सूर्य गीता - अथ द्वितीयोऽध्यायः
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
सूर्य उवाच -
अथातः सम्प्रवक्ष्यामि कर्मणां पंचभूमिकाः । उत्तरोत्तरमुत्कर्षाद्विद्धि सोपानपंक्तिवत् ॥१॥ प्रथामा तांत्रिकी प्रोक्ता परा पौराणिकी मता । स्मार्ता तृतीया तुर्या तु श्रौता संकीर्तिता बुधैः ॥२॥ पंचमी त्वौपनिषदा विबुधोत्तमसंमता । यस्याः परं न किंचित्स्याद्वाच्यं ज्ञेयं च सत्तम ॥३॥ स्वेच्छं कर्माणि कुर्वन्यः प्रमाणाश्रयणं विना । तन्त्रोक्तानि करोत्येष कर्मी प्राथमिको मतः ॥४॥ तानि तन्त्रोक्तकर्माणि त्यक्त्वा पौराणिकानि यः । करोति तन्त्रसम्बन्धीन्ययं कर्मी द्वितीयकः ॥५॥ त्यक्त्वा तान्यपि यः स्मार्तान्यनुतिष्ठति सर्वदा । श्रुतिसम्बन्धवन्त्येष तृतीयः कर्म्युदीर्यते ॥६॥ यश्च तान्यपि सन्त्यज्य श्रौतान्येवाचरत्ययम् । कर्मी धर्मार्थकामानां स्थानं तुर्योऽभिधीयते ॥७॥ श्रौतान्यपि च यस्त्यक्त्वा सदौपनिषदानि वै । करोति श्रद्धया कर्माण्ययं मोक्षी तु पंचमः ॥८॥ यान्यौपनिषदानां स्युरविरोधीनि कर्मणाम् । श्रौतादीनि सुसंग्राह्यान्यमलानि मुमुक्षुभिः॥९॥ कर्माण्युपनिषत्सु स्युर्ब्रह्मैकार्थासु वै कथम् । इति शंक्यन्नकुर्वन् हि विधिरस्ति जिजीविषेत् ॥१०॥ ईशावास्यादिवेदान्तप्रोक्तान्यामरणादपि । कुर्वन्नेव विमुच्येत ब्रह्मवित्प्रवरोऽस्तु वा ॥११॥ यतयस्त्यक्तगार्हस्थ्या अपि स्वोचितकर्मभिः । आश्रमं पालयन्तः स्वं कैवल्यं प्राप्नुयुः परम् ॥१२॥ कर्म प्रजाधनानां यस्त्यागः समभिधीयते । कामैकविषयत्वेन स यतेर्न विरुध्यते ॥१३॥ संन्यासिनो हि कर्माणि नित्यानि विमलानि च । श्रेयोर्थानि विधीयन्ते परिव्राजेब्जजन्मना ॥१४॥ अपेतकाम्यकर्माणो यतयोऽन्येऽपि वा जनाः । सद्यः क्रमेण वा मुक्तिमाप्नुयुर्नात्र स.म्शयः ॥१५॥ पंचमीं भूमिमारूढः ज्ञानोपासनकर्मभिः । शोकमोहादिनिर्मुक्तः सर्वदैव विराजते ॥१६॥ न ज्ञानेन विनोपास्तिर्नोपास्त्या न विनेतरत् । कर्मापि तेन हेतुत्वं पूर्वपूर्वस्य कथ्यते ॥१७॥ यद्वा यावन्न हि ज्ञानं तावन्नोपासनं मतम् । यावन्नोपासनं तावन्न ज्ञानं च कथंचन ॥१८॥ ज्ञानं यावन्न कर्मापि न तावन्मुख्यमीर्यते । यावन्न कर्म तावच्च न ज्ञानं साधुसंमतम् ॥१९॥ यावन्नोपासनं तावन्न कर्मापि प्रशस्यते । यावन्न कर्मोपास्तिश्च न तावत्सात्त्विकी मता ॥२०॥ ज्ञानोपासनकर्माणि सापेक्षाणि परस्परम् । प्रयच्छन्ति परां मुक्तिं नान्यथेत्युक्तमेव ते ॥२१॥ एतेषु साधनेष्वेकं त्रिषु यत्किंचिदत्र यः । त्यजेदसद्गुरूक्त्या स नाश्नुवीत परामृतम् ॥२२॥ नानाविधानि ज्ञानानि नानारूपा उपास्तयः । नानाविधानि कर्माणि श्रुत्यन्तादिषु संविदुः ॥२३॥ सम्बन्धस्तु त्रयाणां स्यादुचितः शिष्टवर्त्मना । निपुणैश्च सुविज्ञेयमनुबन्धचतुष्टयम् ॥२४॥ अनुबन्धविरोधेन त्रयाणां चेत्समुच्चयः । कृतः स सद्यः प्राप्नोति तृप्तिं मानवपुंगवः ॥२५॥ अनुबन्धपरिज्ञानं विना मुक्त्यै प्रयत्नवान् । न मुक्तिं विन्दते कोऽपि साधकादिविपर्ययात् ॥२६॥ भोगाधिकारी मोक्षं चेत्फलमिच्छेत्कदाचन । अनुबन्धस्य विज्ञानं कथं नु स्यात्समंजसम् ॥२७॥ अधिकारानुगुण्येन सम्बन्धः परिकीर्तितः । तत्सम्बन्धानुगुण्येन विषयश्च प्रकीर्तितः ॥२८॥ विषयानुगुणं प्रोक्तं प्रयोजनमतो बुधैः । अनुबन्धाः सुविज्ञेया ज्ञानोपासनकर्मसु ॥२९॥ वर्णाश्रमाणां सर्वेषामनुष्ठेयेषु कर्मसु । अविद्वान् संशयात्मा चेदनुवर्तेत पूर्वकान् ॥३०॥ विद्वान् चेत्संशयात्माभूच्छास्त्रे स्वमतिनिश्चितम् । आचरेत्तु न शिष्टस्यप्यबुधस्य पितुर्मतम् ॥३१॥ स्वकूटस्थबुधाचारः साधुसंविदितो यदि । विद्वानपि त्यजेत्स्वीयं तद्विरुद्धमसंमतम् ॥३२॥ पूर्वाचारानुसरणं कर्ममात्रे नियम्यते । ज्ञानोपास्त्योस्त्वबाह्यत्वादन्यथाऽपि च युज्यते ॥३३॥ पूर्वकेष्वपि सांख्येषु स्वस्य युज्येत योगिता । अन्यथाऽपि च नैतेन प्रत्यवायः कियानपि ॥३४॥ यदि पूर्वविरोधेन कुर्यात्कर्माणि मानवः । स मूर्खो भवति क्षिप्रं प्रत्यवायी न संशयः ॥३५॥ नैमित्तिकानामकृतौ काम्यानां च न कश्चन । प्रत्यवायोऽत्र वाऽमुत्र लोके भवितुमर्हति॥३६॥ नित्यानां त्वकृतावत्रामुत्र वा प्रत्यवायभाक् । भवेदवश्यकार्यत्वादाश्रमच्युतिहेतवे ॥३७॥ न स्यादकरणं हेतुरभावात्मतया ततः । नित्याकरणहेतुः प्राक्कर्म चेत्प्रत्यवायकृत् ॥३८॥ अकृतौ प्रत्यवायस्य श्रवणं व्यर्थमेव तत् । पूर्वकर्मफलादन्यफलस्यानवधारणात् ॥३९॥ अतो नाभावता युक्ता नित्यकर्माकृतेर्यथा । निषिद्धाचरणं भावस्तथैवाकरणं मतम् ॥४०॥ विहिताकरणस्यापि भावात्मत्वोररीकृतेः । आस्तिकत्वमिह प्राहुरन्यथा नास्तिकत्वतः ॥४१॥ पूर्वकर्मफलस्यापि नित्याकरणकर्मणः । पापस्य दुःखहेतुत्वं पृथगेवाववधार्यते ॥४२॥ अज्ञानाद्विहिते लुप्ते ज्ञानाद्वा कर्मणि स्वके । प्रायश्चित्ती भवेन्मर्त्यो लभेद्दुर्जन्म वा पुनः ॥४३॥ बुद्धिपूर्वं त्यजन्नित्यमनुतापविवर्जितः । अनाश्रमी नरो घोरं रौरवं नरकं व्रजेत् ॥४४॥ जीवन्मुक्तस्य नित्येषु यदि लुप्तानि कानिचित् । न तेन प्रत्यवायोऽस्ति कैश्चित्स्वाश्रमसिद्धितः ॥४५॥ प्रायश्चित्तनिवर्त्यानि निषिद्धाचरणानि च । प्रायश्चित्तमकुर्वन्तमपि लिम्पन्ति नैव तम् ॥४६॥ कर्म शुद्धमशुद्धं च द्विविधं प्रोच्यते श्रुतौ । तत्राशुद्धेन बन्धः स्यान्मोक्षः शुद्धेन देहिनाम् ॥४७॥ अशुद्धं च तथा प्रोक्तं पुण्यं पापमिति द्विधा । परस्परं न बाधोऽस्ति तयोरत्राविरोधतः ॥४८॥ सुखदुःखे समस्तस्य जन्तोर्याभ्यां प्रसिध्यतः । तयोर्न वशमागच्छेच्छुद्धमात्रेण संस्थितः ॥४९॥ शुद्धं नित्यमनन्तं यत्सत्यं कर्म निगद्यते । नित्यशुद्धविमुक्तात्मसाक्षात्कारार्थकं विदुः ॥५०॥ विशुद्धैः कर्मभिः शुद्धानीन्द्रियाणि भवन्त्यलम् । इन्द्रियेषु विशुद्धेषु मनः शुद्धं स्वतो भवेत् ॥५१॥ शुद्धे मनसि जीवोऽपि विशुद्धो ब्रह्मणैकताम् । उपेत्य केवलानन्दं निष्कलं परमश्नुते ॥५२॥ बाह्यमाभ्यन्तरं चेति शुद्धं कर्म द्विधोच्यते । बाह्यं स्नानादि नित्यं स्याद्ध्यानाद्याभ्यन्तरं परम् ॥५३॥ अतः शुद्धेरशुद्धानां नाशो भवितुमर्हति । न शुद्धव्यतिरेकेण प्रयत्नान्तरमिष्यते ॥५४॥ विशुद्धकर्मनिष्ठास्ते यतयोऽन्येऽपि वा जनाः । अत्रैव परिमुच्यन्ते स्वातन्त्र्येण परामृतात् ॥५५॥ आरूढः पंचमीं भूमिं शुद्धेनैवावतिष्ठते । अतोऽत्र मतिमान्नित्यं पंचम्यभ्यासमाचरेत् ॥५६॥ इन्द्रियाणि विशुद्धान्यप्यशुद्धानां विवर्जनात् । शुद्धानामप्यनुष्ठानाद्धीमांस्तानि न विश्वसेत् ॥५७॥ अशुद्धेषु प्रवर्तेरन् पूर्ववासनया स्वतः । तेभ्यो नियम्य शुद्धेषु नित्यं तानि प्रवर्तयेत् ॥५८॥ इन्द्रियाणां च मनसः प्रसादं शुद्धकर्मभिः । उपलभ्यापि दुर्बुद्धिरशुद्धेह प्रवर्तते ॥५९॥ प्रसन्नमनसः स्वास्थ्यात्सुखं किंचित्प्रजायते । तावन्मात्रेण तृप्तस्तु क्रमेणाधः पतेन्नरः ॥६०॥ तृप्तिरल्पसुखप्राप्तौ महानर्थैककारणम् । अतस्तृप्तिमनाप्यैव शुद्धं नित्यं समाचरेत् ॥६१॥ यथा विषयभोगेषु विना तृप्तिं पुनः पुनः । प्रवर्तते तथा नित्यं यः शुद्धेषु स बुद्धिमान् ॥६२॥ शुद्धं शुद्धेन वर्धेत शुद्धः शुद्धं ततो व्रजेत् । अशुद्धमप्यशुद्धेनाशुद्धोऽशुद्धं तथा नरः ॥६३॥ यदेन्द्रियमनःप्राणाः शान्ताः सुप्ताविवाभवन् । शुद्धाशुद्धोभयातीतस्तदा तृप्तिं परां व्रजेत् ॥६४॥ यावन्नेन्द्रियसंशान्तिर्यावन्न मनसोऽप्ययः । यावन्न प्राणशान्तिश्च तावच्छुद्धं समाचरेत् ॥६५॥ परस्परोपयोगित्वाद्बाह्याभ्यन्तरशुद्धयोः । वियोगो नैव कार्योऽत्र बुधैरादेहमोचनात् ॥६६॥ यः शुद्धपक्षो हंसः स ऊर्ध्वं गच्छति चाम्बरे । अशुद्धपक्षः श्येनस्तु व्योमगोऽपि पतत्यधः ॥६७॥ छिन्नैकपक्षो हंसोऽपि नोर्ध्वं गन्तुमितोऽर्हति । अतः शुद्धद्वयं मुख्यं साधनं मुक्तये विदुः ॥६८॥ यद्यप्याभ्यन्तरं शुद्धं बाह्यशुद्धनिवर्तकम् । भवत्येतेन साम्यं न तयोरिति च केचन ॥६९॥ तथाऽपि बाह्यविलयसमकाललयात्परम् । आभ्यन्तरं समं तेन बाह्येन स्यात्स्वकर्मणा ॥७०॥ आभ्यन्तरं च तच्छुद्धं कर्म द्विविधमुच्यते । सम्प्रज्ञातसमाध्याख्यमसम्प्रज्ञातनाम च ॥७१॥ जीवन्मुक्तेः पुरावृत्तमाद्यं कर्म स्वमानसम् । पुरा विदेहमुक्तेस्तु वृतमन्यत्स्वमानसम् ॥७२॥ मानसत्वात्समाधेश्च कर्मत्वोक्तिर्न दूष्यते । अनन्यविषयत्वाच्च तत्फलं नैव नश्वरम् ॥७३॥ अन्तःशुद्धिर्बहिःशुद्धिं यथा नॄणामपेक्षते । बहिःशुद्धिस्तथैवान्तःशुद्धिं च नियमेन हि ॥७४॥ यस्य कर्मसु शुद्धेष्वप्यौदासीन्यं विजायते । तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥७५॥ विरोधो जायते यस्य ज्ञानकर्मसमुच्चये । तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥७६॥ यः श्रौतं कर्म हित्वान्यत्तान्त्रिकं समुपाश्रयेत् । तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥७७॥ यश्चान्तरं च तत्कर्म मन्यते मन्दगोचरम् । तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥७८॥ अशुद्धकर्मनिष्ठः सन् शुद्धं निन्दति यः सदा । तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥७९॥ शुद्धं पश्यति यः शान्तमक्षिरोगीव भास्करम् । तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥८०॥ विशुद्धवंशप्रभवं महामतिं विशुद्धबाह्यान्तरकर्मभास्वरम् । विशुद्धवेदान्तरहस्यवेदिनं विद्वेष्टि यः संकर एव नेतरः ॥८१॥ अशुद्धवंशप्रभवं सुदुर्मतिं स्वशुद्धकर्मद्वयनष्टतेजसम् । अशुद्धतन्त्रार्थविदं नराधमं यः श्लाघते संकर एव नेतरः ॥८२॥
इति सूर्यगीतायां द्वितीयोऽध्यायः॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP