गुरुवातपुरीशपञ्चरत्नस्तोत्रम् - नारायण नारायण नारायण नारा...
गुरुवातपुरीशपञ्चरत्नस्तोत्रम्
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण ॥
( खालील श्लोकांनंतर हे पुन्हा पुन्हा म्हणणे )
कल्य़ाणरूपाय कलौ जनानां
कल्याणदात्रे करुणासुधाब्धे ।
कंब्वादि दिव्यायुधसत्कराय
वातालयाधीश नमो नमस्ते ॥१॥
नारायणेत्यादि जपद्भिरुच्चैः
भक्तैस्सदापूर्णमहालयाय ।
स्वतीर्थगाङ्गोपमवारिमग्न-
निवर्त्तिताशेषरुजे नमस्ते ॥२॥
ब्राह्मे मुहूर्ते परितः स्वभक्तैः
सन्दृष्टसर्वोत्तमविश्वरूप ।
स्वतैलसंसेवकरोगहन्त्रे
वातालयाधीश नमो नमस्ते ॥३॥
बालान् स्वकीयान् तव सन्निधाने
दिव्यान्नदानात्परिपालयद्भिः ।
सदा पठद्भिश्च पुराणरत्नं
संसेवितायास्तु नमो हरे ते ॥४॥
नित्यान्नदात्रे च महीसुरेभ्यः
नित्यं दिविस्थैर्निशि पूजिताय ।
मात्रा च पित्रा च तथोद्धवेन
संपूजितायास्तु नमो नमस्ते ॥५॥
अनन्तरामाख्यमखिप्रणीतं
स्तोत्रं पठेद्यस्तु नरस्त्रिकालम् ।
वातालयेशस्य कृपाबलेन
लभेत सर्वाणि च मङ्गलानि ॥६॥
गुरुवातपुरीशपञ्चकाख्यं
स्तुतिरत्नं पठतां सुमङलं स्यात् ।
हृदि चापि विशेद्धरिःस्वयं तु
रतिनाथायुततुल्यदेहकान्तिः ॥७॥
N/A
References : N/A
Last Updated : January 07, 2019
TOP