पूर्वखण्डम् - तृतीयोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


करस्याङ्गुष्ठमूले या धमनी जीवसाक्षिणी
तच्चेष्टया सुखं दुःखं ज्ञेयं कायस्य पण्डितैः ॥१॥

प्रकुपितवातजनाडीलक्षणम्
नाडी धत्ते मरुत्कोपे जलौकासर्पयोर्गतिम् ॥२॥

प्रकुपितपित्तजनाडीलक्षणम्
कुलिङ्गकाकमण्डूकगतिं पित्तस्य कोपतः ॥३॥

प्रकुपितकफजनाडीलक्षणम्
हंसपारावतगतिं धत्ते श्लेष्मप्रकोपतः ॥४॥

सन्निपातजनाडीलक्षणम्
लावतित्तिरवर्त्तीनां गमनं सन्निपाततः ॥५॥

द्विदोषजनाडीलक्षणम्
कदाचिन्मन्दगमना कदाचिद्वेगवाहिनी द्विदोषकोपतो ज्ञेया ॥६॥

असाध्यनाडीलक्षणम्
हन्ति च स्थानविच्युता
स्थित्वा स्थित्वा चलति या सा स्मृता प्राणनाशिनी
अतिक्षीणा च शीता च जीवितं हन्त्यसंशयम् ॥७॥

ज्वरे नाडीलक्षणम्
ज्वरकोपे तु धमनी सोष्णा वेगवती भवेत् ॥८॥

कामक्रोधचिन्ताभययुक्तानां नाडीलक्षणानि
कामक्रोधोद्वेगवहा क्षीणा चिन्ताभयप्लुता ॥९॥

मन्दाग्नि धातुक्षयरक्तप्रकोपसामावस्थासु नाडीलक्षणानि
मन्दाग्नेः क्षीणधातोश्च नाडी मन्दतरा भवेत्
असृक्पूर्णा भवेत्कोष्णा गुर्वी सामा गरीयसी ॥१०॥

दीप्ताग्नि सुखितक्षुधित तृप्तपुरुषाणां नाडीलक्षणानि
लघ्वी वहति दीप्ताग्नेस्तथा वेगवती मता
सुखितस्य स्थिरा ज्ञेया तथा बलवती स्मृता
चपला क्षुधितस्य स्यात्तृप्तस्य वहति स्थिरा ॥११॥

दूतपरीक्षा
दूताः स्वजातयोऽव्यङ्गाः पटवो निर्मलाम्बराः
सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः
सुजातयः सुचेष्टाश्च सजीवदिशि संश्रिताः
भिषजं समये प्राप्ता रोगिणः सुखहेतवे ॥१२॥

यिस्यां प्राणमरुद्वाति सा नाडी जीवसंयुता
दूतस्य शकुनानि
वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते
न शुभं सौम्यशकुनं प्रदीप्तं च सुखावहम् ॥१३॥

वैद्यस्य शकुनानि
चिकित्सां रोगिणः कर्तुं गच्छतो भिषजः शुभम्
यात्रेयं सौम्यशकुनं प्रोक्तं दीप्तं न शोभनम् ॥१४॥

चिकित्स्यलक्षणम्
निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन संयुतः
चिकित्स्यो भिषजा रोगी वैद्यभक्तो जितेन्द्रि यः ॥१५॥

अथ शुभाशुभस्वप्नपरीक्षा
तत्र दुःस्वप्नलक्षणानि
स्वप्नेषु नग्नान्मुण्डांश्च रक्तकृष्णाम्बरावृतान्
व्यङ्गांश्च विकृतान्कृष्णान्सपाशान्सायुधानपि
बध्नतो निघ्नतश्चापि दक्षिणां दिशमाश्रितान्
महिषोष्ट्रखरारूढान्स्त्रीपुंसो यस्तु पश्यति
स स्वस्थो लभते व्याधिं रोगी यात्येव पञ्चताम् ॥१६॥

अन्यान्यपि दुःस्वप्नलक्षणानि
अधो यो निपतत्युच्चाज्जलेऽग्नौ वा विलीयते
श्वापदैर्हन्यते योऽपि मत्स्याद्यैर्गिलितो भवेत् ॥१७॥

यस्य नेत्रे विलीयेते दीपो निर्वाणतां व्रजेत्
तैलं सुरां पिबेद्वाऽपि लोहं वा लभते तिलान् ॥१८॥

पक्वान्नं लभतेऽश्नाति विशेत्कूपं रसातलम्
स स्वस्थो लभते रोगं रोगी यात्येव पञ्चताम् ॥१९॥

दुःस्वप्नदर्शने करणीयविधिः
दुःस्वप्नानेवमादींश्च दृष्ट्वा ब्रूयान्न कस्यचित्
स्नानं कुर्यादुषस्येव दद्याद्धेमतिलानयः ॥२०॥

पठेत्स्तोत्राणि देवानां रात्रौ देवालये वसेत्
कृत्वैवंत्रिदिनं मर्त्यो दुःस्वप्नात्परिमुच्यते ॥२१॥

शुभस्वप्नलक्षणानि
स्वप्नेषु यः सुरान्भूपाञ्जीवतः सुहृदो द्विजान्
गोसमिद्धाग्नितीर्थानि पश्येत्सुखमवाप्नुयात् ॥२२॥

अन्यच्च
तीर्त्वा कलुषनीराणि जित्वा शत्रुगणानपि
आरुह्य सौधगोशैलकरिवाहान्सुखी भवेत् ॥२३॥

अन्यच्च
शुभ्रपुष्पाणि वासांसि मांसमत्स्यफलानि च
प्राप्यातुरः सुखी भूयात्स्वस्थो धनमवाप्नुयात् ॥२४॥

अन्यच्च
अगम्यागमनं लेपो विष्ठया रुदितं मृतिः
आममांसाशनं स्वप्ने धनारोग्याप्तये विदुः ॥२५॥

अन्यच्च
जलौका भ्रमरी सर्पो मक्षिका वाऽपि यं दशेत्
रोगी स भूयादुल्लाघः स्वस्थो धनमवाप्नुयात् ॥२६॥

इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे नाडीपरीक्षादिविधिर्नामतृतीयोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP