संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
पार्वणश्राद्धप्रयोगः

अथान्हिकादिप्रकरणम् - पार्वणश्राद्धप्रयोगः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्रादौ पूर्वदिनकृत्यमुच्यते - कर्ता पूर्वेद्युर्निरामिवं सकृदभुक्त्वा रात्रौ द्विजगृहं गत्वा तमुपवेश्य सव्येन दक्षिणं जान्वाच्य प्रणम्य श्वः करिष्यमाणश्राद्धे विश्वेदेवार्थे त्वामहं निमंत्रये यद्वा त्वया क्षणः करणीयः ‘ ओंतथा ’ इति विप्रप्रतिवचनम् । इति द्वौ एकं वा निमंत्र्य ततोऽपसव्येन वामं जान्वाच्य ‘ श्वः करिष्यमाणश्राद्धे पितृस्थाने त्वामहं निमंत्रये ’ एवं पितामहस्थाने प्रपितामहस्थाने च ब्राह्मणान्निमंत्रयेत् । यद्वा देवस्थाने एकः पार्वणस्थाने एक इति द्वावेव एवं विप्रान्निमंत्र्य - अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकर्मणि - इति ॥ सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः । भवद्भिर्भवितव्यं नः श्वोभूते श्राद्धकर्मणि - इति च जपेच्छृणुयाद्वा । सर्वथा विप्रालाभे दर्भबटून् निघायापि सर्वं श्राद्धं उक्तिप्रत्युक्तिपूर्वकं कृत्वा तदामान्नं विप्राय दद्यात् अग्नौ वा क्षिपेत् । सर्वत्राऽऽमंत्रितोऽस्मीति प्रत्युक्तिरक्रोधनैरिति च ॥ ततः परेद्युः श्राद्धस्थानोपलेपनादि कृत्वा कर्ता सचैलं स्नातः श्राद्धसामग्रीं संपाद्य दिनस्य षण्मुहूर्तानंतरं ( अपराह्णकाले ) द्विजानाहूय मध्याह्ने स्नातान् कृतपादप्रक्षालनानागतान् प्रांजलिस्तिष्ठंस्तान् ‘ सर्वेषां स्वागतं ’ इति स्पृष्ट्वा ‘ सुस्वागतम् ’ इति तैरुक्ते द्विराचम्य ‘ अपवित्रः पवित्रो वा ’ इति पवित्रं धृत्वा दर्भेण शिखां बद्भा देशकालौ संकीर्त्य ‘ पुरुरवार्द्रवसंज्ञकानां विश्वेषां देवानां ’ अपसव्यं - ‘ अस्मत्पितृपितामहप्रपितामहानां अमुकवर्मणां ( गुप्तानां दासानां वेति सर्वत्र ) अमुकगोत्राणां वसुरुद्रादित्यस्वरुपाणां एतेषां श्रेयोर्थं मोक्षार्थं तृप्त्यर्थं च मम पितुः अमुकश्राद्धं सदैवं सपिंडं पार्वणेन विधिना आमेन हविषा युष्मदनुज्ञया सद्यः करिष्ये तदंगतिलयवोदकं च करिष्ये ’ इति संकल्प्य ताम्रादिपात्रे - गंगे च यमुने चैवेति मंत्रेण उद्कं क्षिप्त्वा तस्मिन् दर्भकूर्चं यवान् तिलांश्च निक्षिप्य तिलयवोदकदेवताभ्यः गंधं नमः पुष्पं तुलसीपत्रं भृंगराजपत्रं हिरण्यं फलं च नमः सर्वे उपचाराः तिलयवैः संपूर्णाः संतु । ततः - शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः कविः शुचिर्गंगा मां कुर्वंतु सदा शुचिं - इति ॥ ‘ अपवित्रः पवित्रो वा ’ इति च मंत्राभ्यां तिलोदकेन मार्जयित्वा तेनोदकेन श्राद्धस्थानं संप्रोक्ष्य ‘ सर्वाणि स्थलानि शुचीनि भवंतु ’ इत्युक्ते ‘ सर्वं शुचि ’ इति विप्रा वदेयुः । ततो ब्रह्मदंडार्थे सकुशतिलहिरण्यं भूमौ निधाय - समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः । अपारसंसारसमुद्रसेतवः पुनंतु मां ब्राह्मणपादपांसवः ॥ आपदघनध्वांतसहस्त्रभानवः समीहितार्थर्षणकामधेनवः । समस्ततीर्थांबुपवित्रमूर्तचो रक्षंतु मां ब्राह्मणपादपांसवः ॥ विप्रौघदर्शनात्क्षिप्र क्षीयंते पापराशयः । वंदनान्मंगलावाप्तिरर्चनादच्युतं पदम् ॥ आधिव्याधिहरं नृणां मृत्युदारिद्यनाशनम् । श्रीपुष्टिकीर्तिदं वंदे विप्रश्रीपादपंकजम् ॥ यद्वा - यानि कानि च पापानि जन्मांतरकृतानि तैः । अपवित्रं पवित्रं मां करोतु भगवान् हरिः ॥ इति विप्रान् त्रिः प्रदक्षिणीकृत्य द्वौ नमस्कारौ कृत्वा कर्ता - ( अपसव्यं ) ‘ अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा । ’ इति श्लोकं पठित्वा ‘ अद्य मत्पितुः अमुकश्राद्धं कर्तुं मम अधिकारसंपदस्त्विति भवंतो ब्रुवंतु ’ ‘ अस्तु श्राद्धाधिकारसंपत् ’ इति विप्राः । कर्ता - ( सव्यं ) कालस्य मुख्यः कालोऽस्त्विति भवंतो ब्रुवंतु ’ ‘ कालस्य मुख्यः कालोस्तु ’ इति विप्राः । कर्ता ‘ आमादीनां हविर्योग्यता‍ऽस्त्विति भवंतो ब्रुवंतु ’ ‘ आमादीनां हविर्योग्यतास्तु ’ इति विप्राः । कर्ता - ‘ क्षणादि करिष्ये ’ ‘ कुरुष्व ’ इति विप्रप्रतिवचनम् । कर्ता - ‘ पुरुरवार्द्रवसंज्ञकविश्वेदेवस्थाने त्वया क्षणः करणीयः ’ सुकरणीयः ’ इति विप्रप्रत्युक्तिः । एवं द्वितीये । कर्ता - अपसव्यं - ‘ अस्मत् पितृस्थाने त्वया क्षणः करणीयः ’ विप्राः - ‘ सुकरणीयः ’ । एवं सर्वत्र । अस्मत्पितामहस्थाने० अस्मत् प्रपितामहस्थाने० । विप्रद्वये तु देवस्थाने एकस्मै क्षणं दत्त्वान्यस्मै पितृस्थाने दत्त्वाऽत्र ‘ अस्मत्पितृपितामहप्रपितामहस्थाने ’ इत्यूहः कार्यः । ततः सव्यम् - ‘ सर्वेषां स्वागतं ’ इति विप्रपादौ स्पृष्ट्वा ‘ सुस्वागतं ’ इति विप्राः । अपः स्पृष्ट्वा कर्ता - ‘ देवाः समाध्वं ’ ‘ सुसमास्महे ’ इति प्रत्युक्तिः । अपसव्यम् ‘ पित्रादयः समाध्वं ’ ‘ सुसमास्महे ’ । सव्यं - उपक्रांतं ‘ मम पितुः अमुकश्राद्धं करिष्ये ’ ‘ कुरुष्व ’ इति विप्राः । ततः ‘ तिलयवकुशयुतपरिकरबंधं कृत्वा देवद्विजाग्रे ‘ अद्भ्यो नमः ’ इति यवोदकेन उदगायतां रेखां कृत्वा तत्र यवान् विकीर्य अपसव्येन पितृद्विजाग्रे तिलोदकेन ‘ अद्भ्यो नमःक ’ इति प्राक्संस्थां रेखां कृत्वा ‘ तिला रक्षंत्वसुरान् दर्भा रक्षंतु राक्षसान् । पंक्तिं वै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः ॥ ’ इति पठन् तिलान् विकीर्य ‘ अष्टौ वसव एकादशरुद्रा द्वादशादित्याः श्राद्धद्वारे वैष्णवी रक्षा गयेयं भूमिः ’ इति पितृदेवद्विजमध्ये नैऋत्यां तिलदर्भान् क्षिपेत् । ततः सव्येन ‘ अपवित्रः पवित्रो वा ’ इति मंत्रेण तिलोदकेन आमादि सर्वश्राद्धसामग्रीं प्रोक्षेत् । कर्त्रा ‘ आमादीनां पवित्रतास्तु ’ इत्युक्ते ‘ अस्तु पवित्रता ’ इति प्रत्युक्तिः । ‘ आत्मप्रोक्षणं विधिवदस्तु ’ ‘ अस्तु विधिवत् ’ इति प्रत्युक्तिः । अपसव्यं ‘ श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । वस्वादींश्च पितृन् ध्यात्वा ततः श्राद्धं प्रवर्तते ’ । ‘ प्रवर्तय ’ इति विप्राः ॥ सव्यं - ‘ आगच्छंतु महाभागा विश्वेदेवा महाबलाः । ये ह्यत्र विहिताः श्राद्धे सावधाना भवंतु ते ’ । सावधानाः स्मः ’ इति विप्राः । ततः देवद्विजौ प्राड्मुखौ उपवेश्य तदग्रे स्वयमुदड्मुख उपविश्य दक्षिणं जान्वाच्य द्विजकरेऽपो दत्त्वा ‘ पुरुरवार्द्रवसंज्ञकानां विश्वेषां देवानां इदमासनं ’ इति सयवकुशौ प्रागग्रौ द्विजासने दक्षिणे भागे दद्यात् । ‘ स्वासनं ’ इति विप्रः एवं द्वितीयेऽपि दत्त्वा ‘ अत्रास्यतां ’ धर्मोऽसि ‘ अत्रास्यामः ’ इति विप्रः ‘ दैवे आसने क्षणः क्रियतां ’ ‘ ओंतथा ’ इति विप्रः । ‘ प्राप्नोतु भवान् ’ ‘ प्राप्नुवानि ’ इति विप्रः । ततः देवद्विजाग्रे भुवं प्रोक्ष्य तत्रकुशोपरि पात्रद्वयमुदकूसंस्थं निधाय तस्मिन् प्रत्येकं द्वौ द्वौ प्रागग्रौ दर्भौ निधाय दर्भांतर्हितेष्वप आसिच्य प्रत्येकं यवान् क्षिप्त्वा ‘ देवतीर्थेभ्यो नमः ’ इत्यनुमंत्र्य ‘ अत्रं नमः गंधं० पुष्पं० तुलसीपत्रं० सर्वे उपचाराः यवैः संपूर्णाः संतु । देवार्घ्यपात्रे संपन्ने ’ ‘ सुसंपन्ने ’ इति विप्रोक्तिः । ततः ‘ नमो‍ऽर्घ्याः ’ इति प्रत्येकं द्विजाग्रे अर्घ्यपुटकं निवेदयेत् । ‘ पुरुरवार्द्रवसंज्ञकान् विश्वान्देवानावाहयिष्ये ’ ‘ आवाहय ’ इति द्विजैरनुज्ञातः द्विजमूर्धादिपादांतं दक्षिणत आरभ्य यवान् विकीर्य ‘ आगच्छंतु महाभागा विश्वेदेवा महाबलाः । ये ह्यत्र विहिताः सर्वे भवतस्ते यथातथम् ’ इति पठित्वा श्रुत्वा वा ततो द्विजहस्तेऽपो दद्यात् प्रत्युपचारदाने कूर्चेन आद्यंतयोरब्दानम् । ‘ पुरुरवार्द्रसंज्ञका विश्वेदेवाः इदं वोऽर्घ्यं नमः ’ इत्यर्घ्यं दत्त्वा ‘ अद्भ्यो नमः ’ इति द्विजहस्तात्स्रवज्जलमभिमंत्रयेत् एवं द्वितीयेऽप्यर्घ्यं दद्यात् । एकविप्रत्वे एकस्मै अर्घ्यद्वयं दद्यात् । पुरुरवार्द्रवसंज्ञकाविश्वेदेवाः यथाभागशः एष वो गंधो नमः । पुरुरवार्द्रव० इमानि वः पुष्पाणि तुलसीपत्रसहितानि नमः । पुरुवार्द्रवसंज्ञका० एषवो धूपो नमः । पुरुरवार्द्रवसं० एषवो दीपो० । पुरुरवा० आच्छादानार्थे वस्त्रं तन्निष्क्रयद्रव्यं वा० यज्ञोपवीतं वा० । एवं पवित्रालंकारभाजनादिसमर्प्य कर्ता - नमो देवेभ्यः एते आसनादि सर्वे उपचाराः यवैः संपूर्णाः संतु न्यूनं तद्विधिवदस्तु ’ ‘ अस्तु विधिवत् ’ इति द्विजाः । कर्ता - ‘ युष्मदनुज्ञया पित्राद्यर्चनं करिष्ये ’ ‘ कुरुष्व ’ इति विप्राः । ततः पित्र्यद्विजान् उदड्मुखान् आसने उपवेश्य तदग्रे स्वयं प्राड्मुख उपविश्य अपसव्यं कृत्वा सव्यं जान्वाच्य अपोदत्त्वा ‘ अस्मत्पितुः अमुकवर्मणः अमुकगोत्रस्य वसुरुपस्य इदमासनं ’ इति सतिलभुग्नकुशत्रयं द्विजासने वामभागे दद्यात् । ‘ स्वासनं ’ इति विप्रप्रत्युक्तिः । ‘ अत्रास्यतां० ’ । ‘ अत्रास्यामः ’ एवं ‘ अस्मत्पितामहस्य अमुकव० अमुकगो० रुद्ररु० इदमा० । अत्रास्यतां० । अस्मत्प्रपितामहस्य अ० वर्म० अ० गो० आदित्यरु० इदमा० । अत्रास्यतां० । पित्र्ये आसने क्षणः क्रियतां ’ ‘ ओंतथा ’ इति विप्राः । ‘ प्राप्नोतु भवान् ’ ‘ प्राप्नवानि ’ इतिविप्राः । ( एकविप्रत्वे तु अस्मत्पितृपितामहप्रपितामहानां अमुकवर्मणां अमुकगोत्राणां वसुरुद्रादित्यस्वरुपाणां इदमासनमित्यादिसर्वं बहुवचनविभक्तिकं कार्यम् ) ततः पित्र्यद्विजाग्रे प्रोक्षितायां भुवि कुशानास्तीर्य तेषु आग्नेयीसंस्थानि त्रीणि अर्घ्यपात्राण्यासाद्य तेषु प्रत्येकं नमः ’ दक्षिणाग्रं कुशत्रयात्मकं पवित्रं निधाय अप आसिच्य ‘ अद्भ्यो नमः ’ इति सकृदनुमंत्र्य ‘ तिलदेवेभ्योनमः ’ इति प्रत्येकं तिलान् क्षिप्त्वा पित्रर्घ्यपात्रेषु ‘ इदं गंधं पुष्पं भृंगिराजपत्रं नमः सर्वे उपचाराः तिलैः संपूर्णाः संतु पित्रर्घ्यपात्राणि ‘ संपन्नानि ’ सुसंपन्नानि इति विप्रोक्तिः । कर्ता - ‘ अस्मत्पितृपितामहप्रपितामहान् अमुकवर्मणः अमुकगोत्रान् वसुरुद्रादित्यस्वरुपान् भवत्सु आवाहयिष्ये ‘ आवाहय ’ इत्यनुज्ञातः द्विजस्य वामांगमारभ्य मूर्धादिपादांतं तिलान् क्षिप्त्वा ‘ पितृपितामहप्रपितामहान् आवाहयामि ’ अवशिष्टतिलान् अर्घ्यपात्रेषु क्षिपेत् । ततोद्विजाग्रे ‘ नमः पित्रर्घ्याः ’ इति मंत्रेणार्घ्यपात्राणि निवेद्य सव्यं द्विजदक्षिणकरे दक्षिणाग्रं पवित्रं दत्त्वा ‘ अस्मत्पितरिदं तेऽर्घ्यं नमः अस्मत्पितामहेदं तेऽर्घ्यं० अस्मत्प्रपितामहेदं तेऽअर्घ्यं० इति पितृतीर्थेन दत्त्वा द्विजहस्तात्स्रंवंतीरपः ’ ‘ अद्भ्यो नमः ’ इत्यनुमंत्रयेत् । ततः प्रथमपात्रे संस्रवानेकीकृत्य पुत्रकामो मुखमंक्त्वा तत्पात्रं पितृद्विजवामे ‘ पितृभ्यः स्थानमसि ’ इतिन्युब्जं निधाय तत्पात्रं दक्षिणादानपर्यंत न चालयेत् । ततोऽपसव्येन अपोदत्त्वा ‘ अस्मत्पितः अमुकवर्मन् अमुकगोत्र वसुरुप एष ते गंधो नमः ’ इति प्रत्युपचारमाद्यंतयोरब्दानं देयम् । ‘ अस्मत्पितामह अमुकवर्मन्नमुकगोत्ररुद्ररुप एष ते गंधो० । अस्मत्प्रपितामह अ० व० अ० गोत्र आदित्यरुप एष ते गंधो० । अस्मत्पितः अमुकवर्मन् इत्याद्युच्चार्य ‘ इमानि ते पुष्पाणि भृंगिराजपत्रसहितानि नमः ’ । एवं पितामहप्रपितामहयोः पुष्पाणि दत्त्वा पुनः ‘ अस्मत्पितः अमुकवर्मन् ’ इत्याद्युच्चार्य ‘ एष ते धूपो नमः अस्मत्पितः अमुकवर्मन् ’ इत्यादि० एष ते दीपो नमः । एवं पितामहप्रपितामहयोः अस्मत्पितः अमुकवर्मन्नित्यादि० आच्छादनं नमः अथवा तन्निष्क्रयद्रव्यं नमः । एवं पितामहप्रपितामहयोः । ततो यथाशक्ति पवित्रालंकारभाजनादिदेयम् । ‘ प्रत्येकं प्रत्येकं नमो नमम पितृभ्यो नमः एते आसनाद्यत्र - गंध - पुष्प - धूप - दीपार्चनाच्छादनांताः पंचोपचाराः सर्वे परिपूर्णा भवंतु अर्चनविधेः संपूर्णतास्तु न्यूनं तद्विधिवदस्तु ’ ‘ अस्तु विधिवत् ’ इति विप्राः । ततः सव्येन ‘ युष्मदनुज्ञया मंडलादि पात्रासादनं करिष्ये ’ ‘ कुरुष्व ’ इति प्रत्युक्ते देवद्विजाग्रे जलेन चतुरस्त्रं मंडलं कृत्वा अपसव्येन पितृद्विजाग्रे वर्तुलानि मंडलानि कृत्वा पालाशादिपात्राणि आसादयित्वा सव्यापसव्याभ्यां भस्ममर्यादां कृत्वा श्राद्धीयामान्नात् किंचित् गृहीत्वा कर्ता ‘ भवत्सु भवदनुज्ञया विप्रपाणावामान्नेनाग्नौ करणं करिष्ये ’ ‘ कुरुष्व ’ इति विप्रानुज्ञातोऽपसव्येन वामंजान्वाच्य पवित्रांतरहस्तेन घृताक्तमामान्नद्रव्यं किंचित् गृहीत्वा ‘ सोमाय पितृमते नमः ’ इति मंत्रेण सदर्भेषु द्विजकरेषु दत्त्वा ‘ सोमाय पितृमत इदं न मम ’ इति त्यक्त्वा पुनस्तथैव गृहीत्वा ‘ अग्नये कव्यवाहनाय नमः ’ इति दत्त्वा ‘ अग्नये कव्यवाहनायेदं न मम ’ । ततः सव्येन हस्तौ प्रक्षाल्याचम्य देवपूर्वकं पात्राण्यभिघार्य हुतशेषं पिंडार्थमवशेष्य पितृपात्रेषु तृष्णीं दद्यात् । ततो देवपूर्वमामंचतुर्गुणं द्विगुणं समं वा परिविष्य अभिघार्य प्रोक्ष्य दैवे दक्षिणं जान्वाच्योपविश्य तूष्णीं परिषिच्य दक्षिणसव्यकराभ्यां पात्रमालभ्य ‘ विष्णो हव्यं रक्षस्व पूरुरवार्द्रवसंज्ञकेभ्यो विश्वेभ्योदेवेभ्यः इदमामान्नं यथाशक्ति सोपस्करं परिविष्टं अस्य ब्राह्मणस्य भोजनपर्याप्तं गयास्थममृतरुपेण संपद्यंतां कव्यं नमो न मम ’ इत्युदकमुत्सृजेत् । एवं द्वितीयेऽपि दत्त्वा ‘ काश्यां विश्वेश्वरपादे दत्तमक्षय्यमस्तु गयागदाधरः प्रीयतां प्रीतो भवतु ’ । ततोऽपसव्यं कृत्वा वामं जान्वाच्य तूष्णीं परिषिच्य दक्षिणेनाधो वामेनोपरिचकराभ्यां पात्रं धृत्वा ‘ विष्णो कव्यं रक्षस्व अस्मत्पित्रे अमुकवर्मणे अमुकगोत्राय वसुरुपाय इदमामान्नं यथाशक्तिसोपस्करं परिविष्टं अस्य ब्राह्मणस्य भोजनपर्याप्तं गयास्थममृतरुपेण संपद्यंतां नमः कव्यं नमो नमम ’ इति तिलोदकमुत्सृजेत् । एवं पितामहप्रपितामहाभ्यां दत्त्वा ‘ काश्यां विश्वेश्वरपादे० ’ इत्यादिपूर्ववत्पठेत् । ततः ‘ असंस्कृतप्रमीतेभ्यः एष विकिरपिंडो दत्तो न मम ’ इति विकिरमामं दत्त्वा पुनः आममादाय ‘ अग्निदग्धेभ्योऽनग्निदग्धेभ्यश्च एष उच्छिष्टपिंडो दत्तो न मम ’ इति दत्त्वा तदुपरि तिलोदकं दद्यात् । ततो ‘ मधु मधु मधु ’ इति त्रिः पठेत् । एको विष्णुर्महद्भूतं० अनेन मम पितुः अमुकश्राद्धीयामान्नदानेन भगवान् पित्रादिस्वरुपी जनार्दनवासुदेवः प्रीयतां तत्सद्ब्रह्मार्पणमस्तु ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP