प्रायश्चित्ताध्यायः - प्रायश्चित्तप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


महापातकजान्घोरान्नरकान्प्राप्य दारुणान् ।
कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ॥३.२०६॥

मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिं ऋच्छति ।
खरपुल्कसवेनानां सुरापो नात्र संशयः ॥३.२०७॥

कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् ।
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥३.२०८॥

ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः ।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥३.२०९॥

यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते ।
अन्नहर्तामयावी स्यान्मूको वागपहारकः ॥३.२१०॥

धान्यमिश्रोऽतिरिक्ताञ्गः पिशुनः पूतिनासिकः ।
तैलहृत्तैलपायी स्यात्पूतिवक्त्रस्तु सूचकः ॥३.२११॥

परस्य योषितं हृत्वा ब्रह्मस्वं अपहृत्य च ।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥३.२१२॥

हीनजातौ प्रजायेत पररत्नापहारकः ।
पत्रशाकं शिखी हत्वा गन्धान्छुच्छुन्दरी शुभान् ॥३.२१३॥

मूषको धान्यहारी स्याद्यानं उष्ट्रः कपिः फलम् ।
जलं प्लवः पयः काको गृहकारी ह्युपस्करम् ॥३.२१४॥

मधु दंशः पलं गृध्रो गां गोधाग्निं बकस्तथा ।
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥३.२१५॥

प्रदर्शनार्थं एतत्तु मयोक्तं स्तेयकर्मणि ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥३.२१६॥

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥३.२१७॥

ततो निष्कल्मषीभूताः कुले महति भोगिनः ।
जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥३.२१८॥

विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनं ऋच्छति ॥३.२१९॥

तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये ।
एवं अस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥३.२२०॥

प्रायश्चित्तं अकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान्नरकान्यान्ति दारुणान् ॥३.२२१॥

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली ।
रौरवं कुड्मलं पूति मृत्तिकं कालसूत्रकम् ॥३.२२२॥

संघातं लोहितोदं च सविषं संप्रपातनम् ।
महानरककाकोलं संजीवनमहापथम् ॥३.२२३॥

अवीचिं अन्धतामिस्रं कुम्भीपाकं तथैव च ।
असिपत्रवनं चैव तापनं चैकविंशकम् ॥३.२२४॥

महापातकजैर्घोरैरुपपातकजैस्तथा ।
अन्विता यान्त्यचरित प्रायश्चित्ता नराधमाः ॥३.२२५॥

प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस्तु वचनादिह जायते ॥३.२२६॥

ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः ।
एते महापातकिनो यश्च तैः सह संवसेत् ॥३.२२७॥

गुरूणां अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः ।
ब्रह्महत्यासमं ज्ञेयं अधीतस्य च नाशनम् ॥३.२२८॥

निषिद्धभक्षणं जैह्म्यं उत्कर्षे च वचोऽनृतम् ।
रजस्वलामुखास्वादः सुरापानसमानि तु ॥३.२२९॥

अश्वरत्नमनुष्यस्त्री भूधेनुहरणं तथा ।
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसम्मितम् ॥३.२३०॥

सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च ।
सगोत्रासु सुतन्त्रीषु गुरुतल्पसमं स्मृतम् ॥३.२३१॥

पितुः स्वसारं मातुश्च मतुलानीं स्नुषां अपि ।
मातुः सपत्नीं भगिनीं आचार्यतनयां तथा ॥३.२३२॥

आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ।
लिङ्गं छित्त्वा वधस्तस्य सकामायाः स्त्रिया अपि ॥३.२३३॥

गोवधो व्रात्यता स्तेयं ऋणानां चानपाक्रिया ।
अनाहिताग्नितापण्य विक्रयः परिदेवनम् ॥३.२३४॥

भृतादध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥३.२३५॥

स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् ।
नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥३.२३६॥

धान्यकुप्यपशुस्तेयं अयाज्यानां च याजनम् ।
पितृमातृसुतत्यागस्तडागारामविक्रयः ॥३.२३७॥

कन्यासंदूषणं चैव परिविन्दकयाजनम् ।
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥३.२३८॥

आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥३.२३९॥

इन्धनार्थं द्रुमछेदः स्त्रीहिंसाउषधजीवनम् ।
हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः ॥३.२४०॥

शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् ।
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥३.२४१॥

असच्छास्त्राधिगमनं आकरेष्वधिकारिता ।
भार्याया विक्रयश्चैषां एकैकं उपपातकम् ॥३.२४२॥

शिरःकपाली ध्वजवान्भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिं आप्नुयात् ॥३.२४३॥

ब्राह्मणस्य परित्राणाद्गवां द्वादशकस्य च ।
तथाश्वमेधावभृथ स्नानाद्वा शुद्धिं आप्नुयात् ॥३.२४४॥

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गां अथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥३.२४५॥

आनीय विप्रसर्वस्वं हृतं घातित एव वा ।
तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुध्यति ॥३.२४६॥

लोमभ्यः स्वाहेत्येवं हि लोमप्रभृति वै तनुम् ।
मज्जान्तां जुहुयाद्वापि मन्त्रैरेभिर्यथाक्रमम् ॥३.२४७॥

संग्रामे वा हतो लक्ष्य भूतः शुद्धिं अवाप्नुयात् ।
मृतकल्पः प्रहारार्तो जीवन्नपि विशुध्यति ॥३.२४८॥

अरण्ये नियतो जप्त्वा त्रिर्वै वेदस्य संहिताम् ।
शुध्येत वा मिताशित्वात्प्रतिस्रोतः सरस्वतीम् ॥३.२४९॥

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिं अवाप्नुयात् ।
आदातुश्च विशुद्ध्यर्थं इष्टैर्वैश्वानरी स्मृता ॥३.२५०॥

यागस्थक्षत्रविड्घाती चरेद्ब्रह्महणि व्रतम् ।
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥३.२५१॥

चरेद्व्रतं अहत्वापि घातार्थं चेत्समागतः ।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतं आदिशेत् ॥३.२५२॥

सुराम्बुघृतगोमूत्र पयसां अग्निसंनिभम् ।
सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिं ऋच्छति ॥३.२५३॥

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् ।
पिण्याकं वा कणान्वापि भक्षयेत्त्रिसमा निशि ॥३.२५४॥

अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रं एव च ।
पुनः संस्कारं अर्हन्ति त्रयो वर्णा द्विजातयः ॥३.२५५॥

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।
इहैव सा शुनी गृध्री सूकरी चोपजायते ॥३.२५६॥

ब्राह्मणस्वर्णहारी तु राज्ञे मुसलं अर्पयेत् ।
स्वकर्म व्याख्यायंस्तेन हतो मुक्तोऽपि वाशुचिः ॥३.२५७॥

अनिवेद्य नृपे शुध्येत्सुरापव्रतं आचरन् ।
आत्मतुल्यं सुवर्णं वा दद्याद्वा विप्रतुष्टिकृत् ॥३.२५८॥

तप्तेऽयःशयने सार्धं आयस्या योषिता स्वपेत् ।
गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत्तनुम् ॥३.२५९॥

प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम् ॥३.२६०॥

एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः ।
कन्यां समुद्वहेदेषां सोपवासां अकिंचनाम् ॥३.२६१॥

चान्द्रायणं चरेत्सर्वानवकृष्टान्निहत्य तु ।
शूद्रोऽधिकारहीनोपि कालेनानेन शुध्यति ॥३.२६२॥

पञ्चगव्यं पिबेद्गोघ्नो मासं आसीत संयतः ।
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥३.२६३॥

कृच्छ्रं चैवातिकृच्छ्रं च चरेद्वापि समाहितः ।
दद्यात्त्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः ॥३.२६४॥

उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणाथ वा पुनः ॥३.२६५॥

ऋषभैकसहस्रा गा दद्यात्क्षत्रवधे पुमान् ।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥३.२६६॥

वैश्यहाब्दं चरेदेतद्दद्याद्वैकशतं गवाम् ।
षण्मासाच्छूद्रहाप्येतद्धेनुर्दद्याद्दशाथ वा ॥३.२६७॥

दुर्वृत्तब्रह्मविट्क्षत्र शूद्रयोषाः प्रमाप्य तु ।
दृतिं धनुर्बस्तं अविं क्रमाद्दद्याद्विशुद्धये ॥३.२६८॥

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।
अस्थिमतां सहस्रं तु तथानस्थिमतां अनः ॥३.२६९॥

मार्जारगोधानकुल मण्डूकांश्च पतत्रिणः ।
हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥३.२७०॥

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः ।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥३.२७१॥

हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः ।
भासं च हत्वा दद्याद्गां अक्रव्यादस्तु वत्सिकाम् ॥३.२७२॥

उरगेष्वायसो दण्डः पण्डके त्रपु सीसकम् ।
कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽंशुकम् ॥३.२७३॥

तित्तिरौ तु तिलद्रोणं गजादीनां अशक्नुवन् ।
दानं दातुं चरेत्कृच्छ्रं एकैकस्य विशुद्धये ॥३.२७४॥

फलपुष्पान्नरसज सत्त्वघाते घृताशनम् ।
किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ॥३.२७५॥


वृक्षगुल्मलतावीरु च्छेदने जप्यं ऋक्शतम् ।
स्यादोषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम् ॥३.२७६॥

पुंश्चलीवानरखरैर्दष्टश्वोष्ट्रादिवायसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥३.२७७॥

यन्मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत् ।
स्तनान्तरं भ्रुवोर्मध्यं तेनानामिकया स्पृशेत् ॥३.२७८॥

मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
सावित्रीं अशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥३.२७९॥

अवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम् ।
गर्दभं पशुं आलभ्य नैरृतं स विशुध्यति ॥३.२८०॥

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रं अनातुरः ।
कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥३.२८१॥

उपस्थानं ततः कुर्यात्सं मा सिंचन्त्वनेन तु ।
मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥३.२८२॥

प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ।
कृच्छ्रत्रयं गुरुः कुर्यान्म्रियते प्रहितो यदि ॥३.२८३॥

क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥३.२८३ः१॥

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ।
मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ॥३.२८४॥

महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् ।
अब्भक्षो मासं आसीत स जापी नियतेन्द्रियः ॥३.२८५॥

अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयं एव वा ।
निर्वपेत्तु पुरोडाशं वायव्यं पशुं एव वा ॥३.२८६॥

अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् ।
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥३.२८७॥

त्रीन्कृच्छ्रानाचरेद्व्रात्य याजकोऽभिचरन्नपि ।
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम् ॥३.२८८॥

गोष्ठे वसन्ब्रह्मचारी मासं एकं पयोव्रतम् ।
गायत्रीजप्यनिरतः शुध्यतेऽसत्प्रतिग्रहात् ॥३.२८९॥

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥३.२९०॥

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः ।
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥३.२९१॥

विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने ।
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥३.२९२॥

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः ॥३.२९३॥

दाषीकुम्भं बहिर्ग्रामान्निनयेरन्स्वबान्धवाः ।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥३.२९४॥

चरितव्रत आयाते निनयेरन्नवं घटम् ।
जुगुप्सेरन्न चाप्येनं संवसेयुश्च सर्वशः ॥३.२९५॥

पतितानां एष एव विधिः स्त्रीणां प्रकीर्तितः ।
वासो गृहान्तके देयं अन्नं वासः सरक्षणम् ॥३.२९६॥

नीचाभिगमनं गर्भ पातनं भर्तृहिंसनम् ।
विशेषपतनीयानि स्त्रीमां एतान्यपि ध्रुवम् ॥३.२९७॥

शरणागतबालस्त्री हिंसकान्संवसेन्न तु ।
चीर्णव्रतानपि सतः कृतघ्नसहितानिमान् ॥३.२९८॥

घटेऽपवर्जिते ज्ञाति मध्यस्थो यवसं गवाम् ।
स दद्यात्प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥३.२९९॥

विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP