द्वितीयस्थानम् - अष्टमोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
अथातो गदग्रस्तानां दूतारिष्टं भिषग्वर
शुभं वाशुभमेवान्यत्समासेन प्रचक्ष्यते ॥१॥
आतुरस्योपकारार्थं दूतो याति भिषग्गृहे
तस्य परीक्षणं कार्यं येन संलक्ष्यते गदः ॥२॥
खञ्जान्धमूकबधिरं रुजपीडितं वा बालं
स्त्रियञ्च विकलं तृषितं विजीर्णम्
श्रान्तं क्षुधातुरमपि भ्रमितञ्च दीनं दूतं
न शस्तमिह वेदविदो वदन्ति ॥३॥
कषायकृष्णार्द्रकवाससा च तथैव वस्त्रावृतमस्तकेन
अश्रुप्लुतैर्वा नयनैश्च युक्ताः केशैस्तथा मुण्डितमस्तकश्च ॥४॥
समर्कटाक्षोर्ध्वशिरोरुहश्च खर्वस्तथा वामनकृत्तनासः
एतान्न शंसन्ति विदो मुनीन्द्रा दूतान्नराणां रुजनाशनाय ॥५॥
यः कर्कशः क्रोधनपाशपाणिर्भिषग्विदूषी तमसावृतश्च
एते न शस्ताः प्रवदन्ति धीरा दूता विकारञ्च प्रवर्द्धयन्ति ॥६॥
यः काष्टहस्तोद्घतपाशपाणिस्तथातुरोदीनवचो हि रोदिति
प्रक्लिन्ननेत्रो गमनोत्सुकोऽपि वर्ज्यो रुगार्त्तोशुभकारिदूतः ॥७॥
यो रज्जुहस्तोद्घतपाशपाणिर्याम्यां दिशञ्च परिभूयतूर्णम्
यो वावदीति प्रबलं सरोषस्तथा समागम्य वदेच्च दूतः ॥८॥
लगुडं हस्तेऽवष्टभ्य वक्रपादेन तिष्ठति
तस्मादाकुलवादी यो न शस्तो वैद्यकर्मसु ॥९॥
पथा गच्छति शीघ्रेण आविश्योत्थाय मुह्यति
पादौ प्रसार्य विशति मस्तके विन्यसेत्करम् ॥१०॥
भिनत्ति लोहकाष्ठञ्च तृणं वा स्फोटते क्वचित्
एतानि स्पृशते नासां स्तनं वा स्पृशति पुनः ॥११॥
भूमिं लिखति पादेन रेखां वापि करोति यः
निद्रां वा कुरुते यस्तु स दूतोऽनिष्टकारकः ॥१२॥
यः श्वेतवस्त्रावृतपूर्णपाणिः सम्पूर्णताम्बूलमुखः प्रशस्तः
द्विजस्तथा माणवकः सुशीलः प्रज्ञाधिकश्चाह्वयते सुखाय ॥१३॥
कुसुममुकुरवक्त्रं यस्य स्यात्सर्वदापि
श्रमविकचसरोजंपद्मकिञ्जल्कपुष्पम्
करतलवरवस्त्रं पुष्पपूगाङ्गरागं
करतलधृतमेतत्सौख्यकर्त्ता हि दूतः ॥१४॥
आगत्योदीच्यपूर्वामथवरुणदिशमैशीमाश्रित्य शान्तो
दृष्ट्वा वैद्यं प्रहस्य प्रवदति निपुणं नातिनीचं न चोच्चम्
उत्तिष्ठ त्वं प्रसादं कुरु पवन इदं सौख्यवाक्यं तनोति
प्राज्ञैः स्वार्थं प्रकृष्टं सुखमगदकरं रोगिणां वैद्यलाभः ॥१५॥
पूर्वां दिशं समासाद्य प्रशान्तः शान्तया गिरा
वैद्यं वदति लाभाय रोगिणाञ्च सुखावहम् ॥१६॥
यश्चागत्योपविष्टोऽपि श्लोकं वाथ सुभाषितम्
वदते शान्तया वाचा सोऽपि लाभाय शान्तये ॥१७॥
अभिवाद्यस्य वैद्यस्य क्षेमं पृच्छति यः पुनः
फलं ददाति पुष्पं वा रोगिणाञ्च सुखावहम् ॥१८॥
यस्य सौख्यं सुखं सिद्धिस्तस्य दूता इदं विदुः
किमत्र बहुनोक्तेन दूतो नरसुखावहः ॥१९॥
न हितमस्त्रीपुरुषं तस्मात्तु परिवर्जयेत्
एवं जानाति यो वैद्यस्तस्य सिद्धिः सुखं श्रियः ॥२०॥
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने दूतपरीक्षणलक्षणं नाम अष्टमोऽध्यायः ॥८॥
N/A
References : N/A
Last Updated : February 22, 2021
TOP