देवी कवच
विनियोग – ॐ अस्य श्रीदेव्या: कवचस्य ब्रह्मा ऋषि:, अनुष्टुप् छन्द:, ख्फ्रें चामुण्डाख्या महा-लक्ष्मी: देवता, ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य: शक्तय:, ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजानि, श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोग: ।
ऋष्यादि-न्यास – ब्रह्मर्षये नम: शिरसि, अनुष्टुप् छन्दसे नम: मुखे, ख्फ्रें चामुण्डाख्या महा-लक्ष्मी: देवतायै नम: हृदि, ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य: शक्तिभ्यो नम: नाभौ, ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजेभ्यो नम: लिंगे, श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोगाय नम: सर्वांगे ।
ध्यान-
ॐ रक्ताम्बरा रक्तवर्णा, रक्त-सर्वांग-भूषणा ।
रक्तायुधा रक्त-नेत्रा, रक्त-केशाऽति-भीषणा ॥१॥
रक्त-तीक्ष्ण-नखा रक्त-रसना रक्त-दन्तिका ।
पतिं नारीवानुरक्ता, देवी भक्तं भजेज्जनम् ॥२॥
वसुधेव विशाला सा, सुमेरू-युगल-स्तनी ।
दीर्घौ लम्बावति-स्थूलौ, तावतीव मनोहरौ ॥३॥
कर्कशावति-कान्तौ तौ, सर्वानन्द-पयोनिधी ।
भक्तान् सम्पाययेद् देवी, सर्वकामदुघौ स्तनौ ॥४॥
खड्गं पात्रं च मुसलं, लांगलं च बिभर्ति सा ।
आख्याता रक्त-चामुण्डा, देवी योगेश्वरीति च ॥५॥
अनया व्याप्तमखिलं, जगत् स्थावर-जंगमम् ।
इमां य: पूजयेद् भक्तो, स व्याप्नोति चराचरम् ॥६॥
॥मार्कण्डेय उवाच ॥
ॐॐॐ यद् गुह्यं परमं लोके, सर्व-रक्षा-करं नृणाम् ।
यन्न कस्यचिदाख्यातं, तन्मे ब्रूहि पितामह ॥१॥
॥ब्रह्मोवाच ॥
ॐ अस्ति गुह्य-तमं विप्र सर्व-भूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं, तच्छृणुष्व महामुने ॥२॥
प्रथमं शैल-पुत्रीति, द्वितीयं ब्रह्म-चारिणी ।
तृतीयं चण्ड-घण्टेति, कूष्माण्डेति चतुर्थकम् ॥३॥
पंचमं स्कन्द-मातेति, षष्ठं कात्यायनी तथा ।
सप्तमं काल-रात्रीति, महागौरीति चाष्टमम् ॥४॥
नवमं सिद्धि-दात्रीति, नवदुर्गा: प्रकीर्त्तिता: ।
उक्तान्येतानि नामानि, ब्रह्मणैव महात्मना ॥५॥
अग्निना दह्य-मानास्तु, शत्रु-मध्य-गता रणे ।
विषमे दुर्गमे वाऽपि, भयार्ता: शरणं गता ॥६॥
न तेषां जायते किंचिदशुभं रण-संकटे ।
आपदं न च पश्यन्ति, शोक-दु:ख-भयं नहि ॥७॥
यैस्तु भक्त्या स्मृता नित्यं, तेषां वृद्धि: प्रजायते ।
प्रेत संस्था तु चामुण्डा, वाराही महिषासना ॥८॥
ऐन्द्री गज-समारूढ़ा, वैष्णवी गरूड़ासना ।
नारसिंही महा-वीर्या, शिव-दूती महाबला ॥९॥
माहेश्वरी वृषारूढ़ा, कौमारी शिखि-वाहना ।
ब्राह्मी हंस-समारूढ़ा, सर्वाभरण-भूषिता ॥१०॥
लक्ष्मी: पद्मासना देवी, पद्म-हस्ता हरिप्रिया ।
श्वेत-रूप-धरा देवी, ईश्वरी वृष वाहना ॥११॥
इत्येता मातर: सर्वा:, सर्व-योग-समन्विता ।
नानाभरण-षोभाढया, नाना-रत्नोप-शोभिता: ॥१२॥
श्रेष्ठैष्च मौक्तिकै: सर्वा, दिव्य-हार-प्रलम्बिभि: ।
इन्द्र-नीलैर्महा-नीलै, पद्म-रागै: सुशोभने: ॥१३॥
दृष्यन्ते रथमारूढा, देव्य: क्रोध-समाकुला: ।
शंखं चक्रं गदां शक्तिं, हलं च मूषलायुधम् ॥१४॥
खेटकं तोमरं चैव, परशुं पाशमेव च ।
कुन्तायुधं च खड्गं च, शार्गांयुधमनुत्तमम् ॥१५॥
दैत्यानां देह नाशाय, भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं, देवानां च हिताय वै ॥१६॥
नमस्तेऽस्तु महारौद्रे ! महाघोर पराक्रमे !
महाबले ! महोत्साहे ! महाभय विनाशिनि ॥१७॥
त्राहि मां देवि दुष्प्रेक्ष्ये ! शत्रूणां भयविर्द्धनि !
प्राच्यां रक्षतु मामैन्द्री, आग्नेय्यामग्नि देवता ॥१८॥
दक्षिणे चैव वाराही, नैऋत्यां खड्गधारिणी ।
प्रतीच्यां वारूणी रक्षेद्, वायव्यां वायुदेवता ॥१९॥
उदीच्यां दिशि कौबेरी, ऐशान्यां शूल-धारिणी ।
ऊर्ध्वं ब्राह्मी च मां रक्षेदधस्ताद् वैष्णवी तथा ॥२०॥
एवं दश दिशो रक्षेच्चामुण्डा शव-वाहना ।
जया मामग्रत: पातु, विजया पातु पृष्ठत: ॥२१॥
अजिता वाम पार्श्वे तु, दक्षिणे चापराजिता ।
शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥२२॥
मालाधरी ललाटे च, भ्रुवोर्मध्ये यशस्विनी ।
नेत्रायोश्चित्र-नेत्रा च, यमघण्टा तु पार्श्वके ॥२३॥
शंखिनी चक्षुषोर्मध्ये, श्रोत्रयोर्द्वार-वासिनी ।
कपोलौ कालिका रक्षेत्, कर्ण-मूले च शंकरी ॥२४॥
नासिकायां सुगन्धा च, उत्तरौष्ठे च चर्चिका ।
अधरे चामृत-कला, जिह्वायां च सरस्वती ॥२५॥
दन्तान् रक्षतु कौमारी, कण्ठ-मध्ये तु चण्डिका ।
घण्टिकां चित्र-घण्टा च, महामाया च तालुके ॥२६॥
कामाख्यां चिबुकं रक्षेद्, वाचं मे सर्व-मंगला ।
ग्रीवायां भद्रकाली च, पृष्ठ-वंशे धनुर्द्धरी ॥२७॥
नील-ग्रीवा बहि:-कण्ठे, नलिकां नल-कूबरी ।
स्कन्धयो: खडि्गनी रक्षेद्, बाहू मे वज्र-धारिणी ॥२८॥
हस्तयोर्दण्डिनी रक्षेदिम्बका चांगुलीषु च ।
नखान् सुरेश्वरी रक्षेत्, कुक्षौ रक्षेन्नरेश्वरी ॥२९॥
स्तनौ रक्षेन्महादेवी, मन:-शोक-विनाशिनी ।
हृदये ललिता देवी, उदरे शूल-धारिणी ॥३०॥
नाभौ च कामिनी रक्षेद्, गुह्यं गुह्येश्वरी तथा ।
मेढ्रं रक्षतु दुर्गन्धा, पायुं मे गुह्य-वासिनी ॥३१॥
कट्यां भगवती रक्षेदूरू मे घन-वासिनी ।
जंगे महाबला रक्षेज्जानू माधव नायिका ॥३२॥
गुल्फयोर्नारसिंही च, पाद-पृष्ठे च कौशिकी ।
पादांगुली: श्रीधरी च, तलं पाताल-वासिनी ॥३३॥
नखान् दंष्ट्रा कराली च, केशांश्वोर्ध्व-केशिनी ।
रोम-कूपानि कौमारी, त्वचं योगेश्वरी तथा ॥३४॥
रक्तं मांसं वसां मज्जामस्थि मेदश्च पार्वती ।
अन्त्राणि काल-रात्रि च, पितं च मुकुटेश्वरी ॥३५॥
पद्मावती पद्म-कोषे, कक्षे चूडा-मणिस्तथा ।
ज्वाला-मुखी नख-ज्वालामभेद्या सर्व-सन्धिषु ॥३६॥
शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहंकारं मनो बुद्धिं, रक्षेन्मे धर्म-धारिणी ॥३७॥
प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्र-हस्ता तु मे रक्षेत्, प्राणान् कल्याण-शोभना ॥३८॥
रसे रूपे च गन्धे च, शब्दे स्पर्शे च योगिनी ।
सत्वं रजस्तमश्चैव, रक्षेन्नारायणी सदा ॥३९॥
आयू रक्षतु वाराही, धर्मं रक्षन्तु मातर: ।
यश: कीर्तिं च लक्ष्मीं च, सदा रक्षतु वैष्णवी ॥४०॥
गोत्रमिन्द्राणी मे रक्षेत्, पशून् रक्षेच्च चण्डिका ।
पुत्रान् रक्षेन्महा-लक्ष्मीर्भार्यां रक्षतु भैरवी ॥४१॥
धनं धनेश्वरी रक्षेत्, कौमारी कन्यकां तथा ।
पन्थानं सुपथा रक्षेन्मार्गं क्षेमंकरी तथा ॥४२॥
राजद्वारे महा-लक्ष्मी, विजया सर्वत: स्थिता ।
रक्षेन्मे सर्व-गात्राणि, दुर्गा दुर्गाप-हारिणी ॥४३॥
रक्षा-हीनं तु यत् स्थानं, वर्जितं कवचेन च ।
सर्वं रक्षतु मे देवी, जयन्ती पाप-नाशिनी ॥४४॥
॥फल-श्रुति ॥
सर्वरक्षाकरं पुण्यं, कवचं सर्वदा जपेत् ।
इदं रहस्यं विप्रर्षे ! भक्त्या तव मयोदितम् ॥४५॥
देव्यास्तु कवचेनैवमरक्षित-तनु: सुधी: ।
पदमेकं न गच्छेत् तु, यदीच्छेच्छुभमात्मन: ॥४६॥
कवचेनावृतो नित्यं, यत्र यत्रैव गच्छति ।
तत्र तत्रार्थ-लाभ: स्याद्, विजय: सार्व-कालिक: ॥४७॥
यं यं चिन्तयते कामं, तं तं प्राप्नोति निश्चितम् ।
परमैश्वर्यमतुलं प्राप्नोत्यविकल: पुमान् ॥४८॥
निर्भयो जायते मर्त्य:, संग्रामेष्वपराजित: ।
त्रैलोक्ये च भवेत् पूज्य:, कवचेनावृत: पुमान् ॥४९॥
इदं तु देव्या: कवचं, देवानामपि दुर्लभम् ।
य: पठेत् प्रयतो नित्यं, त्रि-सन्ध्यं श्रद्धयान्वित: ॥५०॥
देवी वश्या भवेत् तस्य, त्रैलोक्ये चापराजित: ।
जीवेद् वर्ष-शतं साग्रमप-मृत्यु-विवर्जित: ॥५१॥
नश्यन्ति व्याधय: सर्वे, लूता-विस्फोटकादय: ।
स्थावरं जंगमं वापि, कृत्रिमं वापि यद् विषम् ॥५२॥
अभिचाराणि सर्वाणि, मन्त्र-यन्त्राणि भू-तले ।
भूचरा: खेचराश्चैव, कुलजाश्चोपदेशजा: ॥५३॥
सहजा: कुलिका नागा, डाकिनी शाकिनी तथा ।
अन्तरीक्ष-चरा घोरा, डाकिन्यश्च महा-रवा: ॥५४॥
ग्रह-भूत-पिशाचाश्च, यक्ष-गन्धर्व-राक्षसा: ।
ब्रह्म-राक्षस-वेताला:, कूष्माण्डा भैरवादय: ॥५५॥
नष्यन्ति दर्शनात् तस्य, कवचेनावृता हि य: ।
मानोन्नतिर्भवेद् राज्ञस्तेजो-वृद्धि: परा भवेत् ॥५६॥
यशो-वृद्धिर्भवेद् पुंसां, कीर्ति-वृद्धिश्च जायते ।
तस्माज्जपेत् सदा भक्तया, कवचं कामदं मुने ॥५७॥
जपेत् सप्तशतीं चण्डीं, कृत्वा तु कवचं पुर: ।
निर्विघ्नेन भवेत् सिद्धिश्चण्डी-जप-समुद्भवा ॥५८॥
यावद् भू-मण्डलं धत्ते ! स-शैल-वन-काननम् ।
तावत् तिष्ठति मेदिन्यां, जप-कर्तुर्हि सन्तति: ॥५९॥
देहान्ते परमं स्थानं, यत् सुरैरपि दुर्लभम् ।
सम्प्राप्नोति मनुष्योऽसौ, महा-माया-प्रसादत: ॥६०॥
तत्र गच्छति भक्तोऽसौ, पुनरागमनं न हि ।
लभते परमं स्थानं, शिवेन सह मोदते ॐॐॐ ॥६१॥
॥ वाराह-पुराणे श्रीहरिहरब्रह्म विरचितं देव्या: कवचम् ॥