श्रीरमणगीता - अथ चतुर्दशोऽध्यायः ।
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
(जीवन्मुक्तिविचारः) निशायामेकविंशेऽह्नि भारद्वाजि विदां वरः । प्राज्ञश्शिवकुलोपाधिर्वैदर्भो वदतां वरः ॥१॥
जीवनमुक्तिं समुद्दिश्य महर्षि परिपृष्टवान् । अथ सर्वेषु शृण्वत्सु महर्षिर्वाक्यमब्रवित् ॥२॥
शास्त्रीयैर्लोकिकैश्चापि प्रत्ययैरविचालिता । स्वरूपे सुदृढा निष्ठा जीवन्मुक्तिरुदाहृता ॥३॥
मुक्तिरेकविधैव स्यात्प्रज्ञानस्याविशेषतः । शरीरस्थं मुक्तबन्धं जीवन्मुक्तं प्रचक्षते ॥४॥
ब्रह्मलोकगतो मुक्तश्श्रूयते निगमेषु यः । अनुभूतौ न भेदोऽस्ति जीवन्मुक्तस्य तस्य च ॥५॥
प्राणाः समवलीयन्ते यस्यात्रैव महात्मनः । तस्याप्यनुभवो विद्वन्नेतयोरुभयोरिव ॥६॥
साम्यात्स्वरूपनिष्ठाया बन्धहानेश्च साम्यतः । मुक्तिरेकविधैव स्याद्भेदस्तु परबुद्धिगः ॥७॥
मुक्तो भवति जीवन्यो माहात्मात्मनि संस्थितः । प्राणाः समवलीयन्ते तस्यैवात्र नरर्षभ ॥८॥
जीवन्मुक्तस्य कालेन तपसः परिपाकतः । स्पर्शाभावोऽपि सिद्धः स्याद्रूपे सत्यपि कुत्रचित् ॥९॥
भूयश्च परिपाकेन रूपाभावोऽपि सिद्ध्यति । केवलं चिन्मयो भूत्वा स सिद्धो विहरिष्यति ॥१०॥
शरीरसंश्रयं सिद्ध्योर्द्वयमेतन्नरोत्तम । अल्पेनापि च कालेन देवतानुग्रहाद्भवेत् ॥११॥
भेदमेतं पुरस्कृत्य तारतम्यं न सम्पदि । देहवानशरीरो वा मुक्त आत्मनि संस्थितः ॥१२॥
नाडीद्वारार्चिरोद्येन मार्गेणोर्ध्वगतिर्नरः । तत्रोत्पन्नेन बोधेन सद्यो मुक्तो भविष्यति ॥१३॥
उपासकस्य सुतरां पक्वचित्तस्य योगिनः । ईश्वरानुग्रहात्प्रोक्ता नाडीद्वारोत्तमा गतिः ॥१४॥
सर्वेषु कामचारोऽस्य लोकेषु परिकीर्तितः । इच्छयाऽनेकदेहानां ग्रहणं चाप्यनुग्रहः ॥१५॥
कैलाशं केऽपि मुक्तानां लोकमाहुर्मनीषिणः । एके वदन्ति वैकुण्ठं परे त्वादित्यमण्डलम् ॥१६॥
मुक्तलोकाश्च ते सर्वे विद्वन्भूम्यादिलोकवत् । चित्रवैभवया शक्त्या स्वरुपे परिकल्पिताः ॥१७॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे जीवन्मुक्तिविचारो नाम चतुर्दशोऽध्यायः ॥१४
N/A
References : N/A
Last Updated : November 11, 2016
TOP