प्राणाहुतिमन्त्राः
पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.
श्रद्धायां प्राणेनिविष्टोऽमृतं
जुहोमि । श्रद्धायामपाने निविष्टोऽमृतं जुहोमि । श्रद्धायां व्याने निविष्टोऽमृतं
जुहोमि । श्रद्धायामुदाने निविष्टोऽमृतं जुहोमि । श्रद्धायाँ समाने निविष्टोऽमृतं जुहोमि ।
ब्रह्मणि म आत्मा अमृतत्वाय । अमृतोपस्तरणमसि । श्रद्धायां प्राणेनिविष्टोऽमृतं जुहोमि ।
शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा॥
श्रद्धाया-मपाने निविष्टोऽमृतं
जुहोमि । शिवो मा विशाप्रदाहाय ।अपानाय स्वाहा । श्रद्धायां व्याने निविष्टोऽमृतं जुहोमि ।
शिवो मा विशाप्रदाहाय । व्यानाय स्वाहा । श्रद्धाया-मुदाने निविष्टोऽमृतं
जुहोमि । शिवो मा विशाप्रदाहाय । उदानाय स्वाहा ।श्रद्धायाँ-समाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय ।स्मानाय
स्वाहा । ब्रह्मणि म आत्मा अमृतत्वाय । अमृतोपस्तरणमसि॥
भुक्तान्नाभिमन्त्रणमन्त्राः
श्रद्धायां प्राणे निविश्यामृतँ हुतम् । प्राणमन्नेनाप्यायस्व ।
श्रद्धाया-मपाने निविश्यामृतँ हुतम् । अपान-मन्नेनाप्यायस्व ।
श्रद्धायां व्याने निविश्यामृतँ हुतम् । व्यान-मन्नेनाप्यायस्व ।
श्रद्धाया-मुदाने निविश्यामृतँ हुतम् । उदान-मन्नेनाप्याय ।
श्रद्धायाँ समाने निविश्यामृतँ हुतम् । समान-मन्नेनाप्यायस्व ।
N/A
References : N/A
Last Updated : January 08, 2019
TOP