संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| उत्तराभासा उत्तरदोषा वा कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - उत्तराभासा उत्तरदोषा वा स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः उत्तराभासा उत्तरदोषा वा Translation - भाषांतर अप्रसिद्धं विरुद्धं यदत्यल्पं अतिभूरि च ।संदिग्धासंभवाव्यक्तं अन्यार्थं चातिदोषवत् ॥१७३॥अव्यापकं व्यस्तपदं निगूढार्थं तथाकुलम् ।व्याख्यागम्यं असारं च नोत्तरं शस्यते बुधैः ॥१७४॥यद्व्यस्तपदं अव्यापि निगूढार्थं तथाकुलम् ।व्याख्यागम्यं असारं च नोत्तरं स्वार्थसिद्धये ॥१७५॥चिह्नाकारसहस्रं तु समयं चाविजानता ।भाषान्तरेण वा प्रोक्तं अप्रसिद्धं तदुत्तरम् ॥१७६॥प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि ।यदेवं आह विज्ञेयं विरुद्धं तदिहोत्तरम् ॥१७७॥जितः पुरा मयायं च त्वर्थेऽस्मिन्निति भाषितुम् ।पुरा मयायं इति यत्तदूनं चोत्तरं स्मृतम् ॥१७८॥गृहीतं इति वाच्ये तु कार्यं तेन कृतं मया ।पुरा गृहीतं यद्द्रव्यं इति यच्चातिभूरि तत् ॥१७९॥देयं मयेति वक्तव्ये मयादेयं इतीदृशम् ।संदिग्धं उत्तरं ज्ञेयं व्यवहारे बुधैस्तदा ॥१८०॥बलाबलेन चैतेन साहसं स्थापितं पुरा ।अनुक्तं एतन्मन्यन्ते तदन्यार्थं इतीरितम् ॥१८१॥अस्मै दत्तं मया सार्धं सहस्रं इति भाषिते ।प्रतिदत्तं तदर्धं यत्तदिहाव्यापकं स्मृतम् ॥१८२॥पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेशयेत् ।मया गृहीतं पूर्वं नो तद्व्यस्तपदं उच्यते ॥१८३॥तत्किं तामरसं कश्चिदगृहीतं प्रदास्यति ।निगूढार्थं तु तत्प्रोक्तं उत्तरं व्यवहारतः ॥१८४॥किं तेनैव सदा देयं मया देयं भवेदिति ।एतदकुलं इत्युक्तं उत्तरं तद्विदो विदुः ॥१८५॥काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् ।असारं इति तत्त्वेन सम्यङ्नोत्तरं इष्यते ॥१८६॥प्रस्तुतादल्पं अव्यक्तं न्यूनाधिकं असङ्गतम् ।अव्याप्यसारं संदिग्धं प्रतिपक्षं न लङ्घयेत् ॥१८७॥संदिग्धं अन्यत्प्रकृतादत्यल्पं अतिभूरि च ।पक्षैकदेशव्याप्येव तत्तु नैवोत्तरं भवेत् ॥१८८॥पक्षैकदेशे यत्सत्यं एकदेशे च कारणम् ।मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरम् ॥१८९॥न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः ।न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥१९०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP