तृतीयाः पाद: - सूत्र ६

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्य: ॥६॥

एवं प्राप्त इदमाह ।
प्रतिहानिरव्यतिरेकाच्छब्देभ्य: ।
येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमित्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं विदितमिति कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति न काचन मद्बहिर्धा विद्यास्तीति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते ।
तस्या: प्रतिज्ञाया एवमहानिरनुपरोध: स्याद्यद्यव्यतिरेक: कृत्स्नस्य वस्तुजातस्य विज्ञेयादब्रम्हाण: स्यात् ।
व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयेत ।
स चाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्मादब्रम्हाण उत्पद्येत ।
शब्देभ्यक्ष प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते ।
तथा हि येनाश्रुतं श्रुतं भवतीति प्रतिज्ञाय मृदादिदृष्टान्तै: कार्यकारणाभेदप्रतिपादनपरै: प्रतिज्ञैपा समर्थ्यत तत्साधनायैव चोत्तरे शब्दा: सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत तत्तेजोऽसृजतेति ।
एवं कार्यजातं ब्रम्हाण: प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति - ऐतदात्म्यमिदं सर्वमित्यारभ्याप्रपाठकपरिसमाप्ते: ।
तद्यद्याकाशं न ब्रम्हाकार्यं स्यान्न ब्रम्हाणि विज्ञात आकाशं विज्ञायेत ततश्च प्रतिज्ञाहानि: स्यात् ।
न च प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम् ।
तथा हि प्रतिवेदान्तं ते शब्दास्तेनतेन दृष्टान्तेन तामेव प्रतिज्ञां स्थापयन्तीदं सर्व यदयमात्मा ब्रम्हौवेदममृतं पुरस्तादित्येवमादय: ।
तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते ।
यदुक्तमश्रुतेर्न वियदुत्पद्यत इति तदयुक्तं वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात्तस्माद्वा एतस्मादात्मन आकाश: संभूत इति \
सत्यं दर्शितं विरुद्धं तु तत्तेजोऽसृजतेत्यनेन श्रुत्यन्तरेण ।
न । एकवाक्यत्वात्सर्वश्रुतीनाम् ।
भवत्वेकवाक्यत्वमविरुद्धानामिह तु विरोध उक्त: सकृच्छुतस्य स्रष्टु: स्रष्टव्यद्वयसंबन्धासंभवाददब्रयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति ।
नैष दोष: ।
तेज: सर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात्तस्माद्वा एतस्मादात्मन आकाश: संभूत ।
आकाशाद्वायु: ।  वायोरग्निरिति ।
अशक्या हीयं श्रुतिरन्यथा परिणेतुं शक्या तु परिणेतुं छान्दोग्यश्रुतिस्तदाकाशं वायुं च सृष्टवा तत्तेजोऽसृजतेति ।
न हीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति ।
एकस्य वाक्यस्य व्यापारद्वयासंभवात् ।
स्रष्टा त्वेकोऽपि क्रमेणानेकं स्रष्टव्यं सृजेदित्येकवाक्यत्वकपनायां संभवन्त्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या ।
न चास्माभि: सकृच्छुतस्य स्रष्टु: स्रष्टव्यद्वयसंबन्धोऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् ।
यथा च सर्वं खल्विदं ब्रम्हातज्जलानित्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रम्हाजत्वं श्रूयमाणं  न प्रदेशान्तरवि हितं तेज: प्रमुखमुत्पत्तिक्रमं वारयत्येवं तेजसोऽपि ब्रम्हाजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभ: प्रमुखमुत्पत्तिक्रमं वारयितुमर्हति ।
ननु शमविधानार्थमेतद्वाक्यम् ।
तज्जलानिति शान्त उपासीतेति श्रुते: ।
नैतत्सृष्टिवाक्यम् ।
तस्मादेतन्न प्रदेशान्तरप्रसिद्धं कममनुरोद्धुमर्हतीति ।
तत्तेजोऽसृजतेत्येतत्सृष्टिवाक्यम् ।
तस्मादत्र यथा शृतिक्रमो ग्रहीतव्य इति ।
नेत्युच्यते । न हि तेज: प्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थ: परित्यक्तव्यो भवति ।
पदार्थधर्मत्वात्क्रमस्य । अपि च तत्तेजोऽसृजतेति नात्र क्रमस्य वाचक: कश्चिच्छब्दोऽस्ति ।
अर्थात्तु क्रमो गम्यते ।
स च वायोरग्निरित्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते ।
विकल्पसमुच्चयौ तु वियत्तेजसो: प्रथमजत्वविषयावसंभवानभ्युपगमाभ्यां निवारितौ ।
तस्मान्नास्ति श्रुत्योर्विप्रतिषेध: ।
अपि च च्छान्दोग्ये येनाश्रुतं श्रुतं भवतीत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमान्नातमपि वियदुत्पत्तावुपसंख्यातव्यं किमडग पुनस्तैत्तिरीयके समान्नातं नभो न संगृहयते ।
यच्चोक्तमाकाशस्य सर्वेणानन्यदेशकालत्वादब्रम्हाणा तत्कार्यैश्च सह विदितमेव तद्भवत्यतो न प्रतिज्ञा हीयते न चैकमेवाद्वितीयमिति श्रुतिकोपो भवति क्षीरोदकवदब्रम्हानभसोरव्यातिरेकोपपत्तेरिति ।
अत्रोच्यते । न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् ।
मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते ।
क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् ।
न हि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतत्वमस्ति ।
न च वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुत्पद्यते ।
सावधारणा चेयमेकमेवाद्वितीयमिति श्रुति: क्षीरोदकन्यायेन नीयमाना पीडयेत ।
न च स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यम् ।
मृदादिष्वपि हि तत्संभावत् ।
न तदपूर्ववदुपन्यसितव्यं भवति श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवतीत्यादिना ।
तस्मादशेपव स्तुविपयमेवेदं सर्वविज्ञानं सर्वस्य ब्रम्हाकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम् ॥६॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP