संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| प्रथम: पाद:| सूत्र १ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ प्रथम: पाद: - सूत्र १ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १ Translation - भाषांतर स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गत् ॥१॥प्रथमेऽध्याये सर्वज्ञ: सर्वेश्वरो जगत उत्पत्तिकारणं मृत्सुवरर्णादय इव घटरुचकादीनाम् ।उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणं मायावीव मायाया: ।प्रसारितस्य च जगत: पुन: स्वात्मन्येवोपसंहारकारणमवनिरिव चतुर्विधस्य भूतग्रामस्य ।स एव च सर्वेषां न आत्मेत्येतद्वेदान्तवाक्यसमन्ययप्रतिपादनेन प्रतिपादितम् ।प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृता: ।इदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहार: प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं प्रतिवेदान्तं च सृष्टयादिप्रक्रियाया अविगीतत्वमित्यस्यार्थजातस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते ।तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति । यदुक्तं ब्रम्हौव सर्वज्ञं जगत: कारणमिति तदयुक्तम् ।कुत: । स्मृत्यनवकाशदोषप्रसङ्गत् ।स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीताऽन्याश्च तदनुसारिण्य: स्मृतय एवं सत्यनवकाशा: प्रसज्येरन् ।तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगत: कारणमुपनिबध्यते मन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्य: सावकाशा भवन्ति अस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनमीद्दशश्चाचार इत्थं वेदाध्ययनमित्थं समावर्तनमित्थं सहधर्मचारिणीसंयोग इति तथा पुरुषार्थांश्च वर्णाश्रमधर्मान्नानाविधान्विदधति नैवं कपिलादिस्मृतीनामनुष्ठेये विषयेऽवकाशोऽस्ति मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ता: प्रणीता: ।यदि तत्राप्यनवकाशा: स्युरानर्थक्यमेवासां प्रसज्येत ।तस्मात्तदविरोधेन वेदान्ता व्याख्यातव्या: ।कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रम्हौव सर्वज्ञं जगत: कारणमित्यवधारित: श्रुत्यर्थ: स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ।भवेदयमनाक्षेप: स्वतन्त्रप्रज्ञानास ।परतन्त्रप्रज्ञास्तु प्रायेण जना: स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्त: प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् ।तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् ।अस्मत्कृते च व्याख्याने न विश्चस्युर्बहुमानात्स्मृतीनां प्रणेतृषु ।कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते ।श्रुतिश्च भवति ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येदिति ।तस्मान्नैषां मतमतथार्थं शक्यं संभावयितुम् ।तर्कावष्टम्भेन च तेऽर्थं प्रतिष्ठापयन्ति तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेप: ।तस्य समाधिर्नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति ।यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येतैवमप्यन्या ईश्वरकारणवादिन्य: स्मृतयोऽनवकाशा: प्रसज्येरन् ।ता उदाहरिष्याम: ।यत्तत्सूक्ष्ममविज्ञेयमिति परं ब्रम्हा प्रकृत्य स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यत इति चोक्त्वा तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमेत्याह ।तथान्यत्राप्यव्यक्तं पुरुषे ब्रम्हान्निर्गुणे संप्रलीयत इत्याद ।अतश्च सङ्क्षेपमिमं शृणुध्वं नारायण: सर्वमिदं पुराण: ।स सर्गकाले च करोति सर्वं संहारकाले च तदति भूय इति ।पुराणे भगवद्रीतासु च ।अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथेति ।परमास्मानमेव च प्रकृत्यापस्तम्ब: पठति तस्मात्काया: प्रभवन्ति सर्वे स मूलं शाश्वतिक: स नित्य इति ।एवमनेकश: स्मृतिष्व पीश्वर: कारणत्वेनोपादानत्वेन च प्रकाश्यते ।स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमस्य स्मृत्यनवकाशदोषोपन्यास: ।दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् ।विप्रतिप्रत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्य: स्मृतय: प्रमाणमनपेक्ष्या इतरा: ।तदुक्तं प्रमाणलक्षणे विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमिति ।न चातीन्द्रियानर्थाव्श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुं निमित्ताभावात् ।शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेन्न ।सिद्धेरपि सापेक्षत्वात् ।धर्मानुष्ठानपेक्षा हि सिद्धि: ।स च धर्मश्चोदनालक्षण: ।ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते ।सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिब्यपाश्रयादन्यन्निर्णयकारणमस्ति ।परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषय: पक्षपातो यक्त: ।कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्चरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् ।तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया ।या तु श्रुति: कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यं कपिलमिति श्रुतिसामान्यमात्रत्वाम् ।अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्न: स्मरणात् ।अन्यार्थादर्शनस्य च प्राप्तिरहितस्यासाधकत्वात् ।भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिर्यद्वै किञ्च मनुरवदत्तद्भेषजमिति ।मनुना च सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छतीति ।सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते ।कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते ।आत्मभेदाभ्युपगमात् । महाभारतऽपि ।बहव: पुरुषा ब्रम्हान्नुताहो एक एव त्विति विचार्यं बहव: पुरुषा राजन्साङ्खययोगविचारिणामिति परपक्षमुपन्यस्य तद्वयुदासेन बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकमित्युपक्रम्य ।ममान्तरात्मा तव च ये चान्ये देहसंस्थिता: ।सर्वेषां साक्षिभूतोऽसौ न ग्राह्य: केनचित्क्वचित् ॥विश्चमूर्द्धा विश्वभुजो विश्वपादाक्षिनासिक: ।एकश्चरति भूतेषु स्वैरचारी यथासुखमिति ॥सर्वात्मतैव निर्धारिता । श्रुतिश्च सर्वत्मतायां भवति । N/A References : N/A Last Updated : December 05, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP