अथ श्रीसूक्तपुरश्चरणविचार:

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


तत्र मंत्राणां पुरश्चरणं विना सिद्धयभावात्‌ आदौ पुरश्चरणं कर्तव्यम्‌ । तदुक्तं विश्वामित्रकल्पे - ‘जीवहीनो यथा देह; सर्वकर्मसु न क्षम: । पुरश्चरणहीनश्च तथा मंत्र: प्रकीर्तित: ॥’ इति । चं. दीपिकायां ‘पुरश्चरणसंयुक्तो मंत्रो हि फलदायका । पुरस्क्रिया हि मंत्राणां पधानं बीजमुच्यते ॥ किं जपैर्यंननैश्चैव किं ध्यानैर्न्यासविस्तरै:’ इति । पुरश्चरणशब्दार्थो वायुसंहितायाम्‌ ‘साधनं मूलमंत्रस्य पुरश्चरणमुच्यते । पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणाम्‌ । पुरतो विनियोगस्य चरणाद्वा तथोदितम्‌ ॥’ इति । मंत्रतत्त्वप्रकाशे ‘फलाय राजसेवाया राजसेवा यथा तथा । चरणात्पूर्वमेवात: पुरश्चरणमुच्यते ॥’ इति ॥ - तदेवं पुरश्वरणं नाम अभीष्टफलाय विनियुक्तमंत्राणां फलदानसामर्थोत्पादनाय
पुरत: तत्तन्मंत्रजपसंख्यादिना यद्देवताराधनाद्याचर्यते तत्पुरश्चरणमिति फलितोऽर्थ: । इति ।


References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP