मातृकः - सभाः
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
नियुक्तेन तु वक्तव्यं अपक्षपतितं वचः ॥१॥
युक्तरूपं ब्रुवन्सभ्यो नाप्नुयाद्द्वेषकिल्बिषे ।
ब्रुवाणस्त्वन्यथा सभ्यस्तदेवोभयं आप्नुयात् ॥२॥
राजा तु धार्मिकान्सभ्यान्नियुञ्ज्यात्सुपरीक्षितान् ।
व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव ॥३॥
धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः ।
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥४॥
तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलश्च पार्थिवः ।
सह सद्भिरतो राजा व्यवहारान्विशोधयेत् ॥५॥
शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः ।
शुद्धिश्च तेषां धर्माद्धि धर्मं एव वदेत्ततः ॥६॥
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥७॥
विद्धो धर्मो ह्यधर्मेण सभां यत्रोपतिष्ठते ।
न चेद्विशल्यः क्रियते विद्धास्तत्र सभासदः ॥८॥
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥९॥
ये तु सभ्याः सभां गत्वा तूष्णीं ध्यायन्त आसते ।
यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनः ॥१०॥
पादोऽधर्मस्य कर्तारं पादः साक्षिणं ऋच्छति ।
पादः सभासदः सर्वान्पादो राजानं ऋच्छति ॥११॥
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥१२॥
अन्धो मत्स्यानिवाश्नाति निरपेक्षः सकण्टकान् ।
परोक्षं अर्थवैकल्याद्भाषते यः सभां गतः ॥१३॥
तस्मात्सभ्यः सभां प्राप्य रागद्वेषविवर्जितः ।
वचस्तथाविधं ब्रूयाद्यथा न नरकं पतेत् ॥१४॥
यथा शल्यं भिषग्विद्वानुद्धरेद्यन्त्रयुक्तितः ।
प्राड्विवाकस्तथा शल्यं उद्धरेद्व्यवहारतः ॥१५॥
यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते ।
स निःशल्यो विवादः स्यात्सशल्यः स्यादतोऽन्यथा ॥१६॥
न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यं अस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥१७॥
आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ॥१७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP