श्रीशिवोपनिषत् - षष्ठः
उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.
Upanishad are highly philosophical and metaphysical part of Vedas.
अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् ।
यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत् ॥१॥
यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत् ।
शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥२॥
यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत् ।
गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥३॥
श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे ।
वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत् ॥४॥
कपित्थमेकं यः पक्वमीश्वराय निवेदयेत् ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥५॥
एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् ।
वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥६॥
एकं वटफलं पक्वं यः शिवाय निवेदयेत् ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥७॥
यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम् ।
शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥८॥
यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम् ।
तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥९॥
द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत् ।
भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥१०॥
यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम् ।
तावद्युगसहस्राणि रुद्रलोके महीयते ॥११॥
द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च ।
तदेव राजवृक्षेषु पारावतफलेषु च ॥१२॥
यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे ।
अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥१३॥
बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च ।
जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥१४॥
पनसं नारिकेलं वा शिवाय विनिवेदयेत् ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥१५॥
पुरुषं च प्रियालं च मधूककुसुमानि च ।
जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥१६॥
निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले ।
दशवर्षसहस्राणि रुद्रलोके महीयते ॥१७॥
क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् ।
वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥१८॥
वालुकात्रपुसादीनि यः फलानि निवेदयेत् ।
शिवाय गुरवे वापि पक्वं च करमर्दकम् ॥१९॥
दशवर्षसहस्राणि रुद्रलोके महीयते ।
बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥२०॥
दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च ।
एवमादीनि चान्यानि शाकमूलफलानि च ॥२१॥
निवेदयति शर्वाय शृणु यत्फलमाप्नुयात् ।
एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥२२॥
पञ्चवर्षसहस्राणि रुद्रलोके महीयते ।
गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम् ॥२३॥
निवेदयीत शर्वाय तस्य पुण्यफलं शृणु ।
यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत् ॥२४॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत् ॥२५॥
गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु ।
इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥२६॥
साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम् ।
निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥२७॥
वर्षकोटिं महाभोगैः शिवलोके महीयते ।
निवेद्य फाणितं शुद्धं शिवाय गुरवे ऽपि वा ॥२८॥
रसात्सहस्रगुणितं फलं प्राप्नोति मानवः ।
गुडस्य फलमेकं यः शिवाय विनिवेदयेत् ॥२९॥
अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते ।
खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम् ॥३०॥
खण्डात्सहस्रगुणितं शर्कराया निवेदने ।
मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत् ॥३१॥
कल्पकोटिं नरः साग्रं शिवलोके महीयते ।
परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम् ॥३२॥
मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात् ।
अशेषफलदानेन यत्पुण्यं परिकीर्तितम् ॥३३॥
तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने ।
पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥३४॥
निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु ।
कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥३५॥
पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते ।
दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत् ॥३६॥
सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ।
महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥३७॥
तत्पुण्यं सकलं प्राप्य शिवलोके महीयते ।
यदिष्टमात्मनः किंचिदन्नपानफलादिकम् ॥३८॥
तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता ।
न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित् ॥३९॥
किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते ।
न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम् ॥४०॥
पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम् ।
सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम् ॥४१॥
अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात् ।
तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥४२॥
तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना ।
यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम् ॥४३॥
नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम् ।
यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥४४॥
तावद्वर्षसहस्राणि सुरलोके महीयते ।
पलाशकदलीपद्म- पत्त्राणि च विशेषतः ॥४५॥
दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात् ।
यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम् ॥४६॥
तावदब्दायुतानां स लोके भोगानवाप्नुयात् ।
यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत् ॥४७॥
तावन्ति वर्षलक्षाणि शिवलोके महीयते ।
यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत् ॥४८॥
ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु ।
यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत् ॥४९॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम् ॥५०॥
इत्येतानि सुगन्धीनि फलानि विनिवेदयेत् ।
फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥५१॥
कामिकेन विमानेन क्रीडते स शिवे पुरे ।
त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥५२॥
वर्षकोटिं महाभोगैः शिवलोके महीयते ।
पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत् ॥५३॥
वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ।
यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत् ॥५४॥
मोदते स शिवे लोके वर्षकोटीश्चतुर्दश ।
मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥५५॥
प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ।
माणिक्यं कलशं पात्रीं स्थाल्यादीन्भाण्डसम्पुटान् ॥५६॥
दत्त्वा शिवाग्रजस्तेभ्यः शिवलोके महीयते ।
तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा ॥५७॥
वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम् ।
पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान् ॥५८॥
मृत्कुम्भपीटिकां दद्याद्भोगाञ्छिवपुरे लभेत् ।
यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम् ॥५९॥
दद्यादाधारपात्राणि शिवलोके स गच्छति ।
वंशतालादिसंभूतं पुष्पाधारकरण्डकम् ॥६०॥
इत्येवमाद्यान्यो दद्याच्छिवलोकमवाप्नुयात् ।
यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत् ॥६१॥
वर्षकोटिं महाभागैः शिवलोके महीयते ।
यः सर्वधातुसंयुक्तं दद्याल्लवणपर्वतम् ॥६२॥
शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥६३॥
स गोत्रभृत्यसंयुक्तो वसेच्छिवपुरे नरः ।
विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः ॥६४॥
भोगान्भुक्त्वा तु विपुलांस्तदन्ते स महीपतिः ।
मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम् ॥६५॥
गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम् ।
यश्च तं पर्वतवरं शालितण्डुलकल्पितम् ॥६६॥
शिवायगुरवे वापि तस्य पुण्यफलं शृणु ।
कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥६७॥
यः सर्वधान्यशिखरैरुपेतं यवपर्वतम् ।
घृततैलनदीयुक्तं तस्य पुण्यफलं शृणु ॥६८॥
कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ।
समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः ॥६९॥
तिलधेनुं प्रदद्याद्यः कृत्वा कृष्णाजिने नरः ।
कपिलायाः प्रदानस्य यत्फलं तदवाप्नुयात् ॥७०॥
घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान् ।
निवेद्य गोप्रदानस्य समग्रं फलमाप्नुयात् ॥७१॥
द्वीपिचर्मणि यः स्थाप्य प्रदद्याल्लवणाढकम् ।
अशेषरसदानस्य यत्पुण्यं तदवाप्नुयात् ॥७२॥
मरिचाढेन कुर्वीत मारीचं नाम पर्वतम् ।
दद्याद्यज्जीरकं पूर्वमाग्नेयं हिङ्गुमुत्तमम् ॥७३॥
दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम् ।
पिप्पलीं पश्चिमे दद्याद्वायव्ये कृष्णजीरकम् ॥७४॥
कौबेर्यामजमोदं च त्वगेलाश्चेशदैवते ।
कुस्तुम्बर्याः प्रदेयाः स्युर्बहिः प्राकारतः स्थिताः ॥७५॥
ककुभामन्तरालेषु समन्तात्सैन्धवं न्यसेत् ।
सपुष्पाक्षततोयेन शिवाय विनिवेदयेत् ॥७६॥
यावत्तद्दीपसंख्यानं सर्वमेकत्र पर्वते ।
तावद्वर्षशतादूर्ध्वं भोगान्भुङ्क्ते शिवे पुरे ॥७७॥
कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् ।
दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् ॥७८॥
पटीसान्युत्तरे स्थाप्य कर्कटीमीशदैवते ।
न्यसेद्गजपटोलांश्च मधुरान्वह्निदैवते ॥७९॥
कारवेल्लांश्च नैरृत्यां वायव्यां निम्बकं फलम् ।
उच्चावचानि चान्यानि फलानि स्थापयेद्बहिः ॥८०॥
अभ्यर्च्य पुष्पधूपैश्च समन्तात्फलपर्वतम् ।
शिवाय गुरवे वापि प्रणिपत्य निवेदयेत् ॥८१॥
यावत्तत्फलसंख्यानं तद्दीपानां च मध्यतः ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥८२॥
मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम् ।
आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम् ॥८३॥
पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् ।
कुहद्रकं च वायव्यामुत्तरे वापि तालिकीम् ॥८४॥
कुसुम्भशाकमैशान्यां सर्वशाकानि तद्बहिः ।
पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत् ॥८५॥
यावत्तन्मूलनालानां पत्त्रसंख्या च कीर्तिता ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥८६॥
दत्त्वा लभेन्महाभोगान्गुग्गुल्वद्रेः पलद्वयम् ।
वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः ॥८७॥
गुडार्द्रकं सलवणमाम्रमञ्जरिसंयुतम् ।
निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् ॥८८॥
हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम् ।
निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते ॥८९॥
वज्रेन्द्रनीलवैडूर्य- पद्मरागं समौक्तिकम् ।
कीटपक्षं सुवर्णं च महारत्नानि सप्त वै ॥९०॥
यश्च सिंहासनं दद्यान्महारत्नान्वितं नृपः ।
क्षुद्ररत्नैश्च विविधैस्तस्य पुण्यफलं शृणु ॥९१॥
कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः ।
समस्तभृत्यसंयुक्तः शिवलोके महीयते ॥९२॥
तत्र भुक्त्वा महाभोगान्शिवतुल्यपराक्रमः ।
आमहाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥९३॥
यदि चेद्राज्यमाकङ्क्षेत्ततः सर्वसमाहितः ।
सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ॥९४॥
जन्मकोटिसहस्राणि जन्मकोटिशतानि च ।
राज्यं कृत्वा ततश्चान्ते पुनः शिवपुरं व्रजेत् ॥९५॥
एतदेव फलं ज्ञेयं मकुटाभरणादिषु ।
रत्नासनप्रदानेन पादुके विनिवेदयेत् ॥९६॥
दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम् ।
शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी ॥९७॥
इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः ।
मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे ॥९८॥
मसूरमात्रमपि यः पद्मरागं सुशोभनम् ।
निवेदयित्वा शर्वाय मोदते कालमक्षयम् ॥९९॥
निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम् ।
भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते ॥१००॥
कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् ।
शिवायाद्यः शिवे लोके मोदते कालमक्षयम् ॥१०१॥
हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम् ।
निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि ॥१०२॥
क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे ।
मोदते स शिवे लोके कल्पकोट्ययुतं नरः ॥१०३॥
यथा यथा महारत्नं शोभनं च यथा यथा ।
तथा तथा महत्पुण्यं ज्ञेयं तच्छिवदानतः ॥१०४॥
भूमिभागे सविस्तीर्णे जम्बूद्वीपं प्रकल्पयेत् ।
अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम् ॥१०५॥
तन्मध्ये कारयेद्दिव्यं मेरुप्रासादमुत्तमम् ।
अनेकशिखराकीर्णमशेषामरसंयुतम् ॥१०६॥
बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम् ।
चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम् ॥१०७॥
चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः ।
चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम् ॥१०८॥
मेरुप्रासादमित्येवं हेमरत्नविभूषितम् ।
यः कारयेद्वनोपेतं सो ऽनन्तफलमाप्नुयात् ॥१०९॥
भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते ।
शिवायतनपुण्यस्य तथा संख्या न विद्यते ॥११०॥
कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः ।
कलत्रपुत्रमित्रैश्च सर्वस्वजनसंयुतः ॥१११॥
आश्र्तितोपाश्रितैः सर्वैरशेषगणसंयुतः ।
यथा शिवस्तथैवायं शर्वलोके स पूज्यते ॥११२॥
न च मानुष्यकं लोकमागच्छेत्कृपणं पुनः ।
सर्वज्ञः परिपूर्णश्च मुक्तः स्वात्मनि तिष्ठति ॥११३॥
यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम् ।
तद्दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा ॥११४॥
शोभयेद्भूतनाथं वा चन्द्रशालां क्वचित्क्वचित् ।
वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः ॥११५॥
शातकुम्भमयीं वापि सर्वलक्षणसंयुताम् ।
ईश्वरप्रतिमां सौम्यां कारयेत्पुरुषोच्छ्रिताम् ॥११६॥
त्रिशूलसव्यहस्तां च वरदाभयदायिकां ।
सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम् ॥११७॥
पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम् ।
विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम् ॥११८॥
सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम् ।
अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम् ॥११९॥
कुर्यादसंभवे हेम्नस्तारेण विमलेन च ।
आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम् ॥१२०॥
अशेषकैः सरूपैश्च वर्णकैर्वा पटे लिखेत् ।
कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः ॥१२१॥
एकां सपरिवारां वा पार्वतीं गणसंयुताम् ।
प्रतीहारसमोपेतां कुर्यादेवाविकल्पतः ॥१२२॥
पीठं वा कारयेद्रौप्यं ताम्रं पित्तलसंभवम् ।
चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम् ॥१२३॥
पृथक्पृथगनेकानि कारयित्वा मुखानि तु ।
सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः ॥१२४॥
नानाभरणयुक्तानि हेमरौप्यकृतानि च ।
शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत् ॥१२५॥
उक्तानि यानि पुण्यानि संक्षेपेण पृथक्पृथक् ।
कृत्वैकेन ममैतेषामक्षयं फलमाप्नुयात् ॥१२६॥
मातुः पितुः सहोपायैर् दशभिर्दशभिः कुलैः ।
कलत्रपुत्रमित्राद्यैर्भृत्यैर्युक्तः स बान्धवैः ॥१२७॥
अयुतेन विमानानां सर्वकामयुतेन च ।
भुङ्क्ते स्वयं महाभोगानन्ते मुक्तिमवाप्नुयात् ॥१२८॥
मण्डपस्तम्भपर्यन्ते कीलयेद्दर्पणान्वितम् ।
अभिषिच्य जना यस्मिन्पुजां कुवन्ति बिल्वकैः ॥१२९॥
कालकालकृतिं कृत्वा कीलयेद्यः शिवाश्रमे ।
सर्वलोकोपकाराय पूजयेच्च दिने दिने ॥१३०॥
धूपवेलाप्रमाणार्थं कल्पयेद्यः शिवाश्रमे ।
क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः ॥१३१॥
एषामेकतमं पुण्यं कृत्वा पापविवर्जितः ।
शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् ॥१३२॥
रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः ।
सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम् ॥१३३॥
रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत् ।
यष्टेर्मध्ये स्थितं कार्यं विमानमतिशोभितम् ॥१३४॥
पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम् ।
कर्मणा सुनिबद्धं च रज्जुभिश्च सुसंयुतम् ॥१३५॥
पञ्चशालाण्डिकैर्युक्तं नानाभक्तिसमन्वितम् ।
चित्रवर्णपरिच्छन्नं पटैर्वा वर्णकान्वितैः ॥१३६॥
लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम् ।
बुद्बुदैरर्धचन्द्रैश्च दर्पणैश्च समुज्ज्वलम् ॥१३७॥
कदल्यर्धध्वजैर्युक्तं महाच्छत्त्रं महाध्वजम् ।
पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम् ॥१३८॥
महारथविमाने ऽस्मिन्स्थापयेद्गणसंयुतम् ।
ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे ॥१३९॥
मुखत्रयं च बध्नीयाद्बहिः कुर्यात्तथाश्रितम् ।
पुरे पुरे बहिर्दिक्षु गृहकेषु समाश्रितम् ॥१४०॥
चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत् ।
दिनत्रयं प्रकुर्वीत स्नानमर्चनभोजनम् ॥१४१॥
नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः ।
महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि ॥१४२॥
भ्रामयेद्राजमार्गेण चतुर्थे ऽहनि तद्रथम् ।
ततः स्वस्थानमानीय तच्छेषमपि वर्धयेत् ॥१४३॥
अवधार्य जगद्धात्री प्रतिमामवतारयेत् ।
महाविमानयात्रैषा कर्तव्या पट्टके ऽपि वा ॥१४४॥
वंशैर्नवैः सुपक्वैश्च कटं कुर्याद्भरक्षमम् ।
वृत्तं द्विगुणदीर्घं च चतुरश्रमधः समम् ॥१४५॥
सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम् ।
मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम् ॥१४६॥
कटे ऽस्मिंस्तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः ।
उपर्युपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत् ॥१४७॥
वर्णकैः कुङ्कुमाद्यैश्च चित्रपुष्पैश्च पूजयेत् ।
नानाभरणपूजाभिर्मुक्ताहारप्रलम्बिभिः ॥१४८॥
रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम् ।
अधरोत्तरभागेन मध्ये छिद्रसमन्वितम् ॥१४९॥
कटियष्टेरधोभागं स्थाप्य छिद्रमयं शुभैः ।
आबद्ध्य कीलयेद्यत्नाद्यष्ट्यर्धं च ध्वजाष्टकम् ॥१५०॥
कटस्य पृष्टं सर्वत्र कारयेत्पटसंवृतम् ।
तत्पटे च लिखेत्सोमं सगणं सवृषं शिवम् ॥१५१॥
विचित्रपुष्पस्रग्दाम्ना समन्ताद्भूषयेत्कटम् ।
रवकैः किङ्किणीजालैर्घण्टाचामरभूषितैः ॥१५२॥
महापूजाविशेषैश्च कौतूहलसमन्वितम् ।
वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत् ॥१५३॥
तद्रथं भ्रामयेद्यत्नाद्राजमार्गेण सर्वतः ।
ततः स्वाश्रममानीय स्थापयेत्तत्समीपतः ॥१५४॥
महाशब्दं ततः कुर्यात्तालत्रयसमन्वितम् ।
ततस्तुष्णीं स्थिते लोके तच्छान्तिमिह धारयेत् ॥१५५॥
शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च ।
शिवमस्तु नृपाणां च तद्भक्तानां जनस्य च ॥१५६॥
राजा विजयमाप्नोति पुत्रपौत्रैश्च वर्धताम् ।
धर्मनिष्ठश्च भवतु प्रजानां च हिते रतः ॥१५७॥
कालवर्षी तु पर्जन्यः सस्यसम्पत्तिरुत्तमा ।
सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम् ॥१५८॥
दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः ।
बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः ॥१५९॥
एवं शिवमहाशान्तिमुच्चार्य जगतः क्रमात् ।
अभिवर्ध्य ततः शेषमैश्वरीं सार्वकामिकीम् ॥१६०॥
शिवमालां समादाय सदासीपरिचारिकः ।
फलैर्भक्षैश्च संयुक्तां गृह्य पात्रीं निवेशयेत् ॥१६१॥
पात्रीं च धारयेन्मूर्ध्ना सोष्णीषां देवपुत्रकः ।
अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः ॥१६२॥
ततश्च तां समुत्क्षिप्य पाणिना धारयेद्बुधः ।
प्रब्रूयादपरश्चात्र शिवधर्मस्य भाजकः ॥१६३॥
तोयं यथा घटीसंस्थमजस्रं क्षरते तथा ।
क्षरते सर्वलोकानां तद्वदायुरहर्निशम् ॥१६४॥
यदा सर्वं परित्यज्य गन्तव्यमवशैर्ध्रुवम् ।
तदा न दीयते कस्मात्पाथेयार्थमिदं धनम् ॥१६५॥
कलत्रपुत्रमित्राणि पिता माता च बान्धवाः ।
तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च ॥१६६॥
नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा ।
यतः सर्वैः परित्यक्तं नरं धर्मो ऽनुगच्छति ॥१६७॥
तस्माद्धर्मं समुद्दिश्य यः शेषामभिवर्धयेत् ।
समस्तपापनिर्मुक्तः शिवलोकं स गच्छति ॥१६८॥
उपर्युपरि वित्तेन यः शेषामभिवर्धयेत् ।
तस्येयमुत्तमा देया यतश्चान्या न वर्धते ॥१६९॥
इत्येवं मध्यमां शेषां वर्धयेद्वा कनीयसीम् ।
ततस्तेषां प्रदातव्या सर्वशोकस्य शान्तये ॥१७०॥
येनोत्तमा गृहीता स्याच्शिवशेषा महीयसी ।
प्रापणीया गृहं तस्य तथैव शिरसा वृता ॥१७१॥
ध्वजच्छत्त्रविमानाद्यैर्महावादित्रनिःस्वनैः ।
गृहद्वारं ततः प्राप्तमर्चयित्वा निवेशयेत् ॥१७२॥
दद्याद्गोत्रकलत्राणां भृत्यानां स्वजनस्य च ।
तर्पयेच्चानतान्(?) भक्त्या वादित्रध्वजवाहकान् ॥१७३॥
एवमादीयते भक्त्या यः शिवस्योत्तमा गृहे ।
शोभया राजमार्गेण तस्य धर्मफलं शृणु ॥१७४॥
समस्तपापनिर्मुक्तः समस्तकुलसंयुतः ।
शिवलोकमवाप्नोति सभृत्यपरिचारकः ॥१७५॥
तत्र दिव्यैर्महाभोगैर्विमानैः सार्वकामिकैः ।
कल्पानां क्रीडते कोटिमन्ते निर्वाणमाप्नुयात् ॥१७६॥
रथस्य यात्रां यः कुर्यादित्येवमुपशोभया ।
भक्षभोज्यप्रदानैश्च तत्फलं शृनु यत्नतः ॥१७७॥
अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः ।
कुलत्रिंशकमुद्धृत्य सुहृद्भिः स्वजनैः सह ॥१७८॥
सर्वकामयुतैर्दिव्यैः स्वच्छन्दगमनालयैः ।
महाविमानैः श्रीमद्भिर्दिव्यस्त्रीपरिवारितः ॥१७९॥
इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे ।
ज्ञानयोगं ततः प्राप्य संसारादवमुच्यते ॥१८०॥
शिवस्य रथयात्रायामुपवासपरः क्षमी ।
पुरतः पृष्ठतो वापि गच्छंस्तस्य फलं शृणु ॥१८१॥
अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः ।
महारथोपमैर्यानैः कल्पाशीतिं प्रमोदते ॥१८२॥
ध्वजच्छत्त्रपताकाभिर्दीपदर्पणचामरैः ।
धूपैर्वितानकलशैरुपशोभा सहस्रशः ॥१८३॥
गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया ।
सम्पर्कात्कौतुकाल्लाभाच्छिवलोके व्रजन्ते ते ॥१८४॥
शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः ।
प्रसङ्गात्कौतुकाद्वापि ते ऽपि यान्ति शिवं पुरम् ॥१८५॥
नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च ।
कुर्वीत रथयात्रायां रमते च विभूषिता ॥१८६॥
ते भोगैर्विविधैर्दिव्यैः शिवासन्ना गणेश्वराः ।
क्रीडन्ति रुद्रभवने कल्पानां विंशतीर्नराः ॥१८७॥
महता ज्ञानसङ्घेन तस्माच्छिवरथेन च ।
पृथक्जीवा मृता यान्ति शिवलोकं न संशयः ॥१८८॥
श्रीपर्वते महाकाले वाराणस्यां महालये ।
जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे ॥१८९॥
गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे ।
भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा ॥१९०॥
एवमादिषु चान्येषु शिवक्षेत्रेषु ये मृताः ।
जीवाश्चराचराः सर्वे शिवलोकं व्रजन्ति ते ॥१९१॥
प्रयागं कामिकं तीर्थमविमुक्तं तु नैष्ठिकम् ।
श्रीपर्वतं च विज्ञेयमिहामुत्र च सिद्धिदम् ॥१९२॥
प्रसङ्गेनापि यः पश्येदन्यत्र प्रस्थितः क्वचित् ।
श्रीपर्वतं महापुण्यं सो ऽपि याति शिवं पुरम् ॥१९३॥
व्रजेद्यः शिवतीर्थानि सर्वपापैः प्रमुच्यते ।
पापयुक्तः शिवज्ञानं प्राप्य निर्वाणमाप्नुयात् ॥१९४॥
तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः ।
कल्पयित्वानुसारेण कालस्य विषुवस्य च ॥१९५॥
तीर्थयात्रागतं शान्तं हाहाभूतमचेतनम् ।
क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम् ॥१९६॥
संतर्पयित्वा यत्नेन म्लानलक्ष्मीमिवाम्बुभिः ।
पाद्यासनप्रदानेन कस्तेन पुरुषः समः ॥१९७॥
अश्नन्ति यावत्तत्पिण्डं तीर्थनिर्धूतकल्मषाः ।
तावद्वर्षसहस्राणि तद्दातास्ते शिवे पुरे ॥१९८॥
दद्याद्यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम् ।
मोदते स शिवे लोके युगकोटिशतं नरः ॥१९९॥
आर्ताय शिवभक्ताय दद्याद्यः सुपयस्विनीम् ।
अजामेकां सुपुष्टाङ्गीं तस्य पुण्यफलं शृणु ॥२००॥
यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥२०१॥
मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः ।
रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ॥२०२॥
गजाश्वरथसंयुक्तैर्विमानैः सार्वकामिकैः ।
सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे ॥२०३॥
निवेद्याश्वतरं पुष्टमदुष्टं गुरवे नरः ।
संगतिं सोपकरणं भोगान्भुङ्क्ते शिवे पुरे ॥२०४॥
दिव्याश्वयुक्तैः श्रीमद्भिर्विमानैः सार्वकामिकैः ।
कोटिं कोटिं च कल्पानां तदन्ते स्यान्महीपतिः ॥२०५॥
अपि योजनमात्राय शिबिकां परिकल्पयेत् ।
गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं शृणु ॥२०६॥
विमानानां सहस्रेण सर्वकामयुतेन च ।
कल्पकोट्ययुतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥२०७॥
छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् ।
बालक्रीडनकानेतानित्याद्यानपरानपि ॥२०८॥
निवेदयित्वा स्कन्दाय तत्सायुज्यमवाप्नुयात् ।
भुक्त्वा तु विपुलान्भोगांस्तदन्ते स्याद्द्विजोत्तमः ॥२०९॥
मुसलोलूखलाद्यानि गृहोपकरणानि च ।
दद्याच्छिवगृहस्थेभ्यस्तस्य पूण्यफलं शृणु ॥२१०॥
प्रत्येकं कल्पमेकैकं गृहोपकरणैर्नरः ।
अन्ते दिवि वसेद्भोगैस्तदन्ते च गृही भवेत् ॥२११॥
खर्जूरतालपत्त्रैर्वा चर्मणा वा सुकल्पितम् ।
दत्त्वा कोट्यासनं वृत्तं शिवलोकमवाप्नुयात् ॥२१२॥
प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम् ।
कृत्वा प्रतापनायाग्निं शिवलोके महीयते ॥२१३॥
सूर्यायुतप्रभादीप्तैर्विमानैः सार्वकामिकैः ।
कल्पकोटिशतं भोगान्भुक्त्वा स तु महीपतिः ॥२१४॥
यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम् ।
भोजयीत यथाशक्त्या शिवलोके महीयते ॥२१५॥
यश्छत्त्रं धारयेद्ग्रीष्मे गच्छते शिवयोगिने ।
स मृतः पृथिवीं कृत्स्नामेकच्छत्त्रामवाप्नुयात् ॥२१६॥
यः समुद्धरते मार्गे मात्रोपकरणासनम् ।
शिवयोगप्रवृत्तस्य तस्य पुण्यफलं शृणु ॥२१७॥
कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ्छिवे पुरे ।
तदन्ते प्राप्नुयाद्राज्यं सर्वैश्वर्यसमन्वितम् ॥२१८॥
अभ्यङ्गोद्वर्तनं स्नानमार्तस्य शिवयोगिनः ।
कृत्वाप्नोति महाभोगान्कल्पाञ्छिवपुरे नरः ॥२१९॥
अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम् ।
दशधेनुप्रदानस्य फलमाप्नोति मानवः ॥२२०॥
पञ्चगव्यसमं ज्ञेयमुच्छिष्टं शिवयोगिनाम् ।
तद्भुक्त्वा लभते शुद्धिं महतः पातकादपि ॥२२१॥
नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम् ।
राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धर्मतत्परम् ॥२२२॥
यश्च यां शिवयज्ञाय गृहस्थः परिकल्पयेत् ।
शिवभक्तो ऽस्य महतः परमं फलमाप्नुयात् ॥२२३॥
शिवोमां च प्रयत्नेन भक्त्याब्दं यो ऽनुपालयेत् ।
गवां लक्षप्रदानस्य सम्पूर्णं फलमाप्नुयात् ॥२२४॥
प्रातः प्रदद्यात्सघृतं सुकृतं बालपिण्डकम् ।
दूर्वां च बालवत्सानां तस्य पुण्यफलं शृणु ॥२२५॥
यावत्तद्बालवत्सानां पानाहारं प्रकल्पयेत् ।
तावदष्टायुतान्पूर्वैर्भोगान्भुङ्क्ते शिवे पुरे ॥२२६॥
विधवानाथवृद्धानां प्रदद्याद्यः प्रजीवनम् ।
आभूतस्सम्प्लवं यावच्छिवलोके महीयते ॥२२७॥
दद्याद्यः सर्वजन्तूनामाहारमनुयत्नतः ।
त्रिः पृथ्वीं रत्नसम्पूर्णां यद्दत्त्वा तत्फलं लभेत् ॥२२८॥
विनयव्रतदानानि यानि सिद्धानि लोकतः ।
तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत् ॥२२९॥
निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च ।
प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ॥२३०॥
पुनर्यः कर्तरीं दद्यात्केशक्लेशापनुत्तये ।
सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत् ॥२३१॥
नासिकाशोधनं दद्यात्संदंशं शिवयोगिने ।
वर्षकोटिं महाभोगैः शिवलोके महीयते ॥२३२॥
नखच्छेदनकं दत्त्वा शिवलोके महीयते ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥२३३॥
दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने ।
भोगाञ्छिवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयात् ॥२३४॥
कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने ।
वर्षकोटिं महाभोगैः शिवलोके महीयते ॥२३५॥
दद्याद्यः शिवभक्ताय सूचीं कौपीनशोधनीम् ।
वर्षलक्षं स लक्षार्धं शिवलोके महीयते ॥२३६॥
निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम् ।
वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे ॥२३७॥
दद्याद्यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम् ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥२३८॥
दद्याद्यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम् ।
पञ्चलक्षं महाभोगैर्मोदते स शिवे पुरे ॥२३९॥
शमीन्धनतृणादीनां दद्यात्तच्छेदनं च यः ।
क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम् ॥२४०॥
शिवाश्रमोपभोगाय लोहोपकरणं महत् ।
यः प्रदद्याग्कुठाराद्यं तस्य पुण्यफलं शृणु ॥२४१॥
यावत्तत्फलसंख्यानं लोहोपकरणे भवेत् ।
तावन्ति वर्षलक्षाणि शिवलोके महीयते ॥२४२॥
शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति ।
धनुःखड्गायुधादीनि तस्य पुण्यफलं शृणु ॥२४३॥
एकैकस्मिन्परिज्ञेयमायुधे चापि वै फलम् ।
वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ॥२४४॥
यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत् ।
शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥२४५॥
यावदन्योऽन्यसंबन्धास्तस्यांशाः परिकीर्तिताः ।
वर्षलक्षं स तावच्च शिवलोके प्रमोदते ॥२४६॥
नष्टापहृतमन्विष्य पुनर्वित्तं निवेदयेत् ।
शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥२४७ ॥
यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् ।
नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥२४८॥
देवद्रव्यं हृतं नष्टमन्वेष्यमपि यत्नतः ।
न प्राप्नोति तदा तस्य प्राप्नुयाद्द्विगुणं फलम् ॥२४९॥
ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत् ।
शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥२५०॥
यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् ।
नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥२५१॥
स्नानसत्त्रोपभोगाय तस्य पुण्यफलं शृणु ।
यावत्तत्फलसंख्यानं ताम्रोपकरणे स्थितम् ॥२५२॥
पले पले वर्षकोटिं मोदते स शिवे पुरे ।
यः पत्त्रपुष्पवस्तूनां दद्यादाधारभाजनम् ॥२५३॥
तद्वस्तुदातुर्यत्पुण्यं तत्पुण्यं सकलं भवेत् ।
दत्त्वोपकरणं किंचिदपि यो वित्तमर्थिनाम् ॥२५४॥
यद्वस्तु कुरुते तेन तत्प्रदानफलं लभेत् ।
यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम् ॥२५५॥
स पापमलनिर्मुक्तः शिवलोकमवाप्नुयात् ।
यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम् ॥२५६॥
प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु ।
तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते ॥२५७॥
तावद्वर्षसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।
श्लक्ष्णवस्त्राणि शुक्लानि दद्याद्यः शिवयोगिने ॥२५८॥
चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं शृणु ।
यावत्तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते ॥२५९॥
तावद्युगानि संभोगैः शिवलोके महीयते ।
शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम् ॥२६०॥
प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु ।
दिव्यं विमानमारूढः सर्वकामसमन्वितम् ॥२६१॥
कल्पकोट्ययुतं साग्रं शिवलोके महीयते ।
शुक्त्यादीनि च पात्राणि शोभनान्यमलानि च ॥२६२॥
निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत् ।
स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम् ॥२६३॥
शैलजानां तदर्धेन पात्राणां च तदर्धकम् ।
तालखर्जूरपात्राणां वंशजानां निवेदने ॥२६४॥
अन्येषामेवमादीनां पुण्यं वार्क्ष्यार्धसंमितम् ।
वंशजार्धसमं पुण्यं फलपात्रनिवेदने ॥२६५॥
नानापर्णपुटाणां च साराणां वा फलार्धकम् ।
यस्ताम्रकांस्यपात्राणि शोव्हनान्यमलानि च ॥२६६॥
स्नानभोजनपानार्थं दद्याद्यः शिवयोगिने ।
ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात्त्रिपादिकाम् ॥२६७॥
भोजने भोजनाधारं गुरवे तत्फलं शृणु ।
यावत्तत्पलसंख्यानं त्रिपाद्या भोजनेषु च ॥२६८॥
तावद्युगसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।
लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने ॥२६९॥
दशकल्पान्महाभोगैर्नरः शिवपुरे वसेत् ।
यः प्रदद्यात्त्रिविष्टम्भं भिक्षापात्रसमाश्रयम् ॥२७०॥
वंशजं दारुजं वापि तस्य पुण्यफलं शृणु ।
दिव्यस्त्रीभोगसम्पन्नो विमाने महति स्थितः ॥२७१॥
चतुर्युगसहस्रं तु भोगान्भुङ्क्ते शिवे पुरे ।
भिक्षापात्रमुखाच्छादम्वस्त्रपर्णादिकल्पितम् ॥२७२॥
दत्त्वा शिवपुरे भोगान्कल्पमेकं वसेन्नरः ।
संश्रयं यः प्रदद्याच्च भिक्षापात्रे कमण्डलौ ॥२७३॥
कल्पितं वस्त्रसूत्राद्यैस्तस्य पुण्यफलं शृणु ।
तद्वस्त्रपूततन्तूनां संख्या यावद्विधीयते ॥२७४॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
सूत्रवल्कलवालैर्वा शिक्यभाण्डसमाश्रयम् ॥२७५॥
यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुमेव वा ।
एवमादीनि चान्यानि वस्तूनि विनिवेदयेत् ॥२७६॥
शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं शृणु ।
यावत्तद्रज्जुसंख्यानं प्रदद्याच्छिवगोकुले ॥२७७॥
तावच्चतुर्युगं देही शिवलोके महीयते ।
यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा ॥२७८ ॥
तथा तथा महापुण्यं तद्दानादुत्तरोत्तरम् ।
यः पन्थानं दिशेत्पृष्टं प्रणष्टं च गवादिकं ॥२७९॥
स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति ।
कृत्वोपकारमार्तानां स्वर्गं याति न संशयः ॥२८०॥
अपि कण्टकमुद्धृत्य किमुतान्यं महागुणम्(?) ।
अन्नपानौषधीनां च यः प्रदातारमुद्दिशेत् ॥२८१॥
आर्तानां तस्य विज्ञेयं दातुस्तत्सदृशं फलम् ।
शिवाय तस्य संरुद्धं कर्म तिष्ठति यद्विना ॥२८२॥
तदल्पमपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत् ।
अपि काशकुशं सूत्रं गोमयं समिदिन्धनम् ॥२८३॥
शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः ।
सर्वेषां शिवभक्तानां दद्याद्यत्किंचिदादरात् ।
दत्त्वा यज्ञफलं विद्यात्किमु तद्वस्तुदानतः ॥२८४॥
॥ इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ॥
N/A
References : N/A
Last Updated : March 07, 2021
TOP