आश्विनमास: - कोजागरव्रतकथाप्ररम्भ:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ कोजागरव्रतकथाप्ररम्भ: ॥

अस्ति कोजागरं नाम व्रतानामुत्तमं व्रतम् । यत्कृत्वा समवाप्नोति जन्तुर्लोकाननुत्तमान् ॥ ऋषय ऊचु: । कार्तिकस्य उपाङ्गानि व्रतानि कथयन्तु न: । कृतेषु येषु भवति सम्पूर्णं कार्तिकव्रतम् ॥ बालखिल्या ऊचु: ॥ आश्विने शुक्लपक्षे तु भवेद्या चैय पूर्णिमा । तद्रात्रौ पूजनं कुर्याच्छियो जागृतिपूर्वकम् ॥ नारिकेलोदकं पीत्वा अक्षक्रीडां समारभेत । निशीथे वरदा लक्ष्मी: को जागर्तीति भाषिणी ॥ जगत्प्रभुमतीतस्यां लोकचेप्टावलोकनी । तस्मै वित्तं प्रयच्छामि यो जागति महीतले ॥ सर्वथैव प्रकर्तव्यं व्रतं दारिद्रयभीरुभि: । एतद्‌व्रतप्रभावेण वलितोऽप्यभवद्धनी ॥ ऋषय ऊचु: ॥ वलित: प्रोच्यते कोऽसौ लव्धवान्स कुतो व्रतम् । एतद्विस्तरतो व्रूत बालखिल्यास्तपोधना: ॥ बालखिल्या ऊचु: ॥ ब्राह्मणो वलितो नाम मागध: कुशसम्भव: । नानाविद्याप्रवीणोऽसौ सन्ध्यास्नानपरायण: ॥ याचनं मरणं तुल्यं मन्यते स द्विजोत्तम: । गृहागतं स गृह्णाति नान्यद्याचयते व्कचित् ॥ यस्य भार्या महाचण्डी नित्यं कलहकारिणी । मद्भगिन्य: स्वणरौप्यलङ्कारादिविभूषिता: ॥१०॥
नानामाल्याम्बरधरा द्दश्या देवाङ्गना इव । अहं दरिद्रस्प गृहे पतिताऽस्मि दुरात्मन: ॥ लज्जा मां बाधतेऽत्यन्तं ज्ञातीनां मुखदर्शने । धिगस्तु चैय विद्यावा निर्धनस्य कुलस्य च ॥ एवं वदति लोकेषु न करोति पतीरितम् । सङ्कल्पं कृतवानेकं यद्यद्भर्ता वदिष्यति ॥ विपरीतं करिष्यामि यावल्लक्ष्मी: प्रसीदति । भर्त: पाषाणबुद्ध त्वं चौर्यं कुरु नृपालये ॥ आनीयतां धनं भूरि नोचेत्संताड्याम्यहम् । क्षणं रोदिति नाश्नाति कदाचिद्वहु खादति ॥ सा कपालं ताडयतीत्येवं क्लेशयते पतिम् । क्षन्त्वा तस्यास्तु चरितं याचनादुःखभीतित: ॥ नोवाच वचनं किञ्चिद्यथालाभेन तोषित: । एकस्मिन् श्राद्धपक्षे तु ह्यद्विग्नोऽभूद द्विजोत्तम: ॥ एतस्मिन्वत्सरे सर्वं श्राद्धसामग्रिकं गृहे ॥ वर्तते गृहिणी चेयं न करिष्यति किञ्चन ॥ इत्युद्विग्नमना विप्रो न भाषयति किञ्चन । चिन्तयाविष्टमेवं तमाययौ मित्रमुत्तमम् ॥ नाम्ना गणपतिख्यातं तस्मिन्नभ्यागते सति । नोवाच पूर्ववद्वार्ता मित्रं वचनमब्रवीत् ॥२०॥
भो भो वलित चित्तं ते किमर्थं चिन्तयान्वितम् । अवश्यं स्वधिया कृत्वा चिन्तां ते निर्हराम्यहम् ॥ वलित उवाच ॥ अधुना पितृपक्षे तु पितु: श्राद्धं समागतम् । सामग्रिकं चास्ति गृहे विपरीतकरी प्रिया ॥ कथं सम्पाद्यते श्राद्धमिति चिन्तायुतोऽस्म्यहम् ॥ गणपतिरुवाच ॥ धन्योऽसि कृतकृत्योऽसि भार्या यस्येद्दशी गृहे ॥ ब्रूहि त्वं वैपरीत्येन भार्या कार्यं करिष्यति । वलितस्तु तथेत्युक्त्वा सायं भार्यामभाषत ॥ अनर्थकारके चण्डि परश्व: श्राद्धकं पितु: । न स्थापितं धनं यस्मान्मदर्थं तैस्तु पापकै: ॥ तस्मान्न शीघ्रं पाकं त्वं कुरु दुष्टे करोषि चेत् । ब्राह्मणा ये द्यूतकारा: शौचाचारविवर्जिता: ॥ निमन्त्र्यास्ते त्वया भद्रे नोत्तमास्तु कदाचन । इति भर्तृवच: श्रुत्वा सम्भारस्तु महान्कृत: ॥ निमन्त्रितास्तु सद्विप्रा: काले पाक: कृतस्तया । विपरीतैरेव वाक्यै: श्राद्धं सम्पादितं तया ॥ पिण्डदानं तत: कृत्वा भार्यावचनमब्रवीत् । बिसर्ज्य पिण्डान्नीत्वा त्वं क्षिप गङ्गाजले शुभे ॥ पिण्डान्नीतांस्तथेत्युक्त्वा शौचकूपे व्यचिक्षिपत् । तच्छुत्वा वलितो दु:खी बभूवाकुलिल्तानन: ॥३०॥
क्रोधाद्विनिर्ययौ गेहात्सङ्कल्यं कृतवानिति । लक्ष्मीर्यदि प्रसन्नास्यात्तदान्नं भक्षयाम्यहम् ॥ इति सङ्कल्प्य विप्रोऽसौ गहने निर्जने वने । एको धर्मनदीतीरे वृक्षवल्कलधारक: ॥ त्रिंशद्दिनानि न्यवसदागता त्विषपूर्णिमा । कालिवंशसमुद्भता नागकन्या: सुलोचना: ॥ निवसन्ति वने तस्मिन्व्रतं चक्रू रमाप्तये ॥ श्वेतीकृतं तु सुधया गृहं चन्द्रगृहोपमम् ॥ मण्डलानि विचित्राणि नानापिष्टै: कृतानि च । पञ्चामृतानि रत्नानि दर्पणाच्छादनानि च ॥ स्थापयित्वेन्दिरापूजा कृता ताभि: प्रयत्नत: । एवं तु प्रथमो यामो बालाभिर्नीत एव हि ॥ प्रारब्धं च ततोद्यूतं तुर्यन्तास्तु न लेभिर । चतुर्भिस्तु विनाक्षाणां क्रीडनं नैव जायते ॥ तस्मान्मृग्यस्तुरीयस्तु विचार्यैवं विनिर्गता । कन्यका तु नदीतीरे ददर्श वलितं द्विजम् ॥ ज्ञात्वा तं साधु चरितं सचिन्तं च मुखाकृते: ।  उवाच वचनं चारु द्विज कोऽसि समागत: ॥ या ह्यद्य क्रीडितुं द्यूतं लक्ष्म्या: प्रीतिकरं परम् । इत्थं तद्वचनं श्रुत्वा वलितो वाक्यमब्रवीत् ॥४०॥
वलित उवाच ॥ द्मूतेन क्षीयते लक्ष्मीर्द्मूताद्धर्मो निवश्यति । मुधैतद्वदसे किं त्वं कथं लक्ष्मी: प्रसीदति ॥ कन्योवाच ॥ भाषसे त्वं पण्डितवत् कर्म तेऽस्ति तु मूर्खवत् । इषस्य शुक्लपूर्णायां द्युताल्लक्ष्मी: प्रसीदति ॥ द्यूतक्रीडां तु कृत्वैवं कौतुकं पश्य चैन्दिरम् । इत्युत्त्क्वासौ तया नीतो क्रीडार्थं स्वाय मन्दिरे ॥ दत्वा तस्मै नारिकेलजलं भक्ष्यादिकं तथा ॥ आरब्धं च ततो द्यूतं श्रीलक्ष्मी: प्रीयतामिति ॥ लापितानि च रत्नानि कन्याभिर्ब्राह्मणेन तु । कौपीनं लापितं स्वीयं ताभिर्निर्जितमेव तत् ॥ ब्राह्मण: क्रोधसंयुक्त: किं कर्तव्यं मयाधुना । उपवीतं लापयित्वा तत: स्वीयं कलेवरम् ॥ लापयिष्ये विनिश्चित्य ह्यपवी तं ललाप स: । ताभिर्जितं च तदपि शरीरं लापितं स्वकम । ततोऽर्धरात्रे सञ्जाते लक्ष्मीनारायणावुभौ । आगतौ लोकचरितं द्रष्टुं विप्रंददर्शतु: ॥ हीनोपवीतकौपीनं चिन्तयातिकृशीकृतम् । उवाच वचनं विष्णु: श्रृणु त्वं पद्मलोचने ॥ तव व्रतकरो विप्र: कथं जात: सचिन्तक: । तस्मादेनं कुरु क्षिप्रं लक्ष्मीवन्तं सुखान्वितम् ॥५०॥ इति विष्णुवच: श्रुत्वा पद्मयाऽसौ कटाक्षित: । बालाचित्तहरो जातस्तत्कालं मदनोपम: ॥ तत: कामेन संविद्धास्तास्तु या नागकन्यका: । विप्राय वचनं प्रोचु: श्रृणु विप्र तपोधन ॥ यद्यस्माभिर्जितस्त्वं च भर्तास्माकं वचोनुग: । वयं त्वया निर्जिताश्चेद्यथेच्छसि तथा कुरु ॥ इति तद्वचनं श्रुत्वा तथा मेने स च द्विज: । क्रीडनात्ता जिता: कन्या गान्धर्वेण विवाहिता: । तासां रत्नानि ताश्चापि गृहीत्वा स्वगृहं ययौ । प्राप्तं चण्डी तिरस्कारान्मयेदं भाग्यमुत्तमम् ॥ तस्मात्संमानिता चण्डी सापि प्रीता बभूव ह । चकार स्वामिनश्चाज्ञामित्थिं लक्ष्मीव्रतं त्विदम् ॥ बहुरात्रिव्यापिनी या सात्र पूर्णा विशिष्यते तत्राराध्य महालक्ष्मीमिन्द्रमैरावतस्थितम् ॥ उपवासं प्रकुर्वीत दीपान्दद्याच्च भक्तित: । लक्षं तदर्धमयुतं सहस्रं शतमेव वा ॥ घृतेन दद्याद्दीपांस्तु तिलतैलेन वा व्रती । रात्रौ जागरणं कुर्या:नृत्यगीतपुर:सरम् ॥ यथाविभवतो देया: पुरो वीथीषु दीपका: । देवतायतने चैव आरामेषु गृहेषु च ॥६०॥
तत: प्रभाते सुस्नात: सम्पूज्य च शतक्रतुम् । ब्राह्मणान्भोजयेत्क्षीरघृतशर्करपायसै: ॥ वासोभिर्दक्षिणाभिश्च सवस्त्रान् पूजयेद् द्विजान् । यथाशक्ति च दातव्या दीपा: स्वर्णविनिर्मिता: ॥ एवं विधिं विनिर्वर्त्य तत: पारणमाचरेत् । व्रतस्यास्य प्रभावेण कल्पसङ्ख्या वसेद् ध्रुवम् ॥ अप्सरोभि: परिवृत: स्वर्गलोके महीयते । इह चायुष्यमारोग्यं पुत्रपौत्रादिसम्पद: ॥ एवं लक्ष्मीव्रतं कृत्वा न दरिद्रो न दुःखभाक् । कथां । श्रुत्वा विधानेन व्रतस्यापि फलं लभेत ॥६५॥
इति सनत्कुमारसंहितायां कोजागरव्रतकथा समाप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP