द्वितीयः पादः - सूत्र १४-१६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्मर्यते च ॥१४॥

स्मर्यते च ॥
स्मर्यतेऽपिस च महाभारते गत्युत्क्रान्त्योरभाव: - सर्वभूतात्मभूतस्य तम्यग्भूतानि पश्यत: ।
देवा अपि मार्गे मुहयन्त्यपदस्य पदैपिण इति ।
ननु गतिरपि ब्रम्हाविद: सर्वगतब्रम्हात्मभूतस्य स्मर्यते शुक्त: किल वैयासकिर्मुमुक्षुरादित्यंण्डलमबिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्रविति । न ।
सशरीरस्यैवायं योगबलेन विशिष्टदेशप्राप्तिपूर्वक: शरीरोत्सर्ग इति द्रष्टव्यम् ।
सर्वभूतद्दश्यत्वाद्युपन्यासात् ।
न हयशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्तुयु: ।
तथा च तत्रैवोपसंहवतं शुक्रस्तु मारुताच्छीघ्रां गतिं कृत्वाऽन्तरिक्षग: ।
दर्शयित्वा प्रभावं स्वं सर्वभुतगतोऽभवदिति ।
तस्मादभाव: परब्रम्हाविदी गत्युत्क्रान्त्यो: ।
गतिश्रुतीनां तु विषयमुपरिष्टाव्द्याख्यास्याम: ॥१४॥

तानि परे तथा हयाह ॥१५॥

तानि परे तथा हयाह ॥
तानि पुन: प्राणशब्दोतिदानीन्द्रियाणि भूतानि परब्रम्हाविदस्तस्तिन्नेव परस्मिन्नात्मनि प्रठीयन्ते ।
कस्मात् । तथा हयाह श्रुति: एवमवास्य परिद्रष्टुरिमा: षोडश कला: पुरुषायणा: पुरुषं प्राप्यास्तं गच्छन्तीति ।
ननु गता: कला: पञ्चदश प्रतिष्ठा इति विद्वद्विषयैवापरा श्रुति: परस्मादात्मनोऽन्यत्रापि कलानां प्रलयमाह स्म । न ।
सा खलु व्यवहारापेक्षा पार्थिवाद्या: कला: पृथिव्यादीरेव स्वप्रकृतीरपियन्तीति ।
इतरा तु विद्वत्प्रतिपत्यपेक्शा कृत्स्नं कलाजातं परब्रम्हाविदो ब्रम्हौव संपद्यत इति ।
तस्माददोष: ॥१५॥

अविभागो वचनात् ॥१६॥

अविभागो वचनात् ॥
स पुनर्विदुष: कलाप्रलय: किमितरेषामिव सावशेषो भवत्याहोस्विन्निरवशेष इति ।
तत्र प्रलयसामान्याच्छक्त्यवशषताप्रसक्तौ ब्रवीति विभागापत्तिरेवेति ।
कुत: ।
वचनात् ।
तथा हि कलाप्रलयमुक्त्वा वक्ति बिद्यंते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एकोऽकलोऽमृतो भवतीति ।
अविद्यानिमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषतोपपत्ति: ।
तस्मादविभाग एवेति ॥१६॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP