अवधूत उवाच ॥ बालस्य वा विषयभोगरतस्य वापि । मूर्खस्य सेवकजनस्य गृहस्थितस्य ।
एतद्गुरोः किमपि नैव न चिन्तनीयं । रत्नं कथं त्यजति कोऽप्यशुचौ प्रतिष्ठम् ॥१॥
नैवात्र काव्यगुण एव तु चिन्तनीयो ग्राह्यः परं गुणवता खलु सार एव ।
सिन्दूरचित्ररहिता भुवि रुपशून्या पारं न किं नयति नौरिह गन्तुकामान् ॥२॥
प्रयत्नेन विना येन निश्चलेन चलाचलम् । ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम् ॥३॥
अयत्नाच्चालयेद्यस्तु एकमेव चराचरम् । सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम ॥४॥
अहमेव परं यस्मात्सारासारतरं शिवम् । गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ॥५॥
सर्वावयवनिर्मुक्तं तदहं त्रिदशार्चितम् । संपूर्णत्वान्न गृण्हामि विभागं त्रिदशादिकम् ॥६॥
प्रमादेन न संदेहः किं करिष्यामि वृत्तिवान् । उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले ॥७॥
महदादीनि भूतानि समाप्यैवं सदैव हि । मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु च ॥८॥
कटुत्वं चैव शैत्यत्वं मृदुत्वं च यथा जले । प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे ॥९॥
सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम् । मनोबुद्धींद्रियातीतमकलड्कं जगत्पतिम् ॥१०॥
ईदृशं सहजं यत्र अहं तत्र कथं भवे । त्वमेव हि कथं तत्र कथं तत्र चराचरम् ॥११॥
गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम् । चैतन्यं दोषहीनं च सर्वज्ञं पूर्णमेव च ॥१२॥
पृथिव्यां चरितं नैव मारुतेन च वाहितम् । वारिणा पिहितं नैव तेजोमध्ये व्यवस्थितम् ॥१३॥
आकाशं तेन संव्याप्तं न तद्व्याप्तं च केनचित् । सबाह्याभ्यंतरं तिष्ठत्यवच्छिन्नं निरंतरम् ॥१४॥
सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः । आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत् ॥१५॥
सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत् । तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः ॥१६॥
विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य च । एकमेव विनाशाय ह्यमोघं सहजामृतम् ॥१७॥
भावगम्यं निराकारं साकारं दृष्टिगोचरम् । भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ॥१८॥
बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते । अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत् ॥१९॥
भ्रान्तिज्ञानं स्थितं बाह्यं सम्यक् ज्ञानं च मध्यगम् । मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत् ॥२०॥
पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः ॥ तेन तत्सदृशं पश्येदद्विधादृष्टिर्विपर्ययः ॥२१॥
अनेनैव प्रकारेण बुद्धिभेदो न सर्वगः । दाता च धीरतामेति गीयते नामकोटिभिः ॥२२॥
गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः । यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् ॥२३॥
रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः । दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् ॥२४॥
घटे भिन्ने घटाकाश आकाशे लीयते यथा । देहाभावे तथा योगी स्वरुपे परमात्मनि ॥२५॥
उक्तेयं कर्ममुक्तानां मतिर्यान्तेऽपि सा गतिः ।
न चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः ॥२६॥
या गतिः कर्मयुक्तानां सा च वागिंद्रियाद्वदेत् ।
योगिनां या गतिः क्कापि ह्यकथ्या भवतोर्जिता ॥२७॥
एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ।
विकल्पवर्जनं तेषां स्वयंसिद्धिः प्रवर्तते ॥२८॥
तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा ।
न योगी पश्यते गर्भं परे ब्रह्मणि लीयते ॥२९॥
सहजमजमचिन्त्यं यस्तु पश्येत्स्वरुपं घटति यदि यथेष्टं लिप्यते नैव दोषैः ।
सकृदपि तदभावात्कर्म ‘ किंचिन्न कुर्यात्तदपि न च विबद्धः संयमी वा तपस्वी ॥३०॥
निरामयं निष्प्रतिमं निराकृतिं निराश्रयं निर्वपुषं निराशिषम् ।
निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मानमुपैति शाश्वतम् ॥३१॥
वेदो न दीक्षा न च मुण्डनक्रिया गुरुर्न शिष्यो नच यंत्रसंपदः ।
मुद्रादिकं चापि न यत्र भासते तमीशमात्मानमुपैति शाश्वतम् ॥३२॥
न शांभवं शक्तिकमानवं न वा । पिण्डं च रुपं च पदादिकं न वा ।
आरम्भनिष्पत्तिघटादिकं च नो । तमीशमात्मानमुपैति शाश्वतम् ॥३३॥
यस्य स्वरुपात्सचराचरं जगदुत्पद्यते तिष्ठति लीयतेऽति वा ।
पयोविकारादिव फेनबुद्बुदास्तमीशमात्मानमुपैति शाश्वतम् ॥३४॥
नासानिरोधो न च दृष्टिरासनं बोधोऽप्यबोधोऽपि न यत्र भासते ।
नाडीप्रचारोऽपि न यत्र किंचित्तमीशमात्मानमुपैति शाश्वतम् ॥३५॥
नानात्वमेकत्वमुभत्वमन्यता अणुत्वदीर्घत्वमहत्त्वशून्यता ।
मानत्वमेयत्वसमत्ववर्जितं तमीशमात्मानमुपैति शाश्वतम् ॥३६॥
सुसंयमी व यदि वा न संयमी सुसंग्रही वा यदि वा न संग्रही ।
निष्कर्मको वा यदि वा सकर्मकस्तमीशमात्मानमुपैति शाश्वतम् ॥३७॥
मनो न बुद्धिर्न शरीरमिन्द्रियं तन्मात्रभूतानि न भूतपञ्चकम् ।
अहंकृतिश्चापि वियत्स्वरुपकं तमीशमात्मानमुपैति शाश्वतम् ॥३८॥
विधौ निरोधे परमात्मतां गते न योगिनश्चेतसि भेदवर्जिते ।
शौचं न वाशौचमलिड्गभावना सर्वं विधेयं यदि वा निषिध्यते ॥३९॥
मनो वचो यत्र न शक्तमीरितुं नूनं कथं तत्र गुरुपदेशता ।
इमां कथामुक्तवतो गुरोस्तद्युक्तस्य तत्त्वं हि समं प्रकाशते ॥४०॥
॥ इति श्रीदत्तात्रेयविरचितायामवधूतगीतायामात्मसंवित्त्युपदेशो नाम द्वितीयोऽध्यायः ॥२॥