॥११७॥
स्थिता दृष्टिपथे शश्वत्प्रिये पश्यति दूरतः ।
आभाषते परिजनं सम्मुखं स्मरिविक्रियम् ॥११८॥
यत्किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा ।
कर्णकण्डूयनं तद्वत्कबरीमोक्षसंयमौ ॥११९॥
जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति ।
भाले तथा वयस्याया रचयेत्तिलकक्रियाम् ॥१२०॥
अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते ।
दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ॥१२१॥
न मुञ्चति च तं देशं नायको यत्र दृश्यते ।
आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ॥१२२॥
दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते ।
नित्यं हष्यति तद्योगे वियोगे मलिना कृशा ॥१२३॥
मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् ।
प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ॥१२४॥
विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति ।
भाषते सूनृतं स्निग्धामनुरक्ता नितम्बिनी ॥१२५॥
एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः ।
मध्यव्रीडानि मध्यायाः स्त्रंसमानत्रपाणि तु ॥१२६॥
आन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः ।
दिङ्मात्रं यथा-- "अन्तिकगतमपि मामियमवलोकयतीव इन्त ! दृष्ट्वापि ।
सरसनखक्षतलक्षितमाविष्कुरुते भुजामूलम्" ॥
तथा--
लेख्यप्रस्थापनैः स्निग्धैर्वोक्षितैर्मृदुभाषितैः ॥१२७॥
दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते ।
दूत्यश्च--
दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ॥१२८॥
बाला प्रव्रजिता कारूः शिल्पिन्याद्यः स्वयं तथा ।
कारू रजकीप्रभृतिः ।
शिल्पिनी चित्रकारादिस्त्री ।
आदिशब्दात्ताम्बूलिकगान्धिकस्त्रीप्रभृतयः ।
तत्र सखी यथा-- "श्वासान्मुञ्चति--" इत्यादि ।
स्वयंदूती यथा मम-- "पन्थिअ पिआसिओ विअ लच्छीअसि जासि ता किमण्णत्तो ।
ण मणं वि वारओ इध अत्थि धरे घणरसं पिअन्ताणं" ॥
एताश्च नायिकाविषये नायकानामपि दूत्यो भवन्ति ।
दूतीगुणानाह--
कलाकौश्लमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ॥१२९॥
माधुर्यं नर्मविज्ञानं वाग्मिता चेत तद्गुणाः ।
एत अपि यथैचित्यादुत्तमाधममध्यमाः ॥१३०॥
एतादूत्यः ।
अथ प्रतिनायकः--
धीरोद्धतः पापकारी व्यसनी प्रतिनायकः ।
यथा रामस्य रावणः ।
अथेद्दीपनविभावाः--
उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥१३१॥
ते च--
आलम्बनस्य चेष्टाद्या देशकालादयस्तथा ।
चेष्टाद्या इत्याद्यशब्दाद्रूपभाषणादयः ।
कालादीत्यादिशब्दाच्चन्द्रचन्दनकोकिलालापभ्रमरभ्क्तंकारादयः ।
तत्र चन्द्रोदयो यथा मम-- "करमुदयमहीधरस्तनाग्रे गलिततमः पटलंशुके निवेश्य ।
विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः" ॥
यो यस्य रसम्योद्दीपनविभावः स तत्स्वरूपवर्णने वक्ष्यते ।
अथानुभावाः--
उद्बुद्धं कारणैः स्वैबहिर्भावं प्रकाशयन् ॥१३२॥
लोके यः कार्यरूपः सो ऽनुभावः काव्यनाट्ययोः ।
यः खलु लोके सीतादिचन्द्रादिभिः स्वैः स्वैरालम्बनोद्दीपनकारणे रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते, स काव्यनाट्ययोः पुनरनुभावः ।
कः पुनरसावित्याह--
उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः ॥१३३॥
तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि ।
तद्रूपा अनुभावस्वरूपाः ।
तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते ।
तत्र सात्त्विकाः--
विकाराः सत्त्वसंभूताः सात्त्विकाः परिकीर्तिताः ॥१३४॥
सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः ।
सत्त्वमात्रोद्भवत्वात्ते भिन्ना अष्यनुभावतः ।
"गोबलीवर्द्दन्ययेन" इति शेषः ।
के त इत्याह--
स्तम्भः स्वेदो ऽथ लोमाञ्चः स्वरभङ्गो ऽथ वेपथुः ॥१३५॥
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ।
तत्र--
स्तम्भश्चेष्टाप्रतीघातो भहर्षामयादिभिः ॥१३६॥
वपुर्जलोद्रमः स्वेदो रतिघर्मश्रमादिभिः ।
हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ॥१३७॥
मदसंमदपीडाद्यैर्वैस्वर्यं गद्रदं विदुः ।
रागद्वेषश्रणादिभ्यः कम्पो गात्रस्य वेपथुः ॥१३८॥
विषादमदरोषाद्यैर्वर्णान्यत्वं विवर्णता ।
अश्रु नेत्रोद्रवं वारि क्रोधदुःखप्रहर्षजम् ॥१३९॥
प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ।
यथा मम--तनुस्पर्शादस्या दरमुकुलिते हन्त ! नयने उदञ्चद्रोमाञ्चं व्रजति जडतामङ्गमखिलम् ।
कपोलौ घर्मार्द्रै ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति भ्क्तटिति ब्रह्म परमम्" ॥
एवमन्यत् ।
अथ व्यभिचारिणः--
विशेषादाभिमुख्येन चरणाद्व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥१४०॥
स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाद् व्यभिचारिणः कथ्यन्ते ।
के त इत्याह--
निर्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वष्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः ।
औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधूतिचपलता ग्लानिचिन्तावितर्काः ॥१४१॥
तत्र निर्वेदः--
तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् ।
दैन्यचिन्ताश्रुनिः श्वासवैवर्ण्योच्छवसितादिकृत् ॥१४२॥
तत्त्वज्ञानान्निर्वेदो यथा-- "मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना ।
दक्षिणावर्तशङ्खो ऽयं हन्त ! चूर्णोकृतो मया" ॥
अथावेगः--
आवेगः संभ्रमस्तत्र वर्षजे पिण्डिताङ्गता ।
उत्पातजे स्त्ररतताङ्गे, धूमाद्याकुलताग्निजे ॥१४३॥
राजविद्रवजादेस्तु शस्त्रनागादियोजनम् ।
गजादेः स्तम्भकम्पादि, पांस्वाद्याकुलतानिलात् ॥१४४॥
इष्टाद्धर्षाः, शुचो ऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम् ।
तत्र शत्रुजो यथा-- "अर्घ्यमर्घ्यमिति वादिनं नृपं सो ऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनार्चिषं ततः सन्धे दृशमुदग्रतारकम्" ॥
एवमन्यदूह्यम् ।
अथ दैन्यम्--
दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ॥१४५॥
यथा-- "वृद्धो ऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालो ऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसं निजबधूं श्वश्रूश्चिरं रोदिति" ॥
अथ श्रमः--
खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ।
यथा-- "सद्यः पुरीपरिसरे ऽपि शिरीषमृद्वी सीता जवात्र्त्रिचतुराणि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्" ॥
अथ मदः--
संमोहानन्दसंभेदो मदो मद्योपयोगजः ॥१४६॥
अमुना चोत्तमः शेते मध्यो हसति गायति ।
अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥१४७॥
यथा-- "प्रातिभं त्रिसरकेण गतानां वक्रवाक्यारचनामणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः" ॥
अथ जडता--
अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥१४८॥
यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये-- "णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिटिंठ ।
आलेक्खओपित्र्त्रं विअ खणमेत्तं तत्थ संट्ठिअं मुअसण्णां" ॥
अथोग्रता--
शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता ।
तत्र स्वेदशिरः कम्पतर्जनाताडनादयः ॥१४९॥
यथा-- "प्रणयिसखीसलीलपरिहासरसाधिगत- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः" ॥
अथ मोहः--
मोहो विचित्तता भीतिदुः खावेगानुचिन्ततैः ।
मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत् ॥१५०॥
यथा-- "तिव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव" ॥
अथ विबोधः--
निद्रापगमहेतुभ्यो विबोधश्चेतनागमः ।
जम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् ॥१५१॥
यथा-- "चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वते न प्रियाणा- मशिथिलभुजचक्राश्लेषभेदं तरुण्यः" ॥
अथ स्वप्नः--
स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः ।
कोपावेगभयग्लानिसुखदुः खादिकारकः ॥१५२॥
यथा-- "मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्- लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेन ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति" ॥
अथापस्मारः--
मनःक्षेपस्त्वपस्मारा ग्रहाद्यावेशनादिजः ।
भूपातकम्पप्रस्वेदफेनलालादिकारकः ॥१५३॥
"आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के" ॥
अथ गर्वः--
गर्वो मदः प्रभावश्रीर्विद्यासत्कुलतादिजः ।
अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥१५४॥
तत्र शौर्यगर्वो यथा-- "धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम्" ॥
अथ मरणम्--
शराद्यैर्मरणं जीवत्यागो ऽङ्गपतनादिकृत् ।
यथा-- "राममन्मथशरेण ताडिता दुः सहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा" ॥
अथालस्यम् --
आलस्यं श्रमगर्भाद्यैर् जाड्यं जम्भासितादिकृत् ॥१५५॥
यथा-- "न तथा भूषयत्यङ्ग न तथा भाषते सखीम् ।
जृम्भते मुहुरासीना बाला गर्भभरालसा" ॥
अथामर्षः--
निन्दाक्षेपापमानादेरमर्षो ऽभिनिविष्टता ।
नेत्ररागशिरः कम्पभ्रूभङ्गोत्तर्जनादिकृत् ॥१५६॥
यथा--प्रायश्चितं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥
अथ निद्रा--
चेतः संमीलनं निद्रा श्रमल्कममदादिजा ।
जृम्भाक्षिमीलनोच्छ्वासगात्रभङ्गादिकारणम् ॥१५७॥
यथा-- "सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् ।
निद्रार्धमीलिताक्षी सा लिखितेवास्ति मे हृदि" ॥
अथावहित्था--
भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था ।
व्यापारान्तरसक्त्यन्यथावभाषणविलोकनादिकरी ॥१५८॥
यथा-- "एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती" ॥
श्रथौत्सुक्यम्--
इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।
चित्ततापत्वरास्वेददीर्घनिः श्वसितादिकृत् ॥१५९॥
यथा-- "यः कौमारहरः स एव हि वरः--ऽित्यादौ (१५ पृदृ) अत्र यत् काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तं तद्रसनधर्मयोगित्वाद्व्यभिचारिभावस्यापि रसशबादवाच्यत्वेन गतार्थं मन्तव्यम् ।
अथोन्मादः--
चित्तसंमोह उन्मादः कामशोकभयादिभिः ।
अस्थानहासरुदितगीतप्रलपनादिकृत् ॥१६०॥
यथा मम-- "भ्रतार्द्विरेफ ! भवता भ्रमता समन्ता- त्प्राणाधिका प्रियतमा मम वीक्षिता किम् ? ।
(भ्क्तंकारमनुभूय सानन्दम् ।
) "ब्रषे किमोमिति सखे ! कथयाशु तन्मे किं किं व्यवस्यति कुतो ऽस्ति च कीदृशीयम्" ॥
अथ शङ्का--
परक्रौर्यात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम् ।
वैवर्ण्यकम्पवैस्वर्यपार्श्वालोकास्यशोषकृत् ॥१६१॥
यथा मम-- "प्राणोशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातङ्का रचयति चिरं चन्दनालेपनानि ।
धत्ते लाक्षामसकृदधरे दत्तदन्तावघाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती" ॥
अथ स्मृतिः--
सदृशज्ञानचिन्ताद्यैर्भ्रूसमुन्नयनादिकृत् ।
स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥१६२॥
यथा मम-- "मयि सकपटं किंचित्क्वापि प्रणीतविलोचने किमपि नमनं प्राप्ते तिर्यग्विजृम्भिततारकम् ।
स्मितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम्" ॥
अथ मतिः--
नीतिमार्गनुसृत्यादेरर्थनिर्धारणं मतिः ।
स्मेरता धृतिसंतोषौ बहुमानश्च तद्भवाः ॥१६३
यथा-- "असंशयं क्षअपरिग्रहक्षमा यादर्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः" ॥
अथ व्याधिः--
व्याधिर्ज्वरादिर्वाताद्यैभूमीच्छोत्कम्पनादिकृत् ।
तत्र दाहमयत्वे भूमीच्छादयः ।
शैत्यमयत्वे उत्कम्पनादयः ।
स्पष्टमुदाहरणम् ।
अथ त्रासः--
निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ॥१६४॥
यथा-- "परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि वोलोकनीयताम्" ॥
अथ व्रीडा--
धार्ष्ट्याभावो व्रडा वदनानमनादिकृद्दुराचारात् ।
यथा-- "मयि सकपटम्--" इत्यादि ( १७३ पृदृ) ।
अथ हर्षः--
हर्षस्त्विष्टावाप्तेर्मनः प्रसादो ऽश्रुगद्गदादिकरः ॥१६५॥
यथा-- "समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः ।
मुदा शरीरे प्रबभूव नात्मनः पयोधिरन्दूदयमूर्च्छितो यथा" ॥
अथासूया--
असूयान्यगुणर्द्धेनामौद्धत्यादसहिष्णुता ।
दोषोद्धोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् ॥१६६॥
यथा-- "अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्" ॥
अथ विषादः--
उपायाभावजन्मा तु विषादः सत्त्वसंक्षयः ।
निःश्वासोच्छवासहृत्तापसहायान्वेषणादिकृत् ॥१६७॥
यथा मम--एसा कुडिलघणोन चिउरकडप्पेण तुह णिबद्धा वेणी ।
मह सहि दारै ढंसै आअसधट्टीव्व कालौरैव्व हिअअं ॥
अथ धृतिः--
ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धतिः ।
सौहित्यवचनोल्लाससहासप्रतिभादिकत् ॥१६८॥
यथा मम-- "कृत्वा दीननिपीडनां निजजने बद्ध्वा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः ।
द्रव्यौघाः परिसंचिताः खलु मया यस्याः कृते सांप्रतं नीवारञ्जलिनापि केवलमहो सेयं कृतार्था तनुः" ॥
अथ चपलता--
मात्सर्यद्वेषरागादेश्चापल्यं त्वनवस्थितिः ।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥१६९॥
यथा-- "अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु ।
मुग्धामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाः" ॥
अथ ग्लानिः--
रत्यायासमनस्तापक्षुत्पिपासादिसंभवा ।
ग्लानिर्निप्प्राणताम्पकार्श्यानुत्साहतादिकृत् ॥१७०॥
यथा-- "किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्" ॥
अथ चिन्ता--
ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ।
यथा मम-- "कमलेण विअसिएणं संजोएन्ती विरोहिणं ससिबिम्बं ।
करअलपल्लत्थमुही किं चिन्तसि सुमुहि अन्तराहिअहिअआ" ॥
अथ तर्कः--
तर्का विचारः संदेहाद्भ्रूशिरो ऽङ्गुलिनर्तकः ॥१७१॥
यथा-- "किं रुद्धः प्रियया--" इत्यादि ।
एते च त्रयस्त्रिंशद्व्यभिचारिभेदा इति यदुक्तं तदुपलक्षणमित्याह-- रत्यादयो ऽप्यनियते रसे स्युर्व्यभिचारिणः ।
तथाहि--शृङ्गारे ऽनुच्छिद्यमानतयावस्थानाद् रतिरेव स्थायिशब्दवाच्या हासः पुनरुपद्यमानो व्यभिचार्येव ।
व्यभिचारिलक्षणायोगात् ।
तदुक्तम्-- "रसावस्थः परं भावः स्थायितां प्रतिपद्यते" ।
इति ।
तत्कस्य स्थायिनः कस्मिन् रसे सञ्चारित्वमित्याह-- शृङ्गारवीरयोर्हासो वीरे क्रोधस्तथा मतः ॥१७२॥
शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।
इत्याद्यन्यत्समुन्नेयं तथा भावितबुद्धिभिः ॥१७३॥
अथ स्थायिभावः--
अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः ।
आस्वादाङ्कुरकन्दो ऽसौ भावः स्थायीति संमतः ॥१७४॥
यदुक्तम्-- "स्त्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः ।
न तिरोधीयते स्थायी तैरसौ पुष्यते परम्" ॥
इति ।
तद्भेदानाह--
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमो ऽपि च ॥१७५॥
तत्र--
रतिर्मनो ऽनुकूलेर्ऽथे मनसः प्रवणायितम् ।
वागादिवैकृतैश्चेतोविकासो हास इष्यते ॥१७६॥
इष्टनाशादिभिश्चेतोवैक्लव्यं शोकशब्दभाक् ।
प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते ॥१७७॥
कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।
रौद्रशक्त्या तु जनितं चित्तवैक्लव्यं भयम् ॥१७८॥
दोषेक्षणादिभिर्गर्हा जुगुप्सा विस्मयोद्भवा ।
विविधेषु पदार्थेषु लोकसीमातिवर्तिषु ॥१७९॥
विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ।
शमो निरीहास्थायां स्वात्मविश्रामजं सुखम् ॥१८०॥
यथा मालतीमाधवे रतिः ।
लटकमेलके हासः ।
रामायणो शोकः ।
महाभारते शमः ।
एवमन्यत्रापि ।
एते ह्येतेष्वन्तरा उत्पद्यमानैस्तैस्तैविरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः ।
किं च--
नानाभिनयसंबन्धान् भावयन्ति रसान् यतः ।
तस्माद्भावा अमी प्रोक्ताः स्थायिसंचारिसात्त्विकाः ॥१८१॥
यदुक्तम्-- "सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्" अथ रसस्य भेदानाह--
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्सो ऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥१८२॥
तत्र शृङ्गारः--
शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः ।
उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥१८३॥
परोढां वर्जयित्वा तु वेश्यां चाननुरागिणीम् ।
आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ॥१८४॥
चन्द्रचन्दननरोलम्बरुताद्युद्दीपनं मतम् ।
भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ॥१८५॥
त्यक्त्वौग्र्यमरणालस्यजुगुष्साव्यभिचारिणः ।
स्थायिभावो रतिः श्यामवर्णो ऽयं विष्णुदैवतः ।
यथा-- "शून्यं वासगृहम्--" इत्यादि ।
अत्रोक्तस्वरूपः पतिः, उक्तस्वरूपा च बाला आलम्बनविभावौ ।
शून्यं वासगृहमुद्दीपनविभावः ।
चुम्बनमनुभावः ।
लज्जाहासौ व्यभिचारिणौ ।
एतैरभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपतां भजते ।
तद्भेदावाह-
विप्रलम्भो ऽथ संभोग इत्येष द्विविधो मतः ॥१८६॥
तत्र--
यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भो ऽसा ।
अभीष्टं नायकं नायिकां वा ।
स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्धा स्यात् ॥१८७॥
तत्र--
श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः ।
दशाविशेषो यो ऽप्राप्तौ पूर्वरागः स उच्यते ॥१८८॥
श्रवणं तु भवेत्तत्र दूतवन्दीसखीमुखात् ।
इन्द्रजाले च चित्रे च साक्षात्स्वष्ने च दर्शनम् ॥१८९॥
अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च ।
उन्मादो ऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः ॥१९०॥
अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनम् ।
उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ॥१९१॥
अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशम् ।
व्याधिस्तु दीर्घनिः श्वासपाण्डुताकृशतादयः ॥१९२॥
जडता हीनचेष्टत्वमङ्गानां मनसस्तथा ।
शेषं स्पष्टम् ।
क्रमेणोदाहरणानि-- "प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्राढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
यास्वन्तः करणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः" ॥
अत्र मालतीसाक्षाद्दर्शनप्ररूढरागस्य माधवस्याभिलाषः ।
"कथमीक्षे कुरङ्गाक्षीं साक्षाल्लक्ष्मीं मनोभुवः ।
इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम्" ॥
अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता ।
इदं मम ।
"मयि सकपटम्ऽ--इत्यादौ नायकस्य स्मृतिः ।
नेत्रे खञ्जनगञ्जनेऽ--इत्यादौ गुणकथनम् ।
"श्वासान्मुञ्चतिऽ--इत्यादौ उद्वेगः ।
"त्रिभागशेषासु निशासु च क्षमं निमील्य नेत्रे सहसा व्यबुध्यन ।
क्वः नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना" ॥
अत्र प्रलापः ।
"भ्रातर्द्विरेफऽ--इत्यादौ उन्मादः ।
"पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः" ॥
अत्र व्याधिः ।
"भिसणीअलसअणीए निहिअं सव्वं सुणिच्चलं अङ्गं ।
दीहो णीसासहरो एसो साहेइ जीऐत्ति परं" ॥
अत्र जडता ।
इदं मम ।
रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते ॥१९३॥
जातप्रायं तु तद्वाच्यं चेतसाकाङ्क्षितं तथा ।
वर्ण्यते ऽपि यदि प्रत्युञ्जीवनं स्यादढूरतः ॥१९४॥
तत्राद्यं यथा-- "शेफालिकां विदलितामवलोक्य तन्वी प्राणान् कथंचिदपि धारयितुं प्रभूता ।
आकर्ण्य संप्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपस्विनी सा" ॥
द्वितीयं यथा-- "रोलम्बाः परिपूरयन्तु हरितो भ्क्तंकारकोलाहलैर्-- मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि ।
माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी" ॥
ममैतौ ।
तृतीयं यथा--कादम्बर्यां महश्वेतापुण्डरीकवृत्तान्ते ।
एष च प्रकारः करुणः विप्रलम्भविषय इति वक्ष्यामः ।
केचित्तु-- "नयनप्रीतिः प्रथमं चित्तासङ्गस्ततो ऽथ संकल्पः ।
निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥
उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्यु" ।
इत्याहुः ।
तत्र च--आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः ।
इङ्गितान्युक्तनि ।
यथा रत्नाववल्यां सागरिकावत्सराजयोः ।
आदौ पुरुषानुरोगे संभवत्यप्येवमधिकं हृदयङ्गमं भवति ।
नीली कुसुम्भं मञ्जिष्ठा पूर्वरागो ऽपि च त्रिधा ॥१९५॥
तत्र--
न चातिशोभते यन्नापैति प्रेम मनोगतम् ।
तन्नीलीरागमाख्यातं यथा श्रीरामसीतयोः ॥१९६॥
कुसुम्भरागं तत्प्राहुर्यदपैति च शोभते ।
मञ्जिष्ठारागमाहुस्तद् यन्नापैत्यतिशोभते ॥१९७॥
अथ मानः--
मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः ।
द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि ॥१९८॥
प्रेम्णः कुटिलगामित्वात् कोपो यः कारणं विना ।
द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः ।
उदाहरणम् ।
तत्र नायकस्य यथा-- "अलिअपसुत्तअ णिमिलिअच्छ देसु सुहअ मज्भ्क्त ओआसं ।
गण्डपरिउम्बणापुलैअङ्ग ! ण पुणो चिराइस्सं" ॥
नायिकाया यथा कुमारसंभवे संध्यावर्णनावसरे ।
उभयोर्यथा-- "पणअकुविआणं देण्ह विं अलिअसुत्ताणां माणैल्लाणं ।
णिच्चलणिरुद्धणीसासदिण्णअण्णाणं को मल्लो" ॥
अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु संभोगसञ्चार्याख्यभावत्वम् ।
यथा-- "भ्रूभङ्गे रचिते ऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सम्मितमिदं दग्धाननं जायते ।
कार्कश्यं गमिते ऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने" ॥
यथा वा-- "एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थिते ऽप्यनुनये संरक्षतोर्गौरवम् ।
दंपत्योः शनकैरपाङ्गबलनान्मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः" ॥
प्रत्युरन्यप्रियासङ्गे दृष्टे ऽथानुमिते श्रुते ॥१९९॥
ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा ।
उत्स्वष्नायितभोगाङ्कगोत्रस्खलनसंम्भवा ॥२००॥
तत्र दृष्टे यथा-- "विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुरूरे" ॥
संभोगचिह्नेनानुमिते यथा-- "नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नपवरिमलगन्धः केन शक्यो वरीतुम्" ॥
एवमन्यदपि ।
साम भेदो ऽथ दानं च नत्युपेक्षे रसान्तरम् ।
तद्भङ्गाय पतिः कुर्यात् षडुपायानिति क्रमात् ॥२०१॥
तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम् ।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥२०२॥
सामादौ तु परिक्षीणो स्यादुपेक्षावधीरणम् ।
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥२०३॥
यथा-- "नो चाटुश्रवणं कृतम्ऽ--इत्यादि (१२९ पृदृ) ।
अत्र सामादयः पञ्च सूचिताः ।
रसान्तरमूह्यम् ॥
अथ प्रवासः--
प्रवासो भिन्नदेशित्वं कार्याच्छापाच्च संभ्रमात् ।
तत्राङ्गचेलमालिन्यमेकवेणीधरं शिरः ॥२०४॥
निः श्वासोच्छ्वासरुदितभूमिपातादि जायते ।
किञ्च--
अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशतारुचिः ॥२०५॥
अधृतिः स्यादनालम्बस्तमनयोन्मादमूर्च्छनाः ।
मृतिश्चेति क्रमाज्ज्ञेया दश स्मरदशा इह ॥२०६॥
असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः ।
अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताधृतिः ॥२०७॥
अनालम्बनता चापि शून्यता मनसः स्मृता ।
तन्मयं तत्प्रकाशो हि बाह्याभ्यन्तरतस्तथा ।
शेषं स्पष्टम् ।
एकदेशतो यथा मम तातपादानाम् -- "चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली, प्रत्यूषक्षणदेशपाण्डु वदनं श्वासैकखिन्नो ऽधरः ।
अम्भः शीकरपद्मिनीकिसलयैर्नापैति तापः शमं, को ऽस्याः प्रार्थितदुर्लभो ऽस्ति सहते दीनां दशामीदृशीम्" ॥
भावी भवन्भूत इति त्रिधा स्यात्तत्र कार्यजः ॥२०८॥
कार्यस्य बुद्धिपूर्वकत्वात्त्रैविध्यम् ।
तत्र भावी यथा मम-- "यामः सुन्दरि, याहि पान्थ, दयिते शोकं वृथा मा कृथाः, शोकस्ते गमने कुतो मम ततो वाष्पं कथं मुञ्चसि ।
शीघ्रं न व्रजसीति मां गमयितुं कस्मादियं ते त्वरा, भूयानस्य सह त्वया जिगमिषोर्जोवस्य मे संभ्रमः" ॥
भवन् यथा-- "प्रस्थानं वबयैः कृतं, प्रियसखैरस्त्रैजस्त्रं गतं, धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित ! प्रियसुहृत्सार्थः किमु त्यज्यते" ॥
भूतो यथा-- "चिन्ताभिः स्तिमितम्-ऽित्यादि (२०० पृदृ) शापद्यथा-- "तां जानीयाः--ऽित्यादि (१३० पृदृ) संभ्रमो दिव्यमानुषनिर्घातोत्पातादिजः ।
यथा--विक्रमोर्वश्यामुर्वशीपुरूरवसोः ।
अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानानुभयेषामप्युभयत्र सम्भवे ऽपि चिरन्तनप्रसिद्ध्या विविच्य प्रतिपादनम् ।
अथ करुणविप्रलम्भः--
यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनार्लभ्ये ।
विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः ॥२०९॥
यथा--कादम्बर्यां तुण्डरीकमहाश्वेतावृत्तान्ते ।
पुनरलभ्ये शरीरान्तरेण बालभ्ये तु करुणाख्य एव रसः ।
किञ्चात्राकाशसारस्वतीभाषानन्तरमेव शृङ्गारः, सगमप्रत्याशाया रतेरुद्भवात् ।
प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते ।
यच्चात्र "सङ्गमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव" इति केचिदाहुः, तदन्ये "मरणरूपविशेषसंभवात्तद्भिन्नमेव" इति मन्यन्ते ।
अथ संभोगः--
दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
यत्रानुरक्तावन्योन्यं संभोगो ऽयमुदाहृतः ॥२१०॥
आदिशब्दादन्योन्याधरपानचुम्बनादयः ।
यथा-- "शून्यं वासगृहम्--" (२२ पृदृ) इत्यादौ ।
सख्यातुमशक्यतया चुम्बनपरिरम्भणादिवहुभेदात् ।
अयमेक एव धीरैः कथितः संभोगशृङ्गारः ॥२११॥
तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः ।
जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ॥२१२॥
अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च ।
तथा च भरतः-- "यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)" इति ।
किञ्च--
कथितश्चतुर्विधो ऽसावानन्तर्यात्तु पूर्वरागादेः ॥२१३॥
यदुक्तम्-- "न बिना विप्रलम्भेन संभोगः पुष्टिमश्नुते ।
कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते" ॥
इति ।
तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः ।
प्रवासानन्तरं सम्भोगो यथा मम तातपादानाम्-- "क्षेमं ते ननु पक्ष्मलाक्षि !- किसअं खेमं महङ्गं दिढं, एतादृक्कृशता कुतः तुह पुणो पुट्ठं सरीरं जदो ।
केनाहं पृथुलः प्रये !- पणैणीदेहस्स सम्मेलणात्, त्वत्तः सुभ्रु ! न कपि मे, जै इदं खेमं कुदो पुच्छसि" ॥
एवमन्यत्राप्यूह्यम् ।
अथ हास्यः--
विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् ।
हास्यो हाससथायिभावः श्वेतः प्रथमदैवतः ॥२१४॥
विकृताकारवाक्चेष्टं यमालोक्य हसेज्जनः ।
तमत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ॥२१५॥
अनुभावो ऽक्षसङ्कोचवदनस्मेरतादयः ।
निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥२१६॥
ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च ।
नीचानामपहसितं तथातिहसितं तदेष षड्भेदः ॥२१७॥
ईषद्विकासिनयनं स्मितं स्यात् स्पन्दिताधरम् ।
किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥२१८॥
मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् ।
अपहसितं सास्त्राक्षं विक्षिप्ताङ्गं च भवत्यतिहसितम् ॥२१९॥
यथा-- "गुरोगिरः पञ्चदिनान् अधीत्य वेदान्तशास्त्राणि दिनत्रयं च ।
अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः" ॥
अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः ।
अत्र च--
यस्य हासः स चेत क्वापि साक्षान्नैव निबध्यते ।
तथाष्येष विभावादिसामर्थ्यादुपलभ्यते ॥२२०॥
अभेदेन विभावादिसाधारण्यात्प्रतीयते ।
सामाजिकैस्ततो हास्यरसो ऽयमनुभूयते ॥२२१॥
एवमन्येष्वपि रसेषु बोद्धव्यम् ।
अथ करुणः--
इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् ।
धीरैः कपोतवर्णो ऽयं कथितो यमदैवतः ॥२२२॥
शोको ऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् ।
तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥२२३॥
अनुभावा दैवनिन्दाभूपातक्रन्दितादयः ।
वैवर्ण्योच्छ्वासनिः श्वासस्तम्भप्रलपनानि च ॥२२४॥
निर्वेदमोहापस्माख्याधिग्लानिस्मृतिश्रमाः ।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥२२५॥
शोच्यं विनष्टबन्धुप्रभृति ।
यथा मम राघवविलासे-- "विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः ।
अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम्" ॥
अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा ।
एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम् ।
परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः ।
अस्य करुणविप्रलम्भाद् भेदमाह--
शोकस्थायितया भिन्नो विप्रलम्भादयं रसः ।
विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ॥२२६॥
अथ रौद्रः--
रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः ।
आलम्बनमरिस्तत्र तच्चेष्चोद्दीपनं मतम् ॥२२७॥
मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव ।
संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा ॥२२८॥
भ्रविभङ्गौष्ठनिर्देशबाहुस्फोटनतर्जनाः ।
आत्मावदानकथनमायुधोत्क्षेपणानि च ॥२२९॥
अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः ।
उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ॥२३०॥
मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः ।
यथा-- "कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम्" ॥
अस्य युद्धवीराद्भेदमाह--
रक्तास्येनेत्रता चात्र भेदिनी युद्धवीरतः ॥२३१॥
अथ वीरः--
उत्तमप्रकृतिर्वोर उत्साहस्थायिभावकः ।
महेन्द्रदैवतो हेमवर्णो ऽयं समुदाहृतः ॥२३२॥
आलम्बनविभावास्तु विजेतव्यादयो मताः ।
विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः ।
अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ॥२३३॥
सञ्चारिणास्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः ।
स च दानदर्मयुद्धैर्दयया च समन्वितश्चतुर्धा स्यात् ॥२३४॥
स च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः ।
तत्र दानवीरो यथा परशुरामः-- "त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः" इति ।
अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः, संप्रदानभूतब्राह्मणैरालम्बनविभावैः सत्त्वाध्यवसायादिभिश्चोद्दीपनविभावैविभावितः, सर्वस्वत्यागादिभिरनुभावैरनुभावितो, हर्षधृत्यादिभैः संचारिभिः पुष्टिं नीतो दानवीरतां भजते ।
धर्मवीरो यथा युधिष्ठिरः-- "राज्यं च वसु देहश्च भार्या भ्रातृसुताश्च ये ।
यच्च लोके ममायत्तं तद् धर्माय सदोद्यतम्" ॥
युद्धवीरो यथा श्रीरामचन्द्रः-- भो लङ्केश्वर ! दीयतां जनकजा रामः स्वयं याचते को ऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्रतम् ।
नैवं चेत् खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्त्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः" ॥
दयावीरो यथा जीमूतवाहनः-- "शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवापि तावत् किं भक्षणात्त्वं विरतो गरुत्मन् ! ।
एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः ।
अथ भयानकः--
भयानको भयस्थायिभावो भूताधिदैवतः" ।
स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥२३५॥
यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् ।
चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥२३६॥
अनुभावो ऽत्र वैवर्ण्यगद्रदस्वरभाषणम् ।
प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥२३७॥
जुगुष्सावेगसंमोहसंत्रासग्लानिदीनताः ।
शङ्कापस्मारसम्भ्रान्तिमृत्य्वाद्या व्यभिचारिणाः ॥२३८॥
यथा-- "नष्टं वर्षवरैः--" इत्यादि (१०५ पृदृ) अथ बीभत्सः--
जुगुष्सास्थायिभावस्तु बीभत्सः कथ्यते रसः ।
नीलवर्णो महाकालदैवतो ऽयमुदाहृतः ॥२३९॥
दुर्गन्धमांसरुंधिरमेदां स्यालम्बनं मतम् ।
तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥२४०॥
निष्ठीवनास्यवलननेत्रसङ्कोचनादयः ।
अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः ॥२४१॥
माहो ऽपस्मार आवेगो व्याधिश्च मरणादयः ।
यथा-- "उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आतेः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दङ्कस्थादस्थिंस्थं स्थपुटगतमपि क्रव्यमध्यग्रमत्ति" ॥
अथाद्भुतः--
अद्भुतो विस्मयस्थायिभावो गन्धर्वदैवतः ॥२४२॥
पीतवर्णो वस्तु लोकातिगामालम्बनं मतम् ।
गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ॥२४३॥
स्तम्भः स्वेदो ऽथ रोमाञ्चगद्रदस्वरसंभ्रमः ।
तथा नेत्रविकासाद्या अनुभावाः प्रकीर्तिताः ॥२४४॥
वितर्कावेगसंभ्रान्तिहर्षाद्या व्यभिचारिणः ।
यथा-- "दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत-- ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति" ॥
अथ शान्तः--
शान्तः शमस्थयिभाव उत्तमप्रकृतिर्मतः ॥२४५॥
कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ।
अनित्यत्वादिनाशेषवस्तुनिः सारता तु या ॥२४६॥
परमात्मस्वरूपं वा तस्यालम्बनमिष्यते ।
पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ॥२४७॥
महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ।
रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ॥२४८॥
निर्वेदहर्षस्मरणमतिभूतदयादयः ।
यथा-- "रथ्यान्तश्चरतस्तथा धृतजरत् कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः ।
निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति" ॥
पुष्टिस्तु महाभारतादौ द्रष्टव्या ।
अस्य दयावीरादेः सकाशाद् भेदमाह--
निरहङ्काररूपत्वाद् दयावीरादिरेष नो ॥२४९॥
दयावीरादौ हि नागानन्ददौ जीमूतवाहनादेरन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवतित्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते ।
शान्तस्तु सर्वाकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रांन्तर्भावमर्हति ।
ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् ।
ननु-- "न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कचिदिच्छा ।
रसः स शान्तः कथितो मनीन्द्रैः सर्वेषु भावेषु समप्रमाणः" ॥
इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र सञ्चार्यादीनामभावात् कथं रसत्वमित्युच्यते--
युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ।
रसतामेति तदस्मिन् सञ्चार्यादेः स्थितिश्च न विरुद्धा ॥२५०॥
यश्चास्मिन्सुखाभावो ऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः ।
उक्तं हि- "यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" ॥
"सर्वाकारमहङ्काराहितत्वं ब्रजन्ति चेत् ।
अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा" ॥
आदिशब्दाद्धर्मवीरदानवीरदेवताविषयरतिप्रभृतयः ।
तत्र देवताविषया रतिर्यथा-- कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानो ऽञ्जलिपुटम् ।
अये गौरीनाथ ! त्रिपुरहर ! शंभो ! त्रिनयन ! प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान्" ॥
अथ मुनीन्द्रसंमतो वत्सलः--
स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतम् ॥२५१॥
उद्दीपनानि तच्चेष्टा निद्याशौर्यदयादयः ।
आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम् ॥२५२॥
पुलकानन्दवाष्पाद्या अनुभावाः प्रकीर्तिताः ।
सञ्चारिणो ऽनिष्टशङ्काहर्षगर्वादयो मताः ॥२५३॥
पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः ।
यथा-- "यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलीम् ।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोर्ऽभकः" ॥
एतेषां च रसानां परस्परविरोधमाह--
आद्यः करुणबीभत्सरौद्रवीरभयानकैः ॥२५४॥
भयानकेन करुणोनापि हास्यो विरोधभाक् ।
करुणो हास्यशृङ्गारसाभ्यामपि तादृशः ॥२५५॥
रौद्रस्तु हास्यशृङ्गरभयानकरसैरपि ।
भयानकेन शान्तेन तथा वीररसः स्मृतः ॥२५६॥
शृङ्गारवीरराद्राख्यहास्यशान्तैर्भयानकः ।
शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः ॥२५७॥
शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता ।
आद्यः शृङ्गारः ।
एषां च समावेशप्रकारा वक्ष्यन्ते ।
कुतो ऽपि कारणात्क्वापि स्थिरतामुपयन्नपि ॥२५८॥
उन्मादादिर्न तु स्थायी न पात्रे स्यैर्यमेति यत् ।
यथा विक्रमोर्वश्यां चतुर्थे ऽङ्के पुरूरवस उन्मादः ।
रसभावौ तदाभासौ भावस्य प्रशमोदयौ ॥२५९॥
सन्धिः शबालता चेति सर्वे ऽपि रसनाद्रसाः ।
रसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः ।
भावादय उच्यन्ते--
सञ्चारिणः प्रधानानि देवादिविषया रतिः ॥२६०॥
उद्बुद्धमात्रः स्थायी च भाव इत्यभिधयते ।
"न भावहीनो ऽस्ति रसो न भावो रसवजितः ।
परस्परकृता सिद्धिरनयो रसभावयोः" ॥
इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्रधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिवषया च रतिरुद्बुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः ।
तत्र व्यभिचारी यथा-- "एवंवादिनि देवर्षौ--ऽित्यादि(१७० पृ.) ।
अत्रावहित्था ।
देवविषया रतिर्यथा मुकुन्दमालायाम्-- "दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक ! प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणो ऽपि चिन्तयामि" ॥
मुनिविषया रतिर्यथा-- "विलोकनेनैव तवामुना मुने ? कृतः कृतार्थो ऽस्मि निबर्हितांहसा ।
तथापि शुश्रषुरहं गरीयसीर्गिरो ऽथवा श्रेयसि केन तृप्यते" ॥
राजविषया रतिर्यथा मम-- "त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम् ।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः" ॥
एवमन्यत् ।
उद्बुद्धमात्रस्थायिभावो यथा-- "हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि" ॥
अत्र पार्वतीविषया भगवतो रतिः ।
ननूक्तं प्रपाणकरसवद्विभावादीनामेको ऽत्राभासो रस इति ।
तत्र सञ्चारिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्युच्यते--
यथा मरिचखण्डादेरेकीभावे प्रपाणके ॥२६१॥
उद्रेकः कस्यचित्क्वापि तथा सञ्चारिणो रसे ।
अथ रसाभासभावाभासौ--
अनौचित्यप्रवृत्तत्व आभासो रसभावयोः ॥२६२॥
अनौचित्यं चात्र रसानां भारतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरं बोध्यम् ।
तच्च बालव्युत्पत्तये एकदेशतो दर्श्यते--
उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च ।
बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ॥२६३॥
प्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्यगादिगते ।
शृङ्गारे ऽनौचित्यं रौद्रे गुर्वादिगतकोपे ॥२६४॥
शान्ते च हीननिष्ठे, गुर्वाद्यलम्बने हास्ये ।
व्रह्मवधाद्युत्साहे ऽधमपात्रगते तथा वारे ॥२६५॥
उत्तमपात्रगतत्वे भयानके ज्ञेयमेवन्यत्र ।
तत्र रतेरुपनायकनिष्ठत्वे यथा मम-- "स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमः सन्ततिः ।
तन्मे सुन्दर ! मुञ्च, कृष्ण ! सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः" ॥
बहुनायकनिष्ठत्वे यथा-- "कान्तास्त एव भुवनत्रितये ऽपि मन्ये येषां कृते सुतनु ! पाणडुरयं कपोलः" ।
अनुभयनिष्ठत्वे यथा--मालतीमाधवे नन्दनस्य मालत्याम् ।
"पश्चादुभयनिष्ठत्वे ऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्" इति श्रीमल्लोचनकाराः ।
तत्रोदाहरणं यथा--रत्नावल्यां सागरिकाया अन्योन्यसंदर्शनात्प्राग्वत्सराजे रतिः ।
प्रतिनायकनिष्ठत्वे यथा--इयग्रीवव धे हयग्रीवस्य जलक्रीडावर्णने ।
अधमपात्रगतत्वे यथा-- "जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमावनि कापि भिल्ली ।
अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्रा" ॥
तिर्यगादिगतत्वे यथा-- "मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती ।
चञ्चद्विपञ्चीकलनादभङ्गीसंगीतमङ्गीकुरुते स्म भृङ्गी" ॥
आदिशब्दत्तापसादयः ।
रौद्राभासो यथा-- "रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहुर्- मुक्त्वा कर्णमपेतभीर्धृ तधनुर्बाणो हरेः पश्यतः ।
आध्मातः कटुकोक्तिभिः स्वमसकृद्दोविक्रमं कीर्तय- न्नंसास्फोटपटुर्युधिष्ठिरमसौ इन्तुं प्रविष्टोर्ऽजुनः" ॥
भयानकाभासो यथा-- "अशक्नुवन् सोढुमधीरलोचनः सहस्त्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः" ॥
स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः ।
एवमन्यत्र ।
भावाभासो लज्जादिके तु वेश्यादिविषये स्यात् ॥२६६॥
स्पष्टम् ।
भावस्य शान्तावुदये संधिमिश्रितयोः क्रमात् ।
भावस्य शान्तिरुदयः संधिः शबलता मता ॥२६७॥
क्रमेण यथा-- "सुतनु ! जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधो ऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित्" ॥
अत्र बाष्पमोचनेनेर्ष्याख्यसञ्चारिभावस्य शमः ।
"चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते ।
व्रजति रमणो निः श्वस्योच्चौ स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता" ॥
अत्र विषादस्योदयः ।
"नयनयुगासेचनकं मानसवृत्त्याप दुष्प्रापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति चमे" ॥
अत्र हर्षविषादयोः संधिः ।
"क्वाकार्यं , शशलक्ष्मणः क्व च कुलं, भूयो ऽपि दृश्यन्ते सा, दोषाणां प्रशमाय मे श्रुतमहो, कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषा कृतधियः, स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्यो ऽधरं धास्यति" ॥
अत्र वितकारैत्सुक्यमतिस्मरणशङ्कादैन्यधूतिचिन्तानां शबलता ।
इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः ।