शार्ङ्गधरसंहिता - प्रथमं परिशिष्टम्

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


अथ यकृद्रोगाधिकारः १

यकृत्स्थानम्
अधो दक्षिणतो ज्ञेया हृदयाद् यकृतः स्थितिः
तत्रत्यरोगाणां दुःखप्राचुर्यम्
व्याधयो बहवस्तत्र भवेयुर्भूरि दुःखदाः
तन्म्लाने रोगी लक्षणम्
म्लाने तस्मिन् पुरीषस्याप्रवृत्तिः स्वल्पपित्तता
पाण्डुत्वं कर्दमाभत्वञ्चोदन्याविलमूत्रता
उद्गारसदनाध्मानच्छर्दनोत्क्लेशनान्यपि
प्रातस्तिक्तास्यता नाड्याः काठिन्यं वह्निमन्दता
देहस्य च मृदाभत्वं रसना मलसंयुता
लिङ्गान्येतानि जायन्ते तत्राप्याकृष्टिवद् व्यथा
यकृद्वृद्धौ रोगिलक्षणम्
गते यकृति संवृद्धिं वेदना तत्र जायते
उरोऽस्थ्नि दक्षिणे स्कन्धे सक्थ्नि चाप्यपसव्यगे
दक्षिणस्य भवेज्जाड्यं बाहोस्तिक्तरसास्यता
विवर्णत्वं पुरीषस्य कासो लोहितमूत्रता
अरतिर्बलहानिश्च ज्वरो बद्धाल्पविट्कता
पीताक्षत्वं च पार्श्वेन शेते सव्येन चातुरः
तोदभेदौ तथा दाहः कामलाऽप्यस्य जायते
निद्रा नाशस्तृषाशोथस्तथा सत्त्वस्य संक्षयः
यकृद्विद्र धेर्दुःसाध्यता
विद्र धिर्यकृति स्याच्च प्रायेण प्राणनाशनः
तेन भाग्यबलात् कोऽपि जन्तुष्वेकः प्रमुच्यते
यकृद्रो गनिदानम्
मद्यातिपानादत्युष्णगुर्वन्नस्य निषेवणात्
वेगरोधाद्दिवास्वप्नान्निशि चापि प्रजागरात्
अतिव्यवायभाराध्वसेवनादभिघाततः
तथाऽन्यै कर्मभिर्घोरैर्यकृद्रो गा भवन्ति हि
चिकित्सा
प्लीहोद्दिष्टाः क्रियाः सर्वा यकृद्रो गे समाचरेत्
प्रातर्मूत्रेण संस्वेदः प्लीहवत् तत्र चेष्यते
क्षारं विडङ्गकृष्णाभ्यां पूतिकस्याम्बुनिःसृतम्
पिबेत् प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये
जलौकाभिर्ह रेद्र क्तं क्षारं वा तत्र पातयेत्
शिग्रुत्वग्राजिकाचूर्णैर्लेपस्तत्र च युज्यते
तोयेन प्रस्थमानेन महाद्रा वककर्षकम्
मेलयित्वाऽथ तत्स्थानमूर्वङ्घ्र्याद्यञ्च मर्दयेत्
पीतमूल्यभयाधात्रीद्रा क्षारग्वधसिन्धुजैः
रेचयेद्र सचूर्णेन तैलेनैरण्डजेन वा
यकृद्विद्र धिचिकित्सा
विद्र धिं यकृति ज्ञात्वा हिक्काश्वासव्यथादिभिः
शस्त्रं त्रिकूर्चकं तत्र प्रयुञ्ज्याच्छस्त्रकोविदः
पाययित्वा सुरां पूर्वं बलसत्त्वोपयोगिनीम्
अग्रोपहरणीयोक्तं समाहृत्य जलादिकम्
सत्येनाप्यनृतेनापि वचसाश्वास्य चातुरम्
ईश्वरं मनसा ध्यात्वा सर्वापद्विनिवारणम्
क्षिप्रहस्तो बली धीरः स्थिरचित्तो विचक्षणः
बहुशो दृष्टकर्मा च कृतकर्माऽभयो भिषक्
शस्त्रं शस्त्रगुणोपेतं परिगृह्य त्रिकूर्चकम्
सवेदनं शोथयुतं भित्त्वा चर्म सलोहितम्
अन्तः प्रवेशयेदाशु विद्र धिर्भिद्यते यथा
बहिर्नयेत्ततः शस्त्रं तस्य नाडिकया विना
अवधानेन तत्कार्य्यं नानिलोऽन्तर्यथा विशेत्
ततो जलाभिषेकाद्यैः शस्त्रपातव्यथाकुलम्
समाश्वास्यापसव्येन पार्श्वेन शाययेत्तु तत्
सक्षीरमतसीकल्कं साज्यं तत्र च लेपयेत्
अहिफेनासवं सम्यङ्मात्रया परियोजयेत्
क्षीरं मांसरसञ्चैव पाययेद्बलसाधनम्
ततो मासद्वयं यावदातुरः प्राप्तजीवितः
सुखं तिष्ठेत् त्यजेच्छ्रान्तिं भुञ्जीत लघु पोषणम्
विद्र धिं महतीं प्राज्ञः शस्त्रमुत्पलपत्रकम्
युञ्ज्यान्नोपक्रमेज्जन्तुं सञ्जातानेकविद्र धिम्
========
अथ हृद्रो गाधिकारः २

आवरणिकादि हृद्रो गाणां लक्षणानि
आवरणिकः
आमवाताद् वृक्कदोषात् शीतार्द्र त्वनिषेवणात्
हृत्कोष्ठावरणी क्षिप्रं पीड्यते अकृतात्मनः
तत्र दाहोष्णताशोफा गौरवं महती व्यथा
कोष्ठसंवेपनं कासो दौर्बल्यं श्वासकृच्छ्रता
नासामार्गेण रक्तस्य स्रुतिर्वह्नेश्च मन्दता
शाखासु शोफा धमनी भवेद्विषमगामिनी
नाम्नावरणिको ह्येष व्याधिर्विद्वद्भिरुच्यते
जातमात्रश्चिकित्स्योऽय नैवोपेक्ष्यः कदाचन
कौष्ठिकः
आमवातादभीघातात्तथावरणिकाद् गदात्
हृत्कोष्ठे जायते शोथो गद एष हि कौष्ठिकः
ज्वरो दाहोऽरुचिः कम्पो वैवर्ण्यं वह्निसंक्षयः
श्वासः कासा राजयक्ष्मा कोष्ठे पूयस्य सञ्चयः
मूर्च्छाक्षेपः प्रलापश्च नाडी विषमवाहिनी
गदाद् घोरतरादस्माद् भाग्यात् कोऽपि प्रमुच्यते
पृथुकः
शोणितस्य गतौ कोष्ठे व्याहतायामनात्मनः
तत्पेशी पृथुतां याति मिथ्याहारविहारतः
हृद्वेपथुर्व्यथा तत्र दौर्बल्यं श्वासकृच्छ्रता
अरतिर्भ्रममोहौ च चिह्नानि पृथुके गदे
आयामिका
हृत्कोष्ठे प्रसृतिर्नाम्ना व्याधिरायामिका मता
श्वासः शोथोः भ्रमो मूर्च्छा हृत्कम्पो वह्निमन्दता
जलोदरमनिद्र त्वं बलमांसपरिक्षयः
एभिरन्यैश्च विज्ञेयश्चिह्नैरायामिका गदः
परिक्षयः
क्षयात् सञ्जायते घोरो व्याधिर्नाम्ना परिक्षयः
कोष्ठपेश्याः क्षयः श्वासो दौर्बल्यं सदनं भ्रमः
हृद्वेपथुर्वह्निमान्द्यं क्रमाच्छोफश्च जायते
एतैरन्यैश्च विज्ञेयश्चिह्नैर्व्याधिः परिक्षयः
मेदः सूत्रम्
हृत्कोष्ठपेशी सूत्रेषु मेदःकणचयो गदः
मेदः सूत्राख्यया प्रोक्तो मुनिभिस्तत्त्ववेदिभिः
मन्दं मन्दं व्रजेन्नाडी भवेद्धृदयवेपथुः
अवसादो भ्रमो मूर्च्छा स्नायूनां बलसंक्षयः
हृद्वृत्तेर्वाऽपि सम्भेदान्मृत्युश्च सहसा भवेत्
जातमात्रश्चिकित्स्योऽय व्याधिः परमदारुणः
विक्षेपिका
हृत्कोष्ठाक्षेपको व्याधिर्नाम्ना विक्षेपिका मता
जातेऽस्मिन् महति व्याधौ कोष्ठदेशेऽप्युरोऽस्थ्यधः
सव्यांसास्थ्नि सव्यबाहौ ग्रीवायां पृष्ठदेशतः
वेदना जायते तीव्रा मर्मप्राणप्रपीडिनी
तोदभेदौ समाकर्षो दाहस्तत्र च जायते
मुहुर्मुहुः श्वासरोधः शीता त्वक् स्वेदनिर्गमः
आध्मानानाहमोहाश्च वैवर्ण्यं कृशताऽरुचिः
क्रमादिन्द्रि यविध्वंसो मरणं चाप्यनात्मनः
हृद्रो गचिकित्सा
घृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो ये
हृद्रो गजीर्णज्वररक्तपित्तं हत्वा भवेयुश्चिरजीविनस्ते
हरीतकीवचारास्नापिप्पलीनागरोद्भवम्
शटीपुष्करमूलोत्थं चूर्णं हृद्रो गनाशनम्
पुटदग्धं हरिणशृङ्गं पिष्टं गव्येन सर्पिषा पिबतः
हृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपि
तिलाज्यगुडविपक्वं चूर्णं गोधूमपार्थोत्थम्
पिबति पयोभुक् स भवति जितसकलहृदामयः पुरुषः
पिप्पल्यादिचूर्णम्
पिप्पल्येला वचा हिङ्गु यवक्षारोऽथ सैन्धवम्
सौवर्चलमथो शुण्ठी अजमोदेति चूर्णितम्
दध्ना मद्येनासवेन काञ्जिकेन घृतेन वा
पाययेच्छुद्धदेहं हि वातिके हृदयामये
शीताः प्रदेहाः परिषेचनानि तथा विरेको हृदि पित्तदुष्टे
द्रा क्षासिताक्षौद्र परूषकैः स्याच्छुद्धे च पित्तावहमन्नपानम्
पिष्ट्वा पिबेद् वाऽपि सिता जलेन यष्ट्याह्वयं तिक्तकरोहिणीञ्च
वचानिम्बकषायाभ्यां वान्तं हृदि कफोत्थिते
वातहृद्रो गहृच्चूर्णं पिप्पल्याद्यं प्रपाययेत्
त्रिदोषजे लङ्घनमादितः स्यादन्नञ्च सर्वेषु हितं विधेयम्
हीनातिमध्यत्वमपेक्ष्य चैव कार्य्यं त्रयाणामपि कर्म शस्तम्
हिङ्गूग्रगन्धाविडविश्वकृष्णाकुष्ठाभयाचित्रकयावशूकम्
पिबेत् ससौवर्चलपुष्कराढ्यं यवाम्भसा शूलहृदामयघ्नम्
पाठां वचां यवक्षारमभयामम्लवेतसम्
दुरालभां चित्रकञ्च त्र्! यूषणञ्च बलात्रयम्
शटीं पुष्करमूलञ्च तिन्तिडीकं सदाडिमम्
मातुलुङ्गस्य मूलानि श्लक्ष्णचूर्णानि कारयेत्
सुखोदकेन मद्यैर्वा प्लुतान्येतानि पाययेत्
अर्शः शूलञ्च हृद्रो गं गुल्मञ्चाशु नियच्छति
क्रिमिजे च पिबेन्मूत्रं विडङ्गामयसंयुतम्
हृदि स्थिताः पतन्त्येवमधस्तात् क्रिमयो नृणाम्
यवान्नं वितरेच्चास्मै सविडङ्गमतः परम्
==========

अथोरस्तोयाधिकारः ३

सम्प्राप्तिः
उरस्येकतरे पार्श्वे पार्श्वयोर्वाऽप्यपां चयः
उरस्तोयं गदो नाम प्रायशः प्राणनाशनः
लक्षणम्
कृच्छ्राच्छ्वासः कफस्रावो नीलावोष्ठौ तथा मुखम्
शोथः पादे धरा क्षुद्रा विषमा वेगवाहिनी
मूत्राल्पत्वं भवेच्चापि स ना न शयनक्षमः
स्वास्थ्यं किञ्चित् समासीनो लभतेऽस्मिन् महागदे
ग्रन्थान्तरे उरस्तोयनिदानम्
श्वासोऽतिकृच्छ्रः कफसंस्रवश्च नीलौ तथोष्ठौ वदनेक्षणं च
अस्वेदनञ्चाल्पपुरीषमूत्रे श्वासेन दीनः शयने न शक्तः
मन्देन्द्रि यो मन्दबलाग्नि कान्तिः क्षीणाऽतिनाडी द्रुतगामिनी च
हृदि व्यथा पादयुगे च शोथो लिङ्गान्यमून्यत्र भवन्ति रोगे
चिकित्सा
भेषजं श्लेष्महरणं मूत्रस्यापि प्रवर्त्तनम्
उरस्तोये गदे योज्यं विविच्य भिषजा सदा
पिपासानिग्रहः कार्यः शीताम्भोऽनलसेवनम्
यत्नतः परिहर्त्तव्यमभिष्यन्द्यखिलं तथा
पादावशिष्टं यत्तोयं तत् तृषायां पिबेन्मनाक्
पयसा वा शृतोष्णेन शान्तिं कुर्यात् सदा तृषः
वर्षाभूस्वरसं वाऽपि यवक्षारसमायुतम्
पिबेन्नित्यमुरस्तोयी सायं प्रातरतन्द्रि तः
श्वयथौ मूत्रकृच्छ्रे च कासे श्वासे हृदामये
भेषजं गदितं यद्यत् तत् तदत्र प्रयोजयेत्
नैवं व्याधिः शमं यायान्निखिलैर्यदि कर्मभिः
कुर्य्याच्छस्त्रक्रियां तर्हि लघुहस्तो भिषग्वरः
समुद्र वस्वोर्मध्ये वा महीध्रग्रहयोरथ
पर्शुकास्थ्नोर्ग्रहदिशा शस्त्रं नाम त्रिकूर्चकम्
प्रवेश्यावहितो रक्षन् यकृत्प्लीहानमेव च
निःशेषं निर्ह रेदम्बु व्याधिरेवं प्रशाम्यति
==========
अथौपसर्गिकोपदंशाधिकारः ४

तस्य निदानलक्षणादीनि
बहुसङ्करसेवाभ्यां सञ्जातो जननेन्द्रि ये
व्रणः कष्टतरो घोरो नानारोगप्रकाशकः
विषोपदंशः पापोपदंशः इत्येवमीरितः
स एव हि बुधैः पूर्वैः कथितश्चौपसर्गिकः
व्याधिः स्रंकमति स्त्रीतः पुंसि तस्यां ततस्तथा
अपत्येषु च जायेत कुलजोऽसौ सुदारुणः
उपदंशो द्विधा प्रोक्तो मुख्यगौणप्रभेदतः
इन्द्रि यस्यादिमो दोषो मुख्योऽन्यो दाहिकस्तथा
आरभ्य च क्रियाकालं सप्ताहत्रयमध्यतः
व्रणो विषोपदंशस्य जायते जननेन्द्रि ये
भवेद् दीर्घतरं कालं यावन्तं समतीत्य यः
तथा कृच्छ्रतरः स स्याद् बहुदुःखप्रदायकः
द्विधा पापोपदंशस्य व्रणः स्यात् कठिनो मृदुः
आद्यः संक्रामकः कृच्छ्रः सर्वदेहप्रतापनः
अपरो न च संक्रामेत् कञ्चिद्देहं न दूषयेत्
एष साध्यतरः प्रोक्तो न च कष्टो यथादिमः
पुंसो मेढ्रस्य मुण्डे च चर्मण्यावरके तथा
भगद्वारे भगोष्ठे च जायन्ते पिडकाः स्त्रियाः
समन्तात् कठिनास्तास्तु विदीर्णा रसवाहिकाः
दृढमूला मध्यनिम्ना ज्वरब्रध्नादिदायिकाः
मुख्योपदंश इत्यस्मिन् शान्तेऽपि पुनरेव हि
विकृतिं विविधां कुर्य्यात् तद्विषं देहसंस्थितम्
गौणोपदंशः
त्वग्विकाराक्षिरोगौ च केशलोम्नाञ्च संक्षयः
ग्रन्थिपीनसकुष्ठानि गौणोपदंशलक्षणम्
त्वग्विकारादयो गौणोपदंशेन लक्ष्यन्ते
विषोपदंशः
विषं पापोपदंशस्य श्लेष्मग्रन्थिषु संसृतम्
ब्रध्नरोगं सञ्जनयेत् सज्वरं बहुदुःखदम्
चिकित्सा
पिडिकामुपदंशस्य दहेत् क्षारनिपाततः
व्याधिस्तेन शमं याति न कञ्चिद् व्यापदोऽपराः
कर्षं शोधितसूतस्य काठिन्यास्तद्द्वयं तथा
यत्नतो मर्दयेत् तावद् यावत् सूतो न दृश्यते
अस्य गुञ्जाद्वयं खादेत् प्रत्यहं त्रिः पुटस्थितम्
दन्तवेष्टव्यथायाञ्च लालास्रावे च तत् त्यजेत्
रसचूर्णस्य कर्पूररसस्यापि निषेवणात्
अनेन विधिनैवासौ गदो घोरः प्रशाम्यति
पलार्द्धप्रमितं चूर्णं तोये पञ्चशरावके
क्षिप्त्वा विलोड्य सम्यक् च चतुर्यामान्ततः परम्
स्वच्छांशमूर्द्ध्वगञ्चास्य गृह्णीयादतियत्नतः
इदं चूर्णोदकञ्चाम्लनाशनं व्रणमेहनुत्
द्विपले चूर्णतोयेऽस्मिन् रसचूर्णस्य माषकम्
क्षिप्त्वा सम्मिश्रयेत्तावद् यावत् कृष्णप्रभं जलम्
कृष्णद्र वेण चानेन क्षालनं व्रणहृत् परम्
उपदंशे विशेषेण शस्तमेतन्महौषधम्
सार्धद्विपलमानेऽस्मिन् निःक्षिपेन्नवरक्तिकम्
कर्पूररसमेतेन कृत्वा पीतद्र वौषधम्
व्रणं पापोपदंशस्य क्षालयेत्तेन वारिणा
एतच्च परमं प्रोक्तमौषधं हि बुधैरिह
विद्र धौ या क्रिया प्रोक्ता ब्रध्नरोगेऽपि सा हिता
गौणोपदंशे विषमे पित्तघ्नञ्चास्रशोधनम्
सरं भेषजमन्नञ्च पानञ्चापि निनिर्दिशेत्
अनन्ताद्यं घृतम्
अनन्तामलकीद्रा क्षाः काकोलीयुगलं वरीम्
एलाद्वयं विदारीञ्च मधूकं मधुकं मुराम्
त्रिफलां स्वर्णपर्णाञ्च बीजं गोक्षुरसम्भवम्
दशमूलं तालमूलद्यं त्रिवृतामिन्द्र वारुणीम्
नीलिनीं शूकशिम्ब्याश्च बीजं कर्षप्रमाणतः
कल्कीकृत्य पचेत् प्रस्थे सर्पिषः सारिवाऽम्भसा
घृतमेतदनन्ताद्यमुपदंशविनाशनम्
रसायनं परं वृष्यमस्रदोषनिषूदनम्
भेषजं कुष्ठशमनं वातरक्तहरं तथा
गौणे मुख्ये च संयोज्यमुपदंशे यथायथम्
विशेषतः वर्ज्यम्
पापप्रमेही वातास्त्री कुष्ठी पापोपदंशवान्
न भजेदङ्गनां नापि तद्गदिन्यङ्गना नरम्
============
अथागन्तुजपक्षाघाताधिकारः ५

पक्षाघातो द्विधा ज्ञेयो दोषागन्तुजभेदतः
दोषजः कथितः पूर्वमधुनागन्तुजं शृणु
आगन्तुजोऽपि द्विविधः पक्षाघातः प्रक्रीर्त्यते
आद्यः पारदसम्भूतो द्वितीयो नागजः स्मृतः
पारदपक्षाघातस्य निदानम्
रससंस्पर्शसातत्यात् तद्धर्मस्य च सेवनात्
पक्षाघातो भवेद् यस्तु स ज्ञेयः पारदोद्भवः
पारदपक्षाघातस्य लक्षणम्
आदौ बाह्वोर्बलध्वंसस्ततः कम्पः प्रजायते
वेपेते सक्थिनी चापि कायः सर्वस्ततः परम्
गदी चलति नृत्यन् वै दृढं द्र व्यं न धारयेत्
स्पष्टं प्रभाषितुञ्चापि चर्वितुञ्च न च क्षमः
ततस्तस्यारतिर्निद्रा प्रलापो बलसंक्षयः
हृल्लासो वह्निनाशश्च दन्तध्वंसः क्वचित् स्रुतिः
शान्तिर्भवति कम्पस्य विधृतेऽङ्गेरसायने
नागामयस्य लिङ्गानि शृणूरभ्रां समासतः
पारदपक्षाघातस्य चिकित्सा
मुख्यं चिकित्सितञ्चास्य निदानपरिवर्जनम्
निदानसेविनो व्याधिर्नौषधाद् विनिवर्त्तते
स्वेदसञ्जननं सर्वं म्रूत्रकृच्च विरेचनम्
रक्तदोषहरं चात्र शर्मदं भेषजं मतम्
गन्धकं परमं प्राहुर्भेषजं पारदामये
नेपालनिम्बतोयेन सेव्यो लौहोऽस्य शान्तये
नागपक्षाघातस्य निदानम्
चित्रकृत्प्रमुखा ये हि नागैः कर्म प्रकुर्वते
ये वा व्यवहरन्त्यस्य पात्रं तेषां ततो गदः
अस्य लक्षणम्
अङ्गुलीस्तु समारभ्य मणिबन्धं ततोऽखिलम्
व्याधिर्व्याप्नोति दौर्बल्यं तत्रैकं लक्षणं महत्
अंसे प्रकोष्ठे तोदश्च बाह्वोश्च परिशीर्णता
नीलिमा दन्तवेष्टेच शूलं चिह्नानि चास्य वै
अस्य चिकित्सा
स्वेदनं भेदनञ्चापि कुष्ठंघ्नं यच्च भेषजम्
तत्सर्वमिह संसेव्यं कृत्वा हेतुविवर्जनम्
=============
अथ गदोद्वेगाधिकारः ६

गदोद्वेगस्य स्वरूपम्
विना व्याधिं व्याधिशङ्का गदोद्वेग इतीरितः
पदार्थत्वाभाववत्त्वादपदार्थगदश्च सः
अपदार्थगदस्य गिदोद्वेगस्यइ! निदानम्
कायेन मनसा भूयाञ्श्रमः शोको बलक्षयः
नैराश्यं मानहानिश्च महोद्वेगो महाभयम्
दुरदृष्टं बीजदोषः सत्त्वस्याभाव एव च
अपदार्थगदस्यैते हेतवः कथिता बुधैः
तस्य लक्षणम्
अद्भुतस्य गदस्यास्य लक्षणान्यद्भुतानि च
असम्भाव्यान्यचिन्त्यानि महोत्पातभयानि च
कोऽप्येवंमन्यते नूनमुदरं भुजगोऽविशत्
कोष्ठेभ्रमत्यसौ नित्यं भुङ्क्ते यद् भुज्यते मया
निर्यास्यति पथा केन केनोपायेन नङ्क्ष्यति
किं विधास्यति नो जाने दश्ये वाऽह दुरात्मना
कोऽपि वा मनुते भेको ममैको मूर्ध्नि संस्थितः
विघट्टयति मस्तिष्कं मारयिष्यति मां ध्रुवम्
कोऽपीत्थं चिन्तयेच्चित्रं कायः काचमयो मम
सञ्जातोऽयमतो रक्ष्यः सदाघातात् प्रयत्नतः
इत्येवं बहुरूपाभिर्व्यर्थचिन्ताभिराकुलः
अपदार्थगदीशुष्येत् सदा भीतः सदाऽसुखी
बहुधा बोधितोऽप्येष सान्त्वितोऽपि पुनः पुनः
भ्रमं चित्ताद् दूरीकर्तुं न शक्नोति न साध्वसम्
यश्चास्य कथयेद् भ्रान्तिं तस्मै द्र्ह्यति नित्यशः
प्रीयते च गदोद्वेगी व्याधेः सत्यत्ववादिनि
गदोद्वेगवता कोष्ठे किस्मंश्चिदनुभूयते
सुतीव्रा वेदना प्रायः पाककोष्ठे विशेषतः
जिह्वा स्यात् कफलिप्ताऽस्य पूतिः श्वासो निरेति च
उत्क्लेशश्च तथा वान्तिरित्थञ्च जीर्णलक्षणम्
प्राखर्य्यं स्पर्शशक्तेश्च द्युतिमल्लोहितास्यता
हृदयोदरकम्पश्च पाण्डुत्वमुदरामयः
हृदि साङ्घातिको व्याधिः केन वाऽप्यनुभूयते
गदोद्वेगवताऽन्येन पुरुषत्वस्य संक्षयः
ज्वरः सततकोऽन्येन दुष्प्रतीकार्य्य एव च
किमाश्चर्य्यं वेपनाद्यं जायते च तदा तदा
इत्थं बहुविधाकारा व्याधयः कल्पनाकृताः
भ्रमरूपाः प्रजायन्ते निःसत्त्वानाममेधसाम्
शक्यन्ते व्याधयो वक्तुं नैते निरवशेषतः
बुद्धिमद्भिर्लक्षणीया यथास्वं दोषलक्ष्म च
प्रायशः षोडशादर्वाङ् न च पञ्चाशतः परम्
व्याधिरेष प्रदृश्येत हेतुस्तत्र मनोगतिः
मासि मासि रजः स्रावात् सर्वे शुध्यन्ति धातवः
अतः स्नायुगदः स्त्रीणामेष प्रायो न जायते
गदोद्वेगस्य चिकित्सा
सान्त्वनाश्वासनस्नेहहर्षणैः परिचर्य्यया
अपदार्थगदाक्रान्तं चिकित्सेत् तर्षणेन च
पाचनं वह्निकृद् यच्च यद् वातस्यानुलोमनम्
पित्तहृन्नातिकफकृत् तद् युञ्ज्यादत्र भेषजम्
वातव्याध्युदितान्यत्र तैलानि च घृतानि च
युक्त्या युञ्ज्याद्भिषक् प्राज्ञो भेषजञ्च रसायनम्
गदो मिथ्येति न वदेद्भिषगस्य कदाचन
स यद् ब्रवीति वृत्तान्तं शृणुयादवधानवान्
=============
अथ शैशवसंन्यासाधिकारः ७

शैशवसंन्यासस्य निदानं लक्षणञ्च
दुष्टस्तन्यस्य पानाच्च सदा शीतगृहे स्थितेः
वातातपविहीने वा दुष्टानिलविदूषिते
पानाशनविहारैश्च दोषलैर्बहुभिः शिशुः
संन्यासाख्येन रोगेण पीड्यते क्रिमिभिस्तथा
उत्तारनयनः स स्यादाक्षिप्ताङ्गस्त्वसंज्ञकः
दारुवत् पतितो भूमौ दृढकायो मृतोपमः
नाम्ना शैशवसंन्यासो गदोऽय शिशुपीडनः
क्रिया सद्यःफला चात्र रेचनश्च हितं मतम्
शैशवसंन्यासस्य चिकित्सा
व्याधौ शैशवसंन्यासे निदानानां निराकृतौ
विदध्यात् सर्वथा यत्नं कर्मदोषहरं तथा
कुर्य्याच्च रुबुतैलेन रसचूर्णेन वा पुनः
रेचनं शिशुसंन्यासे स्वेदस्तत्रोदरे हितः
अरोगिण्याः शिशुं धात्र्! याः स्तन्यं शुद्धं प्रपाययेत्
स्तन्यस्य शोधनं वाऽपि कुर्य्याद् यस्याः पिबेत् स तत्
क्रिमिजे शिशुसंन्यासे क्रिमीणां हरणं हितम्
कणामधुयुतं सूतं मूर्च्छायां प्राशयेद्भिषक्
============
अथ योषाऽपस्माराधिकारः ८

योषाऽपस्मारस्य निदानम्
शोणितस्य क्षयाद्वाऽपि तथाधिक्यादजीर्णतः
कोष्ठरोधान्मनोभङ्गादत्युद्वेगाच्च शोकतः
रजोऽभावाच्च योषाणां जरायुविकृतेस्तथा
अशक्तेरपि नैष्ठुर्यात् पत्युरस्नेहतस्तथा
वैधव्यजन्यादाधेश्च योषाऽपस्मारसंज्ञकः
गदः प्रजायते कृच्छ्रो मनोदेहप्रतापनः
योषितामेव बाहुल्याद् यत एष भवेद् गदः
अपस्मारप्रकृतिकस्तेनास्यैषाऽभिधा मता
कालोऽस्य यौवनं व्याधेर्नार्वाग् द्वादशवर्षतः
परं पञ्चाशतो वाऽपि व्याधिरेष प्रजायते
अस्य पूर्वरूपम्
हृद्रुजा जृम्भणं सादो वर्ष्मणो मनसोऽपि च
भवेद् भविष्यति गदे योषाऽपस्मारसंज्ञके
अस्य लक्षणम्
वैचित्यं बुद्धिविभ्रान्तिर्हास्यं क्रन्दनमेव च
उच्चैः क्रोशः प्रलपनं ज्योतिर्द्वेषस्तथा भ्रमः
औद्धत्यं श्वासकृच्छ्रञ्च कण्ठामाशयवेदना
प्राबल्यं स्पर्शशक्तेश्च क्वचिदङ्गे सदा व्यथा
अलीकवर्त्तुलोत्थानमाकण्ठमुदरादपि
सदल्पबुद्धिर्मूर्च्छा च व्याधावस्मिन् प्रजायते
अस्य चिकित्सा
यद् धातुपोषकं पानमन्नमौषधमेव च
कोष्ठशुद्धिकरञ्चापि तत्तदत्र प्रयोजयेत्
मूर्च्छायां शीततोयेन सेकः शिरसि चक्षुषोः
शिरो विरेचनं वाऽपि प्रयोज्यं तन्निवृत्तये
अत्र प्रयोजयेत् सर्वं मूर्च्छाऽपस्मारभेषजम्
जरायुदोषं निखिलं प्रतिकुर्य्याद् यथाविधि
योषाऽपस्मरणं सान्त्वैः प्रियदानाच्च शाम्यति
बृह्रद्भूतभैरवरसोऽप्यत्र देयः
==============
अथ तत्त्वोन्मादाधिकारः ९

स्वरूपम्
अहो मम महद् भाग्यं लब्धा यद् ब्रह्मणः कृपा
इत्येवं भ्रमजो मोहस्तत्त्वोन्माद इतीरितः
तत्त्वोन्मादो हर्षमौढ्यं ब्रह्ममोहश्च स स्मृतः
वृथाधीप्रभवो व्याधिरयं सद्भिर्निरूपितः
किं रूपं कुत्र वा ब्रह्म नैतज्जानाति कोऽप्यहो
पुराणैर्दर्शनैर्वाऽपि न लब्धं ब्रह्मदर्शनम्
एके सकर्तृकं विश्वं वदन्त्यन्ये निरीश्वरम्
ब्रह्माण्डं ब्रह्मतर्केण व्याकुलं बहुधा वृथा
मानं दुरूहं सत्तायामास्तां दूरे दयादिकम्
अनिर्णीतमनिर्णेयं तदेवमवधारय
मदर्थं ब्रह्म कुर्वेतज्जह्येनं मम वैरिणम्
धनं देहि यशो दहि देहि राज्यमकण्टकम्
विशालनेत्रां सुदतीं पीनोन्नतपयोधराम्
नितम्बिनीं क्षीणमध्यां स्मरकेलिकलाविदाम्
नित्यं नर्मप्रियां तन्वीं रम्भोरु रसिकेश्वरीम्
मद्व्रतां नित्यसन्तुष्टां सुन्दरीं देहि कामिनीम्
इत्थमर्थनमात्रेण बह्म भीतं ससम्भ्रमम्
भ्रान्तबुद्धे न मन्यस्व प्रार्थितं साधयिष्यति
कदाचित् प्रार्थना काऽपि यदि ते सफला भवेत्
विद्धि तत् काकतालीयं तत्र ब्रह्म न कारणम्
न स्तवैर्हृष्यति ब्रह्म नापि द्वेष्टि च निन्दया
अस्तिवादी प्रियो नास्य नास्तिवादी न चाप्रियः
न मूर्खेऽनादरस्तस्य बहुमानो न पण्डिते
धनिनो वा भयं नास्य न दरिद्रे च ताडनम्
श्वपाके यवने वाऽपि ब्राह्मणे वेदपारगे
मद्यपे गणिकासक्ते मालातिलकधारिणि
शुचौ वाऽप्यशुचौ साध्व्यां वेश्यायां बालवृद्धयोः
सर्वत्रैव समं ब्रह्म विश्वरूपं सनातनम्
एवम्भूतस्य तस्येयमिति मत्प्रीयते कृतिः
तत्त्वोन्माद्यति यस्तस्य व्याधिरुन्माद एव हि
प्रायशो बुद्धिहीनानामसतां नीचचेतसाम्
व्याधिरेषोऽभिजायेत कदाचिन्महतामपि
तत्त्वोन्मादस्य निदानम्
अतिप्रगाढाच्चित्तस्य धर्माद्यभिनिवेशनात्
व्याधिस्तत्त्वोन्मदो नाम जायते वातकोपतः
तस्य लक्षणम्
ब्रह्ममोहे प्रमूढत्वं स्थिराऽस्पन्दा कनीनिका
चक्षुरुन्मीलितं सुप्तिर्गतिरोधोऽथ वाग्मिता
दम्भोग्रभावौ विक्षेपो हास्यं क्षैव्यञ्च रोदनम्
एवम्भूतानि लिङ्गानि तत्त्वोन्मादे भवन्ति हि
तत्त्वोन्मादचिकित्सा
स्नायुस्थैर्य्यकरं यद् यत् तथा वातानुलोमनम्
भेषजं पानमन्नञ्च तत्तदत्र प्रयोजयेत्
शतधौतघृताभ्यङ्गोऽसमे च मधुसर्पिषी
आज्यं सलिलमिश्रञ्च ब्रह्ममोहे परौषधम्
कदाचित् ताडनाद्यैश्च ब्रह्ममोहः प्रशाम्यति
गदे त्वप्रकृते तस्मिन् प्रहार एव भेषजम्
अपस्मारहरं यच्च वातव्याधिहरं तथा
घृततैलादिकं सर्वं ब्रह्ममोहे प्रशस्यते
===============
अथ मस्तिष्क स्नायुविकाराधिकारः १०

रूक्षाल्पलघ्वन्नरविप्रतापैः शोकाध्वचिन्ताप्रमदाप्रसङ्गैः
मस्तिष्कजः स्नायुचयो नराणां संशुष्कतां दुर्बलतां च याति
शक्तेर्लघुत्वं सकलेन्द्रि याणां कान्तिप्रणाशो मनसश्च दैन्यम्
निद्रा विनाशो हृदये प्रकम्प इत्यादयः स्युर्विविधा विकाराः
============
अथ स्नायुशूलाधिकारः ११

स्वरूपम्
स्नायुष्वतीव या घोरा तच्छाखास्वपि वा पुनः
वेदना स्नायुशूलाख्या सा भवेत् प्राणपीडनी
व्याधेः स्थानम्
बाह्वोः शीर्ष्णस्तथा सक्थ्नोरन्यस्याङ्गस्य वा पुनः
त्वचो निम्नस्थितास्वेव वस्नसासु गदो भवेत्
शूलोऽय निखिलाङ्गेषु भवेत् तीव्ररुजाकरः
विशिष्टाङ्गभवस्यास्य विशिष्टाख्या च वर्त्तते
ऊर्ध्वभेदार्द्धभेदौ चाप्यधोभेदस्तथैव च
मुण्डमुण्डार्धकस्फिग्जगदानामभिधाः क्रमात्
तत्रोर्ध्वभेदस्य निदानम्
बलरक्तक्षयाद्वाऽपि वृक्कमस्तिष्कदोषतः
अजीर्णाद् दशनव्याधेरूर्ध्वभेदो गदो भवेत्
लक्षणम्
ललाटेऽक्षिपुटे निम्ने गण्डे नस्योष्ठ एव च
जिह्वापार्श्वेऽधरे दन्ते शूलवद् दाहवच्च या
एकस्मिन् प्रायशः पार्श्वे वेदना मुखमण्डले
ऊर्ध्वभेदाख्यया सोक्ताऽगदङ्कारैः क्रमैधितिः
अनुपशयः
शीतानिलस्य संस्पर्शाद् देहकम्पाच्च वर्द्धते
स्नायुभेदस्य विकृतेरङ्गभेदे भवेद् गदः
अर्द्धभेदस्य निदानम्
आर्द्र स्थानस्थितेश्चापि शीतयोगाद् बलक्षयात्
अर्द्धभेदः प्रजायेत दुष्टवाताम्बुसेवनात्
अर्द्धभेदस्यलक्षणम्
याऽद्ध व्याप्य भवेत् तीव्रा वेदना मुखमण्डले
वामे च प्रायशः पार्श्वे साऽद्धभेदः प्रकीर्त्यते
बाणेनेव शिरो विद्धं व्यथतेऽतिसुदारुणम्
कदाचित् क्रममालम्ब्य विरामश्चात्र वा महान्
बाहुल्येन च नारीणां व्याधिरेष प्रजायते
प्रादुर्भावो वयःस्थस्य यौवने ह्यधिको मतः
अधोभेदस्य निदानम्
विड्रोधाच्छ्रमाच्छीताद् दौर्बल्यादामवाततः
आर्द्र स्थानस्थितेर्गर्भदोषात् स्यान्निम्नभेदकः
अधोभेदस्य लक्षणम्
स्फिच्यूरुजानुसन्ध्योश्च पश्चिमे च क्वचित् पदे
जङ्घायां वाऽपि यच्छूलमधोभेदः स उच्यते
एकस्मिन् प्रायशः सन्क्थि शूलोऽय स्यान्निशाबली
बाहुल्येनैव वयसि प्रौढ एव प्रजायते
स्नायुशूलस्य चिकित्सा
यदग्नेर्दीपनं किञ्चिद् यद् वा स्याद् बलवर्द्धनम्
वातानुलोमनं यच्च स्नायुशूले तदौषधम्
प्रयोज्यं दारुगरलमर्धभेदप्रशान्तये
विरतौ तत् प्रयोक्तव्यं न प्रकोपे कदाचन
मदिरामृतसाराख्यं लौहं क्षोदः कुपीलुजः
सेव्यान्येतानि विधिना स्नायुशूलस्य शान्तये
स्वेदसेकप्रलेपांश्च स्नायुशूलेषु योजयेत्
तीव्रं विरेचनञ्चात्र विदध्यान्मलसञ्चये
घृततैलादिकं योज्यमनिलामयनाशनम्
स्नायुशूलेषु सर्वेषु भेषजञ्च रसायनम्
===============
अथ ताण्डवरोगाधिकारः१२
हिमवच्छिखरे रम्ये सिद्धर्षिगणसेविते
सुगन्धिसुमनःशोभिफलवद्बहुपादपे
श्रुतद्विजकले शान्तैः श्वापदैर्बहुभिर्वृते
वटमूले समासीनमात्रेयं ज्ञानसागरम्
आयुर्वेदमहाचार्य्यं तपोदीप्तकलेवरम्
उरभ्रो भक्तिमानग्रे कृताऽञ्जलिरभाषत
कथं ताण्डवरोगस्य जन्म चिह्नानि कानि च
कथञ्च स्यात् प्रतीकारः सर्वं मे कृपया वद
श्रुत्वैतां प्रार्थनां धीरशिष्याय शिष्यवत्सलः
वचनैर्वक्तुमारेभे व्यक्तार्थैस्तदृषीश्वरः
निदानम्
प्रीतोऽस्मि भक्तिमन् वत्स ब्रुवे यच्छ्रोतुमिच्छसि
यद् दक्षायावदत् पूर्वं ब्रह्मा लोकपितामहः
अप्यातङ्कादतिक्रोधादतिहर्षाद्वलक्षयात्
कर्षणात् स्वप्नरोधाच्च विड्बन्धात् क्रिमिसञ्चयात्
आशानाशादभीघातात् स्त्रीणामृतुविपर्य्ययात्
कशेरुकाभञ्जनञ्चात्युग्रभावात् प्रजायते
व्याधिस्ताण्डवनामा स प्राणिनां क्लेशकृत् परः
अङ्गानां ताण्डवादस्य ताण्डवाख्या बुधैः कृता
कैशोरे वयसि प्रायः स्त्रीणाञ्चापि विशेषतः
व्याधिरेषोऽभिजायेत वृद्धानाञ्च बलक्षयात्
ताण्डवरोगलक्षणम्
वामबाहुं समारभ्य प्राय आदौ ततोऽपरम्
ततः पादौ ततोऽङ्गानि चालयेत् ताण्डवामयः
मुष्टिना किमपि द्र व्यं सम्यग्धारयितुं क्षमः
समर्पयितुमास्ये वाऽप्यदनीयं न ताण्डवी
नृत्यन्निव चलत्येष बीभत्सैर्मुखचेष्टितैः
अधीरः सततं तिष्ठेन्निद्रा यां कम्पवर्जितः
ताण्डवचिकित्सा
बृंहणं रेचनञ्चैव वह्नेर्बलविवर्द्धनम्
औषधं पानमन्नञ्च प्रयोज्यं ताण्डवे गदे
क्रिमिसञ्चयसम्भूते कार्य्यं क्रिमिविनाशनम्
रजोरोधभवे व्याधौ रजसस्तु प्रवर्तनम्
श्यामामनन्तां मधुकं त्रिवृतां चन्दनद्वयम्
एलाद्वयं तथा धात्रीं क्वाथयित्वा जलं पिबेत्
अनेन प्रशमं याति ताण्डवाख्यो गदो ध्रुवम्
ताण्डवारिलौहमपि देयम्
=================
अथ क्लोमरोगाधिकारः १३

प्लीहक्षुद्रा न्त्रयोर्मध्यमन्नपाकादिकर्मणि
सहायभूतमध्यास्ते क्लोम तच्च तिलाभिधम्
गुर्वतिस्निग्धभोज्यैश्चाप्यविघातादिभिस्तथा
वृद्धिस्तस्य मृदुत्वञ्च तत्र शोणितसञ्चयः
विद्र धिर्वा भवेत्तत्र व्याधयोऽन्ये च दारुणाः
एवं विकृतिमापन्ने तिलके वह्नि संक्षयः
उत्क्लेशो वमनं कार्श्यं पाण्डुता सदनं भ्रमः
ऊर्ध्वोदरे व्यथा तीव्रा काठिन्यमपि चोष्णता
शूलाध्मानप्रसेकाश्च विद्र धौ महती च तृट्
शिला चाप्यश्मरी तुल्या सुकष्टाऽप्यत्र जायते
क्लोमचिकित्सा
यद् वह्नेर्दीपनं यच्च मारुतस्यानुलोमनम्
अन्नपानौषधं सर्वं तत्तत् क्लोमातुरे हितम्
यो यः समाश्रयेद् व्याधिः क्लोम्नि तं तमवेक्ष्य च
क्रियां संसाधयेद् वैद्यो यथादोषं बलाबलम्
अभयादिक्वाथैः सुरेन्द्र मोदकैः शशिशेखररसैः सुरेन्द्रा भ्रवटीऐ!
च तथा वातपित्त प्रशमकानि भेषजानि क्लोमरोगशान्तये प्रयोज्यानि
================
अथ वृक्कामयाधिकारः १४

पूर्वरूपम्
त्वग्रूक्षोष्णा वेगवती धमनी कठिना तथा
निद्रा नाशो वह्निमान्द्यं शोथोऽक्ष्णि च मुखे पदे
वृक्कामयस्य पूर्वाणि रूपाण्याहुभिषग्वराः
वृक्कामयस्य लक्षणम्
रक्ताल्पत्वान्मुखस्य स्यात् पाण्डुत्वं कटिवेदना
त्वक् शुष्का स्वेदहीना च धमनी द्रुतगामिनी
वह्निमान्द्यमजीर्णञ्च भक्तद्वेषो व्यथोदरे
अम्लोद्गारस्तथा छर्दिर्हृद्वेपः श्वासकृच्छ्रता
मूत्राल्पत्वं सदा वेगो विशेषान्निशि जायते
मूत्रकाले च शिश्नाग्रे मनाग् दाहोऽनुभूयते
वृक्कयोर्विकृतिश्चास्मिन् विशेषाज्जायते गदे
यकृत्प्लीहहृदाञ्चापि सा सदैव प्रजायते
कर्णनादो दृष्टिदोषः शिरोग्रीवांऽसवेदना
शाखासु गौरवं मूर्च्छा वृक्करोगस्य लक्षणम्
वृक्कामयनिदानम्
रक्तस्य परिवृत्त्या हि जायते वृक्कवैकृतम्
अस्य चिकित्सा
यन्मूत्रलं शोणितशोधनञ्च यत् पोषणं वह्निविवर्धनञ्च
वृक्कस्य रोगे परियोजयेत् तद् व्याधेर्बलं वीक्ष्य भिषग् विधिज्ञः
रसो विवर्धयेद् व्याधिमतस्तं नेह योजयेत्
रसायनाधिकारोक्तान्यौषधान्यपि योजयेत्
न चास्ति शमने किञ्चिन्निर्दिष्टमस्य भेषजम्
सर्वतोभद्रा वटी चापि देया
==============
अथौपसर्गिकमेहाधिकारः १५

बहुसङ्करसम्भोगप्रक्लिन्नेपि यया पुमान्
स्त्रिया सङ्गम्य सम्मूढो गदमाप्नोति दारुणम्
मूत्रनाड्यन्तरस्थाना त्वगस्य श्लेष्मवाहिनी
व्रणिता वाहरेत्क्लेदं व्रणमेहः स उच्यते
औपसर्गिकमेहश्च तस्य नामान्तरं मतम्
मेह आगन्तुकश्चापि स केश्चित् परिपठ्यते
आरभ्य सङ्गमनिशां सङ्ख्यया याच सप्तमी
एतद्व्यवहिते काले प्रायशो जायते गदः
कण्डूः शिश्नाग्रतस्तस्य समुत्थानं मुहुर्महुः
तीव्रवेदनया वापि मुहुर्मूत्रप्रवर्त्तनम्
स्फीतिर्लिङ्गस्य लौहित्यं कोषे ब्रध्ने च वेदना
कदाचित् क्लेदसंरुद्धमार्गत्वादतिरुक्स्रवेत्
मूत्रं दाहेन घोरेण द्विधारं वा प्रवर्त्तते
क्षरेद्वा क्षतजं मेढ्रान्मूत्रकाले कदाचन
सन्ततं तनुरास्रावं स्रवेदादौ ततोऽतनुः
स तावत् पुनराशुष्यन् पीतिमानं प्रयाति च
काले लघ्वीं व्यथां कुर्य्याद् व्याधिञ्च दुष्प्रतिक्रियाम्
आमवाताक्षिरोगाद्या ज्ञेयाश्चास्य ह्युपद्र वाः
औपर्गिकमेहस्य चिकित्सा
व्रणमेही त्यजेद् यत्नाद् व्यवायं सोऽहितो यतः
स्त्रियाश्च परिभुक्ताया आमयं जनयेच्च तम्
भेषजं पानमन्नञ्च निषेवेतानुलोमनम्
व्रणघ्नं मूत्रजननं क्रियामुग्रां विवर्जयेत्
कोष्णे जात्या वराया वा क्वाथे शिश्नं निमज्जयेत्
वेदनोपशमस्तेन व्याधेश्च बलसंक्षयः
आभानिर्यासतोयञ्च यवक्षारयुतं पिबेत्
सजलं क्षीरमामं वा व्रणमेहनिवृत्तये
पिबेद्वा शारिवाक्वाथं सक्षारनरसारकम्
श्यामामनन्तां कट्वीञ्च बीजं गोक्षुरसम्भवम्
गन्धाश्मनरसाराभ्यां क्वाथयित्वा जलं पिबेत्
एकं सुरप्रियफलं मेहमागन्तुकं हरेत्
वराभापिप्पलीनाञ्च व्रणमेहनिवृत्तये
कुर्यादुत्तरबस्तिञ्च कषायेण प्रयत्नतः
महाभ्रवटिकौ कन्दर्परसश्चात्र प्रयोज्यः
===============
अथ शीर्षाम्बुरोगाधिकारः १६

निदानं सम्प्राप्तिश्च
मद्यातिपानादतिशैत्ययोगाद्विरुद्धभोज्यादनिलप्रदोषात्
दुष्टाम्बुपानादभिघाततश्च तथाऽन्त्रमध्ये क्रिमिसम्भवाच्च
शिरोगतस्नेहवृतौ क्रमेण सञ्चीयते तोयमतिप्रभूतम्
शीर्षाम्बुनामागद एष पूर्वैः प्रकीर्त्तितः कृच्छ्रतरो भिषग्भिः
प्रायशः शैशवे व्याधिर्विविधाहितसेवनात्
तथा दन्तोद्गतेरेष बाहुल्येनाभिजायते
तस्य पूर्वरूपम्
जिह्वा लिप्ताऽतिनिद्र त्वं दौर्बल्यं श्वासपूतिता
गाढविट्ता च तस्मिंस्तु भविष्यति भविष्यति
तस्य लक्षणम्
शिरसो वेदना घोरा श्रुतेर्दृष्टेश्च तीक्ष्णता
मूत्राल्पत्वं कृष्णविट्त्वं धमनी वेगवाहिनी
त्वग्रूक्षोष्णा तथा छर्दिर्विषमा च कनीनिका
कोपित्वं मुखवैवर्ण्यं निद्रा यां दन्तघर्षणम्
कण्डूरोष्ठस्य नासाया आक्षेपो रक्तनेत्रता
पक्षाघातः प्रलापश्च शीर्षाम्बुगदलक्षणम्
ग्रन्थान्तरे शीर्षाम्बुनिदानञ्च
दुष्टं जलन्त्वतिहिमं विकृतं समीरं
क्लिन्नं विरुद्धमशनं भजतां शिशूनाम्
शीर्षेऽभिघातपतनात् क्रिमिदोषतश्च
सञ्चीयते शिरसि तोयमनल्पमात्रम्
पूर्वरूपम्
पूर्वरूपं भवत्यस्य निद्रा धिक्यं बलक्षयः
दुर्गन्धिश्वासवायुश्च काठिन्यं शकृतस्तथा
लक्षणम्
तीव्रा रुजा मूर्द्धनि सर्वदैव
मूत्राल्पताच्छर्दिरथोष्णता च
वैवर्ण्यमास्यस्य मलस्य कार्ष्ण्य
मालोहितं स्यादपि नेत्रयुग्मम्
नासौष्ठकण्डूयनपक्षघातावाक्षेपकश्चैव रदप्रघर्षः
वेगं च धत्ते धमनी प्रकामं शीर्षाम्बुरोगस्य तु चिह्नमेतत्
चिकित्सा
भेषजं रेचनं यच्च यन्मूत्रस्य प्रवर्त्तनम्
रक्तदोषहरं यच्च तच्छीर्षाम्बुगदे शुभम्
मुण्डयित्वा शिरस्तच्च छादयेदुष्णवाससा
पाययेन्नारिकेलस्य स्नेहञ्चापि निरन्तरम्
सेवयेद्र सचूर्णञ्च स्तोकमात्रं विचक्षणः
पीतमूलद्यं त्रिवृच्छ्यामे पथ्यामामलकीं शटीम्
अनन्तां मधुकं मुस्तां धान्याकं कटुरोहिणीम्
हरिद्रे द्वे त्रिजातञ्च क्वाथयित्वा यथाविधि
यवक्षारेण सहितं पाययेदस्य शान्तये
सलिलशोषणचूर्णैं कुङ्कुमाद्यं घृतम्
बह्निभास्वरोरसैः रसतैलञ्चात्र प्रयोज्यम्
नैव शान्तिं गते व्याधौ मस्तिष्कात् सलिलं हरेत्
त्रिकूर्च्चकेन लघुना यत्नतः कुशलो भिषक्
=================
अथ मस्तिष्कवेपनाधिकारः १७

निदानं लक्षणञ्च
शिरस्यभिहते तैस्तैर्मूर्च्छाहृल्लासवान्तयः
जडत्वं स्पन्दनं ह्रासो दौर्बल्यं चलचित्तता
वेपथुः कर्णनादश्च मलिनत्वं मुखस्य च
पृथुत्वं तारकायाश्च धमनी बलवर्जिता
शीतलत्वं शरीरस्य वैकृतं वचनस्य च
तथा पक्षवधः स्याच्च गदोऽसौ शीर्षवेपनः
अस्य चिकित्सा
मनः स्थैर्यकरं कर्म कार्यं मस्तिष्कवेपने
शिरस्युष्णेऽतिशीतेन तोयेन सेचनं हितम्
मस्तिष्कवेपनध्वंसि दन्तीस्नेहेन रेचनम्
सजला बललाभाय मृतसञ्जीवनी सुरा
प्रयोत्तव्या यथामात्रं बल्यमन्यच्च भेषजम्
बह्व्यूष्मणा हरेच्छैत्यमङ्गानां कुशलो भिषक्
त्रिवृतां स्वर्णपत्रीञ्च मुस्तकं मधुकं बलाम्
हरिद्रे द्वे नागरञ्च त्रिफलां कटुरोहिणीम्
क्वाथयित्वा प्रयोक्तव्यं शीर्षवेपनशान्तये
बलाक्वाथेन सिन्दूरं शीर्षवेपथुनाशनम्
वातव्याधिहरं सर्वं भेषजं तस्य शान्तिकृत्
==============
अथ मस्तिष्कचयापचयाधिकारः १८

निदानं लक्षणं च
देहस्वभावाद् दिष्ट्या च वर्द्धते मस्तुलुङ्गकः
करोटिरपि बालानां यूनाञ्चापि कदाचन
मस्तिष्कस्य करोटेश्च यदि वृद्धिर्द्वयोर्भवेत्
न चिह्नं दृश्यते किञ्चित् प्रायशः समवर्द्धनात्
मस्तिष्कस्यैव चेद् वृद्धिर्न करोटेस्तथा भवेत्
तदा निपीडनात् तस्य जायन्ते विविधा रुजः
शिरसोऽतिरुजा तीव्रा दौर्बल्यं भ्रममूर्च्छने
पक्षाघातस्तथाक्षेपस्ततो मरणमेव च
ह्रासमायति मस्तिष्कं देहदोषाददृष्टतः
एकपार्श्वे ह्रसेत् तच्चेन्न शीघ्रं जीवनक्षयः
समन्ताद्ध्रासतस्तस्य प्राणान्तस्त्वरया भवेत्
वृद्धेश्चिकित्सा
मस्तुलुङ्गस्य संवृद्धिर्जायते मरणाय हि
नौषधं तत्र चेत् सेव्यं तथाऽपि च रसायनम्
पेयमत्र पञ्चगव्यं घृतं मधुयुतं तथा
ह्रासस्य चिकित्सा
मस्तिष्कस्य यदि ह्रासो मरणायैव जायते
तथाऽप्यत्र सदा सेव्यं भेषजं परिबृंहणम्
अत्र वातामयोक्तानि तैलानि च घृतानि च
अपस्मारगदोक्तानि तथा सेव्यानि सर्वदा
तथा चन्दनादिक्वाथः प्रयोज्यः
==============
अथांशुघाताधिकारः १९

निदानं लक्षणञ्च
चण्डांशोरंशुना शीर्ष्णि तप्ते चण्डेन जायते
अंशुघाताभिधो व्याधिः प्राणिनां प्राणपीडनः
तृष्णाऽतिघोरा त्वग्रूक्षा भ्रमो नेत्रस्य रक्तता
मूत्रवेगश्च मूर्च्छायो हृल्लासो विषमा धरा
श्वासकृच्छ्रे स्पर्शहानिराक्षेपश्चात्र सम्भवेत्
प्रायः कारावरुद्धानां भटानां जायते च सः
नीलिमा हस्तपादस्य धमन्याः क्षणलुप्तता
विक्षेपणञ्च गात्राणां मरणायांशुघातिनः
अस्य चिकित्सा
अस्यारिष्टलक्षणम्
अङ्गावरणवासांसि दूरे निक्षिप्य यत्नतः
प्रच्छाये प्रवहद्वाते गन्धाढ्ये मनसः प्रिये
विविक्ते व्यक्तनभसि विहङ्गगणनादिते
शाययेत् सुखशय्यायामंशुघातिनमञ्जसा
ततस्तस्य हरेत् खेदं तालवृन्तभवानिलैः
शीताम्बुसेकं कुर्य्याच्च चन्दनाम्बु च पाययेत्
नाधिकं पाययेदम्बु सहसा कुशलो भिषक्
आच्छादयेत्सर्वमङ्गं शीततोयार्द्र वाससा
सहस्रधारया स्नानमंशुघातगदापहम्
दन्त्युद्भवेन तैलेन रेचनं हितमुच्यते
अत्युष्णेनाम्भसा सिक्तं वस्त्रमूर्णामयं पृथु
ततो निहृततोयञ्च श्रीवासपृषतावृतम्
उष्णमेव च घाटायां निधायान्येन वाससा
शुष्केण वाऽपि कदलीदलैर्नातिदृढं हि तत्
बद्ध्वाऽतिदाहं यावच्च संरक्षेदतियत्नतः
अनेन विधिना मूर्च्छा नश्यत्येव हि सत्वरम्
अङ्गानामूष्मणो नाशे धमन्याश्च व्यतिक्रमे
स्वेदो विधेयो योज्या च मृतसञ्जीवनी सुरा
अंशुघाते प्रकर्त्तव्यो विधिर्मूर्च्छानिषूदनः
अंशुघाते निवृत्तेऽपि मिथ्याहारविहारिणः
अपस्मारादयः प्रायो जायन्ते बहवो गदाः
तन्मुक्तोऽतो हितं नित्यं सेवेताबललाभतः
मनः प्रीतिप्रदं कर्म विदधीत निरन्तरम्
रत्नेश्वरो रसः महाशिशिरपानकमत्र प्रयोज्यम्
=================
अथ बाधक स्त्रिई!रोगइ! रोगाधिकारः २०

लक्षणम्
रक्तमाद्री तथा षष्ठ्यङ्कुरो जलकुमारकः
बाधका इति चत्वारः प्रजाजननबाधकाः
रक्तमाद्र या! लक्षणम्
व्यथा कट्यां तथा नाभेरधः पार्श्वे स्तनेऽपि च
रक्तमाद्री प्रदोषेण जायते फलहीनता
मासमेकं द्वयं वाऽपि ऋतुयोगो भवेद् यदि
रक्तमाद्री प्रदोषेण फलहीना तदा भवेत्
षष्ठ्या लक्षणम्
नेत्रे हस्ते भवेज्ज्वाला योनौ चैवं विशेषतः
लालासंयुक्तरक्तञ्च षष्ठीबाधकयोगतः
मासैकेन भवेद् यत्र ऋतुस्नानद्वयं तथा
मलिना रक्तयोनिः स्यात् षष्ठीबाधकयोगतः
अङ्कुरस्य लक्षणम्
उद्वेगो गुरुता देहे रक्तस्रावो भवेद् बहुः
नाभेरधो भवेच्छूलं चाङ्कुरः स तु बाधकः
ऋतुहीना चतुर्मासं त्रिमासं वा भवेद् यदि
कृशाङ्गा करपादे च ज्वाला चाङ्कुरयोगतः
जलकुमारस्य लक्षणम्
सशूला च सगर्भा च शुष्कदेहाऽल्परक्तिका
जलकुमारदोषेण जायते फलहीनता
या कृशाङ्गी भवेत् स्थूला बहुकालमृतुस्तथा
गुरुस्तनी स्वल्परक्ता जलकुमारदूषणात्
गर्भे जातेऽपि तस्य पतनं स्यात्
बाधकस्य चिकित्सा
रसाञ्जनं विडं वह्निं शीतेन पयसा सह
पीत्वा बाधकरोगेण सद्यो नारी प्रमुच्यते
मरिचेन प्रजावत्या मूलं शीताम्भसा सह
पीत्वा बाधकनिर्मुक्ता नारी गर्भं दधाति हि
अन्तर्भवन्ति व्यापत्सु योनेः सर्वेऽपि बाधकाः
अतस्तासां विधानेन भिषगेतानुपाचरेत्
योनिरोगवती नारी कुर्य्यान्नातिरतौ मतिम्
भूयसीं विकृतिं योनेर्यतः सा जनयेद् ध्रुवम्
=================
अथ योनिकण्ड्वधिकारः २१

निदानम्
योनौ बलासे संक्रुद्धे जरायुविकृतेस्तथा
वस्तिद्वारेऽबुदे जाते दुर्नामगदतोऽपि च
योनेः शिराणां प्रसृतेर्वातवत्याश्च योषितः
रजः प्रवृत्तिसमये पुरुषेणातिसङ्गमात्
गर्भप्रागुद्भवे चापि योनिकण्डूः प्रजायते
वार्धक्य एव नारीणां सा बाहुल्येन संभवेत्
लक्षणम्
योनौ कण्डूश्च तोदश्च रौक्ष्यं शुष्कत्वमेव च
योनिकण्डूगदस्यैतल्लक्षणं भिषजो विदुः
उष्णानुपशयो व्याधिः शीतोपशय एष हि
तस्याश्चिकित्सा
योनिकण्डूगदे देयमादौ स्निग्धविरेचनम्
भेषजं रक्तदोषघ्नं बलदायि रसायनम्
अतस्तु सारिवां लोध्रं त्रिवृतामिभपिप्पलीम्
क्वाथयित्वा पिबेत् तोयं योनिकण्डूप्रशान्तये
योनिकण्डूगदे योनौ शीततोयाभिषेचनम्
स्नेहस्वेदश्च कर्त्तव्यो वस्तिश्चोत्तरसंज्ञितः
योनिव्यापद्गदोक्तानि भेषजानीह योजयेत्
तथा च
शिवकरी वटीऐ! टङ्कणादिचूर्णमपि देयम्
===============
अथ योन्याक्षेपाधिकारः २२

निदानं लक्षणञ्च
मारुते विगुणे योनौ स्पर्शस्यातिप्रवृद्धता
विक्षेपणं मुखस्यास्यास्तत्स्पर्शे तीव्रवेदना
योन्याक्षेपवती नारी न सहेत रतिक्रियाम्
यदि गच्छेद्वलाद् भर्त्ता तां साति व्यथिताभवेत्
नोपसर्पति भर्त्तारं सदा साध्वसविह्वला
पत्या तिरस्कृता दुःखान् मृत्युमात्मन इच्छति
उद्वेगो वह्निहानिश्च निद्रा ऽल्पत्वं तथा क्रमात्
बस्तिदाहो व्यथा पृष्ठेऽशक्तिश्चङ्क्रमणेऽपि च
दौर्बल्यं वर्णहानिश्च तथोत्साहस्य सङ्क्षयः
योन्याक्षेपगदस्यैताः प्रोक्ता आकृतयो बुधैः
चिकित्सा
नागदेन गदः साध्यः शस्त्रेणायं प्रसाध्यते
शस्त्रं प्रयोजयेदत्र भिषक् शस्त्रविशारदः
पाययित्वा सुरां तीव्रां गदिनीं सव्यशायिनीम्
उत्तानामथवा कृत्वा योनौ शस्त्रं प्रवेश्य च
ह्रीमन्तं त्वरयाच्छिद्य मुखं योनेर्विदार्य च
तूलेनारुध्य बध्नीयाल्लघुहस्तचिकित्सकः
अवरोधे तु मूत्रस्य वर्त्तयेत् तच्छलाकया
वेदनां वारयेद् वैद्यः फणिफेनप्रयोगतः
पुनर्घस्रद्वयान्ते तां पाययित्वा सुरां भिषक्
तूलं निःसार्य योनिस्थं मुखं योनेः प्रसार्य च
तदधः कर्त्तनं कुर्यादङ्गुल्यर्धप्रमाणतः
इत्येवं कर्मणा व्याधिर्योन्याक्षेपः प्रशाम्यति
==============
अथ जरायुरोगाधिकारः २३

निदानम्
नैरन्तर्येण गर्भस्य सम्भवात् स्रावतोऽस्य च
शैत्यादाद्रा र्!भिवासाच्च पापोपदंशतस्तथा
अतिव्यवायतः पापमेहिना सह सङ्गमात्
जरायुरोगो जायेत लक्ष्माण्यस्य निशामय
लक्षणम्
ज्वरोऽग्निमान्द्यमास्यस्य नीलत्वं त्रिकतोदनम्
व्यथा निम्नोदरे बस्तावुष्णत्वं गौरवं तथा
मुहुर्मूत्रप्रवृत्तिश्च योनितः क्लेदसंस्रुतिः
मलस्यातिप्रवृत्तिश्च ततस्तद्रो ध एव च
दुर्नामानि च दौर्बल्यं शिरोरुग् वमथुस्तथा
जरायुरोगे जायन्ते आकारा एवमादयः
चिकित्सा
जरायुरोगे प्रथमं देयं स्निग्धं विरेचनम्
हितोऽत्रोत्तरबस्तिश्च सुखोष्णेनाम्भसा तथा
अधोदेहस्य सलिले चोष्णे संमज्जनं हितम्
अतसीबीजकल्केन तप्तेन सह सर्पिषा
पुटलेपो हितः प्रोक्त उदराधो मनीषिभिः
नारिकेलजतैलेन रससिन्दूरसेवनम्
जरायुरोगं शमयेत् तथा पथ्यानुवर्त्तनम्
प्रमदानन्दो रसः शारिवादि चूर्णञ्च सेवेत
================
अथाण्डाधारगदाधिकारः २४

निदानम्
रमणातिशयाच्छैत्यादभिघाताद्विषादपि
अण्डाधारगदः कृच्छ्रो जायते चाहिताशनात्
लक्षणम्
उदरोरुव्यथा कृच्छ्रा मूत्रस्याल्पत्वरक्तते
ज्वरारोचकहृल्लासा अरतिर्बलसंक्षयः
धमनी वेगिनी क्षुद्रा जिह्वा रक्तोज्ज्वला तथा
अण्डाधारगदस्यैताः प्रोक्ता आकृतयो बुधैः
चिकित्सा
बलप्रवर्द्धकं यद् यत् पवनस्यानुलोमनम्
अण्डाधारगदे तत्तत् प्रयोक्तव्यं भिषग्वरैः
पटोलादिक्वाथः योषिद्वल्लभो रसः चन्दनाद्यं चूर्णमपि प्रदातव्यम्
विषञ्च मधुना देयमण्डाधारगदे हितम्
===============
अथौजोमेहाधिकारः २५

निदानं लक्षणञ्च
अभिघाताग्निमान्द्यामवाताजीर्ण विषूचिका
विषमज्वरशोथाद्यैर्यक्ष्मकासादिभिस्तथा
वृक्कयोः शोणितस्रोतोविकृतेरस्रदोषतः
लसीकाशुक्रपूयास्रैर्युक्ते मूत्रे तथा नृणाम्
स्त्रीणां गर्भागमे चैव कटुकक्षारवर्ज्जितैः
मधुरौजस्करद्र व्यभक्षणैरतिमात्रतः
गुरुपर्युषितानाञ्च भोजनादतिभोजनात्
नवधान्यादिगोधूमहंसडिम्बातिसेवनात्
दूषिते शीतले तोये स्नानपानावगाहनात्
एभिर्निदानैरन्यैश्च दूषितादोजसो भवेत्
ओजोमेहः सः विज्ञेय आयुर्बलनिकृन्तनः
शारीरिकश्रमवशात् तथाऽन्येनैव हेतुना
द्रुतं शोणितसञ्चारात् प्रवृत्तेश्च विपर्ययात्
ओजोविकृतिमापन्नं हंसाण्डश्वेतभागवत्
पिष्टतण्डुलवद्वाऽथ सह मूत्रेण संस्रवेत्
मेदःक्षयो भवेत्तत्र ज्वरारोचकयोस्तथा
शोथेग्निमान्द्ये सञ्जाते गदोऽसाध्यो न संशयः
अन्यथा कृच्छ्रसाध्योऽसौ यत्नाज्जीवति मानवः
चिकित्सा
विचार्य दोषदूष्यादीन् निदानं परिवर्ज्जयेत्
चिकित्सेत गदाक्रान्तं दोषदूष्यानुसारतः
अयःप्रधानमगदं हितमत्र विशेषतः
वर्ज्जनीयं रसोद्भूतमौषधं शिवमिच्छता
ओजोह्रासजदौर्बल्यं दूरीकुर्यात् प्रयत्नतः
चन्दनादिक्वाथः अजमोदादिचूर्णम्
चन्दनासव इत्यादिकं देयम्
यथा चन्दने नलदं द्रा क्षा गुडूची मधुकं शटी
धात्री च क्वाथ एतेषामोजोमेदोपशान्तिकृत्
तथा हारिद्र माञ्जिष्ठमेहादीनां परौषधम्
सोपद्र वाणां कथितः कृपाद्रे र्णै!व शम्भुना
दाडिमाद्यं घृतं चन्द्र प्रभा नाम वटी तथा
मुक्तावङ्गेश्वरश्चैव वसन्तकुसुमाकरः
चन्दनाद्यासवोऽरिष्टो देवदारुसमुद्भवः
प्रमेहमिहिरं तैलं तथा मेहाधिकारिकम्
अगदं चात्र युञ्जीत नित्यं कुशलमिच्छता
==========
योन्यङ्कुरवृद्ध्य्धिकारः २६

निदानम्
दुष्टवातेन रक्तस्य दोषाच्च करकर्मणा
योन्यङ्कुरस्य संवृद्धिर्जायते परमोत्कटा
चिकित्सा
रोगिणीं चेतनाहीनां कृत्वा च्छिन्द्याद् भगाङ्कुरम्
बध्नीयादपि बन्धन्या पथ्येनैताञ्च वर्त्तयेत्
===========
अथ लसिकामेहाधिकारः २७

निदानं लक्षणं च
मधुराणां फलानाञ्च मूलानाञ्च गुडोद्भुवाम्
द्र व्याणाञ्चातियोगाच्च तथैवातिपरिश्रमात्
मानसश्रमशीलानां वर्ज्जयित्वा तु कायिकम्
गुरुपर्य्युषितक्लिन्नाभिष्यन्दिद्र व्यभोजनात्
आनूपमत्स्यमांसादि भोजनादतिभोजनात्
एभिर्निदानैः सन्दुष्टो यकृत् पक्वाशयस्तथा
वृक्कयोर्मूत्रकोषे च जनयित्वा क्षतं ततम्
मूत्रमार्गेण तरलं पूयरक्तादिसन्निभम्
समेदस्कं सलसिकं नराणां स्रावयेन्मुहुः
सालक्तकपयस्तुल्यं मूत्रं सम्यक् प्रवर्त्तयेत्
कदाचिज्जायते मूत्रं पूयरक्तादिभिर्घनम्
स्थूलसूत्रनिभं तस्मादधिका जायते व्यथा
दोषदूष्यादिभेदेन मूत्रस्य ह्रासवर्द्धने
तथा वर्णविभेदश्च जायते मेहिनः सदा
वातिकस्य लक्षणम्
वातजे लसिकामेहे चाम्लगन्धि सशोणितम्
आमिक्षाजलवन्मूत्रं मुहुर्मूत्रयते नरः
विश्लिष्टाः सन्धयस्तस्मिन् मलं सम्यङ् न निःसरेत्
पैत्तिकमाह
घनं सपूयं मूत्रञ्च पैत्तिकेऽधिकपूतिमत्
जायते चास्य वैरस्यं सन्तापः करपादयोः
श्लैष्मिकमाह
श्लैष्मिके लसिकामेहे मूत्रं शुक्लं तथाविलम्
तथा पर्युषिते तस्मिन्नुपर्यच्छमधो घनम्
क्षुन्नाशो वङ्क्षणकटिव्यथा सम्यक् प्रजायते
द्वित्रिदोषजमाह
द्वित्रिदोषभवे मेहे मिश्रं लक्षणमीक्ष्यते
साध्यासाध्यम्
सुसाध्योऽसौ भवेद्यूनामल्पकालभवो गदः
नो चेदसाध्यो दुःसाध्यो भवेदेव न संशयः
कदाचित् प्रबलीभूय प्रशाम्येत् पथ्यसेवनात्
ततः पुनर्वर्द्धमानः कालात् कालवशं नयेत्
चिकित्सा
तिन्दु बिल्वं विडङ्गञ्च व्याघ्री धात्री च जाम्बवी
बब्बूलं लोहितञ्चैव खदिरं रक्तचन्दनम्
एषां क्वाथो हरेन्मेहं लसिकाख्यं सुदारुणम्
तथा माञ्जिष्ठमेहादिनानोपद्र वसंयुतम्
सोमनाथरसो हेमनाथो वङ्गेश्वरस्तथा
चन्द्र प्रभाख्यागुटिका तथैव चन्दनासवः
तैलं पल्लवसाराख्यं श्रीगोपालाभिधं तथा
युञ्ज्याद् युक्त्यनुसारेण व्याधौ चास्मिन् प्रयत्नतः
============
अथ सोमरोगाधिकारः २८

निदानं लक्षणं च
स्त्रीणामतिप्रसङ्गाद्वा शोकाच्छ्रमविवर्जनात्
आभिचारिकदोषाच्च गरदोषात्तथैव च
आपः सर्वशरीरेभ्यः क्षुभ्यन्ति प्रस्रवन्ति च
तस्मात्ताः प्रच्युताः स्थानान्मूत्रमार्गे व्रजन्ति च
प्रसन्ना विमलाः शीताः ससिता नीरुजः सिताः
स्रवन्ति चातिमात्रन्तु दौर्बल्यं गतिहीनता
शिरसः शिथिलत्वं च मुखतालुविशोषणम्
सोमरोग इति ज्ञेयो देहे सोमक्षयान्नृणाम्
सोऽतिक्रान्तंक्रमेणैव स्रवेन्मूत्रमभीक्ष्णशः
मूत्रातिसारमप्येवं तमाहुर्बलनाशनम्
तेन तृष्णाऽभिभूतोऽसौ जलं पिबति चाधिकम्
मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतः
भक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदा
चिकित्सा
कदलीनां फलं पक्वं धात्रीफलरसं मधु
शर्करापयसा पीतमपां धारणमुत्तमम्
कदलीनां फलं पक्वं विदारीञ्च शतावरीम्
क्षीरेण पाययेत् प्रातरपां धारणमुत्तमम्
धात्रीफलस्य रसकं मधुना च पिबेत् सदा
बहुमूत्रक्षयं कुर्य्यात् क्षारेण वासकस्य च
तालकन्दञ्च तरुणं खर्जूरं कदलीफलम्
पयसा पाययेत् प्रातर्मूत्रातीसारनाशनम्
माषचूर्णं समधुकं विदारी शर्करा मधु
पयसा पाययेत् प्रातः सोमरोगविनाशनम्
अहिफेनप्रयोगेण मूत्ररोधो भवेद् ध्रुवम्
कदल्यादिघृतैं धात्रीघृतैं प्रमेहमिहिरतैलं पल्लवसारतैलैं सोमनाथ हेमनाथ
तारकेश्वररसाश्च वसन्तकुसुमाकररसादीनि भेषजानि चात्र प्रयोज्यानि
=============
अथ शातातपोक्तपापजरोगकथनाधिकारः २९

महापापोद्भवा रोगाः
कुष्ठञ्च राजयक्ष्मा च प्रमेहो ग्रहणी तथा
मूत्रकृच्छ्राश्मरीकासा अतीसारभगन्दरौ
दुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम्
इत्येवमादयो रोगा महापापोद्भवाः स्मृताः
उपपापोद्भवा रोगाः
जलोदरयकृत्प्लीहशूलरोगव्रणानि च
श्वासाजीर्णज्वरच्छर्दिभ्रममोहगलग्रहाः
रक्तार्बुदविसर्पाद्या उपपापोद्भवा गदाः
पापसमुद्भवा रोगाः
दण्डापतानकश्चित्रवपुः कम्पविचर्च्चिकाः
वल्मीक पुण्डरीकाद्या रोगाः पापसमुद्भवाः
अतिपापोद्भवा रोगाः
अर्श आद्या नृणां रोगाः अतिपापाद्भवन्ति हि
रोगाणां पापोद्भवत्व निर्देशः
न पापेन विना दुःखं व्याधयो दुःखदा यतः
अतो रोगा हि निखिला पापादेव भवन्ति हि
============
अथ ध्वजभङ्गाधिकारः ३०

क्लीबस्य लक्षणं भेदाश्च
क्लीबः स्यात्सुरताशक्तस्तद्भावः क्लैब्यमुच्यते
तच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यते
मानसमाह
तैस्तैर्भावैरहृद्यैश्च रिरंसोर्मनसि क्षते
ध्वजः पतत्यतो नॄणां क्लैब्यं समुपजायते
द्वेष्यस्त्रीसम्प्रङ्गाच्च क्लैब्यं तन्मानसं स्मृतम्
दोषजमाह
कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः
पित्ताच्छुक्रक्षयो दृष्टः क्लैब्यं तस्मात्प्रजायते
शुक्रक्षयजमाह
अतिव्यवायशीली यो न च वाजिक्रियारतः
ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम्
मेढ्ररोगजमाह
महता मेढ्ररोगेण चतुर्थी क्लीबता भवेत्
शिराच्छेदजमाह
वीर्य्यवाहिक्षिराच्छेदान्मेहनानुन्नतिर्भवेत्
शुक्रस्तम्भनिमित्तकमाह
बलिनः क्षुब्धमनसो निरोधाद्धि बलस्य च
षष्ठं क्लैब्यं स्मृतं तत्तु शुक्रस्तम्भनिमित्तकम्
सहजमाह
जन्मप्रमृति यत्क्लैब्यं सहजं तद्धि सप्तमम्
असाध्यं सहजं क्लैब्यं मर्मच्छैदाच्च यद् भवेत्
स्त्रीनपुंसकलक्षणम्
स्त्रीणामपि भवेत् क्लैब्यं रेतः क्षरणरोधकम्
क्लीबास्तृप्तिं न गच्छन्ति नार्य्यः पुंसङ्गमेन च
ग्रन्थान्तरे क्लैव्य निदानम्
बीजध्वजोपघाताभ्यां जरया शुक्रसंक्षयात्
क्लैब्यं सम्पद्यते तस्य शृणु सामान्यलक्षणम्
संकल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम्
न याति लिङ्गशैथिल्यात् कदाचिद् याति वा यदि
श्वासार्त्तः स्विन्नगात्रश्च मोघसंकल्पचेष्टितः
म्लानशिश्नश्च निर्वीर्य्यः स्यादेतत् क्लैब्यलक्षणम्
शोकचिन्ताभयत्रासात् स्त्रीणां चातिनिषेवणात्
वातादीनां च वैषम्यात् क्लैब्यं समुपजायते
चतुष्पादाभिगमनात् शेफसश्चाभिघाततः
रेतसश्च प्रतीघाताद् ध्वजभङ्गः प्रवर्त्तते
क्लैब्यचिकित्सा
क्लैब्यानामिह साध्यानां कार्य्यो हेतुविपर्ययः
मुख्यं चिकित्सितं यस्मान्निदानपरिवर्जनम्
हरजभुजगलौहं चाभ्रकं वङ्गचूर्णं कनकविजययष्टी शाल्मली नागवल्ली
घृतमधुसितदुग्धं पुष्पधन्वा रसेन्द्रो रमयति शतरामा दीर्घमायुर्बलश्च
कनकादिक्वाथेन भावयित्वा घृतादिभिर्योजयेत्
अश्वगन्धाघृतं चैवामृतप्राशघृतं बृहत्
चन्द्रो दयः सिद्धसूतो मकरध्वज एव च
स्वल्पचन्द्रो दयः कामद्रो पकश्चैव कामिनीः
दर्पघ्नः पूर्णचन्द्र ः! शाल्मलीकल्परसायनम्
कामाग्निदीपनञ्चैव तैलं वै चन्दनादिकम्
ध्वजभङ्गे शुभं च श्रीमदनानन्दमोदकम्
वाजीकरणवृष्योक्तं भेषजञ्च रसायनम्
विशेषेण प्रदातव्यं क्लैब्यदोषप्रशान्तये
============
अथ ज्वरातिसाराधिकारः ३१

ज्वरातिसारलक्षणम्
पित्तज्वरे पित्तभवोऽतिसारस्तथाऽतिसारे यदि वा ज्वरः स्यात्
दोषस्य दूष्यस्य समानभावाज्ज्वरातिसारः कथितो भिषग्भिः
अन्यञ्च ज्वरातिसारयोरुक्तं निदानं यत् पृथक् पृथक्
भवेत्तन्मेलनाद्रो गो ज्वरातीसारसञ्ज्ञकः
चिकित्सा
ज्वरातिसारयोरुक्तं भेषजं यत् पृथक् पृथक्
न तन्मिलितयोः कार्य्यमन्योन्यं वर्द्धयेद्यतः
प्रायो ज्वरहरं भेदि स्तम्भनं त्वतिसारनुत्
अतोऽन्योन्यविरुद्धत्वाद् वर्द्धनं तत् परस्परम्
अन्यच्च
अनुलोमनं ज्वरघ्नं ग्राहकमतिसारहृद् भवति
पृथगुक्तमौषधं तज्ज्वरातिसारे विरुद्धमन्योऽन्यम्
ततस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैः
ज्वरातिसारिणामादौ कुर्याल्लङ्घन पाचने
प्रायस्तावामसम्बन्धं विना न भवतो यतः
ज्वरातिसारपेयादिक्रमः स्याल्लङ्घिते हितः
ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः
अन्यच्च
अतस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैः
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः
समुदीर्णदोषनिचयं तत्पाचयेत्तथा शमयेत्
लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु
उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम्
यथा
पृश्निपर्णीबलाबिल्वधनिकानागरोत्पलैः
ज्वरातिसारयोर्वाऽपि पिबेत्साम्लं शृतं नरः
देयो हितानुपानेन रसो गगनसुन्दरः
अतीसारे ज्वरे चापि शुभा च कनकप्रभा
==============
अथ विविधरोगाधिकारः ३२

वातबलासकज्वर लक्षणम्
नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति
स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी
प्रलेपकज्वरलक्षणम्
प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण वा
मन्दज्वरविलेपी च सशीतः स्यात् प्रलेपकः
अर्द्धाङ्गज्वरस्य लक्षणम्
विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते
तेनार्द्धं शीतलं देहे चार्द्धञ्चोष्णं प्रजायते
रसगतज्वरस्य लक्षणम्
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते
रक्तगतज्वरस्य लक्षणम्
रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ
प्रलापः पिडिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम्
मांसगतस्य ज्वरस्य लक्षणम्
पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
उष्मान्तर्दाहविक्षेपो ग्लानिः स्यान्मांसगे ज्वरे
मेदोगतज्वरस्य लक्षणम्
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता
अस्थिगतज्वरस्य लक्षणम्
भेदोऽस्थ्ना कूजनं श्वासो विरेकश्छर्दि रेव च
विक्षेपणञ्च गात्राणामेतदस्थिगते ज्वरे
मज्जगतज्वरस्य लक्षणम्
तमः प्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
अन्तर्दाहो महाश्वासो मर्म्मभेदश्च मज्जगे
शुक्रगतज्वरस्य लक्षणम्
मरणं प्राप्नुयात् तत्र शुक्रस्थानगते ज्वरे
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः
प्राकृतविकृतज्वरयोर्लक्षणे
वर्षाशरद्वसन्तेषु वाताद्यः प्राकृतः क्रमात्
वैकृतोऽन्य स दुःसाध्यः प्राकृतश्चानिलोद्भवः
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्
कुर्य्यात् पित्तञ्च शरदि तस्य चानुबलः कफः
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद् भयम्
कफो वसन्ते तमपि वातपित्तं भवेदनु
अन्तर्वेगबहिर्वेगयोर्ज्वरयोर्लक्षणे
अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः
सन्ध्यस्थिशूलमस्वेदो दोषवर्च्चोविनिग्रहः
अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्
सन्तापो ह्यधिको बाह्यस्तृष्णादीनाञ्च मार्दवम्
बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च
आमज्वरस्य लक्षणम्
लालाप्रसेको हृल्लासहृदयाशुद्ध्य्रोचकाः
तन्द्रा लस्याविपाकास्यवैरस्यं गुरुगात्रता
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवाञ्ज्वरः
आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम्
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्
पच्यमानज्वरस्य लक्षणम्
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्ष्णम्
निरामज्वरलक्षणम्
क्षुत्क्षामता लघुत्वञ्च गात्राणां ज्वरमार्दवम्
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्
आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणः
मध्यं द्वादशरात्रन्तु जीर्णज्वरमतः परम्
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्र वः
यो द्वादशेभ्यो दिवसेभ्य ऊर्ध्वं दोषत्रयेभ्यो द्विगुणेभ्य ऊर्ध्वम्
नृणां तनौ तिष्ठति मन्दवेगो भिषग्भिरुक्तो ज्वर एष जीर्णः
यः स्यादनियतात्कालाच्छीतोष्मभ्यां तथैव च
वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः
ज्वरस्योपद्र वाः
श्वासो मूर्च्छाऽरुचिश्छर्दिस्तृष्णाऽतीसारविड्ग्रहाः
हिक्काकासाङ्गदाहाश्च ज्वरस्योपद्र वा दश
ज्वरमुक्तेःपूर्वरूपम्
दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भेदसंज्ञिताः
कूजनं गात्रवैगन्ध्यमाकृतिज्वरमोक्षणे
त्रिदोषजे ज्वरे ह्येतदन्तर्वेगे च धातुगे
लक्षणं मोक्षकाले स्यादन्यस्मिन् स्वेददर्शनम्
अभिन्यासज्वरस्य लक्षणम्
दोषास्तीव्रतरा भवन्ति बलिनः सर्वेऽपि यत्र ज्वरे
मोहोऽतीव विचेष्टता विकलता श्वासो भृशं मूकता
दाहश्चिक्कणमाननञ्च दहनो मन्दो बलस्य क्षयः
सोऽभिन्यास इति प्रकीर्त्तित इह प्राज्ञैर्भिषग्भिः पुरा
तथा च
त्रयः प्रकुपिता दोषा उरःस्रोतोऽनुगामिनः
आंमातिवृद्ध्या ग्रथिता बुद्धीन्द्रि यमनोगताः
जनयन्ति महाघोरमभिन्यासं ज्वरं दृढम्
श्रुतौ नेत्रे प्रसुप्तिः स्यान्न चेष्टां काञ्चिदीहते
न च दृष्टिर्भवेत्तस्य समर्था रूपदर्शने
न घ्राणं न च संस्पर्शं शब्दं वा नैव बुध्यते
शिरो लोठयतेऽभीक्ष्णमाहारं नाभिनन्दति
कूजति तुद्यते चैव परिवर्त्तनमीहते
अल्पं प्रभाषते किञ्चिदभिन्यासः स उच्यते
प्रत्याख्यातः स भूयिष्ठः कश्चिदेवात्र सिध्यति
जलसंत्रासरोगमाह
बुद्धिस्थानं यदा श्लेष्मा केवलः प्रतिपद्यते
तदा बुद्धौ निरुद्धायां श्लेष्मणाधिष्ठितो नरः
जाग्रत्सुप्तोऽथवात्मानं मज्जन्तमिव मन्यते
सलिलात्त्रस्यति तदा जलत्रासं तु तं विदुः
श्लेष्मघ्नं तत्र कर्तव्यं शोधनं शमनादिकम्
आहारस्य विधानेन यावत्स प्रकृतिं व्रजेत्
अण्डह्रासरोगमाह
स्वनिदानैः प्रकुपितो वायुर्विगुणतां गतः
अण्डकोषवहां नाडीं प्राप्योर्ध्वं प्रतिकर्षति
समेहनौ तदाऽदृश्यौ भवतो वृषणौ किल
अण्डह्रास इति प्रोक्तो रोगोऽय भृशदारुणः
नाभिभ्रंशरोगमाह
नाभिस्थाने शिराग्रन्थिर्यश्च स्फुरति सर्वदा
तिर्यगूर्ध्वमधश्चेत्स विचलेद्वायुना सदा
तदा स्युर्वातजा रोगा वान्तिरूर्ध्वगते भवेत्
अधोगते त्वतीसारो मन्दाग्नित्वं ज्वरस्तथा
तिर्यग्गतेऽग्निमान्द्यं च वातजाश्चापरे गदाः
पिडिकोद्वेष्टनं चैव भृशं स्यात्कटिवेदना
शुक्रदोषमाह
वातपित्तश्लेष्मशोणितकुणपगन्ध्यनल्पग्रन्थिपूतिपूयक्षीणरेतसः प्रजोत्पादने न समर्था भवन्ति तत्र वातवर्णवेदनंवातेनै पित्तवर्णवेदनं पित्तेनै श्लेष्मवर्ण-वेदनंश्लेष्मणौ शोणितवर्णपित्तवेदनं रक्तेनै कुणपगन्ध्यनल्पं च रक्तेनै ग्र-न्थिभूतं श्लेष्मवाताभ्यौं पूयपूतिनिभं श्लेष्मपित्ताभ्यौंक्षीणं शुक्रं प्रागुक्तं पि-
त्तमारुताभ्यौं पूयमूत्रपूरीषगन्धिसर्ववर्णवेदनं सन्निपातेनेति
तेषु कुणपगन्धिग्रन्थिपूतिक्षीणरेतसः कृच्छ्रसाध्याः मूत्रपूरीषगन्धिरेतसस्त्वसाध्यौः साध्यमन्यच्चेति
आर्त्तवदोषमाह
आर्त्तबमपि त्रिभिर्दोषैः शोणितचतुर्थैः पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति तदपि दोषवर्णवेदनादिभिर्विज्ञेयम्
तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं साध्यमन्यद् भवति
स्नायुकरोगमाह
शाखासु कुपिता दोषाः शोथं कृत्वा विसर्पवत्
भिन्दन्ति तत्क्षते तत्र सोष्ममांसं विशोष्य च
कुर्युस्तन्तुनिभं जीवं वृत्तं सितद्युतिं बहिः
शनैः शनैः क्षताद् याति छेदात्कोपमुपैति च
तत्पाताच्छोफशान्तिः स्यात्पुनः स्थानान्तरे भवेत्
स स्नायुक इति ख्यातः क्रियोक्ता तु विसर्पवत्
बाह्वोर्यदि प्रमादेन जङ्घयोस्त्रुट्यते क्वचित्
सङ्कोचं खञ्जतां चैव छिन्नस्तन्तुः करोत्यसौ
रक्ताक्षोरक्तकान्तिः समधिकदहनः सर्वजः सर्वलिङ्गो
रोगोऽसावष्टधेत्थं मुनिभिरभिहितः स्नायुकस्तन्तुकीटः
वातेन श्यावरूक्षः सरुगथ दहनान्नीलपीतः सदाहो
यः श्वेतः श्लेष्मणा स्यात्पृथुगरिमयुतो दोषयुग्माद् द्विलिङ्गः
फिरङ्गरोगमाह
फिरङ्गसंज्ञके देशे बाहुल्येनैव यद् भवेत्
तस्मात्फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः
निदानम्
गन्धरोगः फिरङ्गोऽय जायते देहिनां ध्रुवम्
फिरङ्गिणोऽङ्गसंसर्गात्फिरङ्गिण्याः प्रसङ्गतः
व्याधिरागन्तुजो ह्येष दोषाणामत्र संक्रमः
भवेत्तल्लक्षयेत्तेषां लक्षणैर्भिषजांवरः
फिरङ्गस्त्रिविधो ज्ञेयो वाह्यश्चाभ्यन्तरोऽपरः
वहिरन्तर्भवश्चापि तेषां लिङ्गानि च ब्रुवे
तत्र बाह्यः फिरङ्गः स्याद्विस्फोट सदृशोऽल्परुक्
स्फुटितो व्रध्नवद् वैद्यैः सुखसाध्योऽपि वा स्मृतः
सन्धिष्वाभ्यन्तरः सः स्यादामाघातोपमत्यथः
शोथं च जनयेदेव कष्टसाध्यो बुधैः स्मृतः
उपद्र वानाह
कार्श्यं बलक्षयो नासाभङ्गो वह्नेश्च मन्दता
अस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्र वा अमी
साध्यासाध्यत्वमाह
बहिर्भवो भवेत्साध्यो नवीनो निरुपद्र वः
आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः
बहिरन्तर्भवो जीर्णः क्षीणस्योपद्र वैर्युतः
व्याप्तो व्याधिरसाध्योऽयमित्याहुर्भिषजः पुरा
फिरङ्गचिकित्सा
फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः
अवश्यं नाशयेदेतदूचुः पूर्वचिकित्सकाः
लिख्यते रसकर्पूरप्राशने विधिरुत्तमः
अनेन विधिना खादेन्मुखे शोथं न विन्दति
गोधूमचूर्णं सन्नीय विदध्यात्सूक्ष्मकूपिकाम्
तन्मध्ये निक्षिपेत्सूतं चतुर्गुञ्जामितं भिषक्
ततस्तु गुटिकां कुर्यात् यथा न दृश्यते बहिः
सूक्ष्मचूर्णैर्लवङ्गस्य तां वटीमवधूलयेत्
दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत्
ताम्बूलं भक्षयेत्पश्चाच्छाकाम्ललवणांस्त्यजेत्
श्रममातपमध्वानं विशेषात् स्त्रीनिषेवणम्
पारदरोगनिदानम्
शुद्धो रसोऽमृतं साक्षादशुद्धस्तु स्मृतो विषम्
अयुक्तियुक्तो रोगाय युक्तियुक्तो रसायनः
विधिवत्सेव्यमानोऽय निहन्ति सकलामयान्
तस्य मिथ्योपचारेण भवन्त्येते महागदाः
पीनसो नासिकाभङ्गो दन्तपातः शिरोव्यथा
भगन्दरो विसर्पश्च नेत्ररोगो मुखामयः
कोठः कण्डूस्त्वचावर्णहानिर्नासादिषु क्षतम्
कुष्ठोपदंशचिह्नानि गात्रेषु विविधानि हि
ग्रन्थिवच्छोथकाठिन्यं सरुजं फलकोषयोः
पक्षाघातो ग्रन्थिवातः प्रदाहोऽस्थ्नाञ्च दारुणः
जाड्यं मनोविकारश्च सर्वे कृच्छ्रतमा गदाः
भवन्ति तत्र कर्तव्यं यथायुक्तञ्च भेषजम्
शीतलानिदानम्
देव्या शीतलयाक्रान्ता मसूर्यः शीतला बहिः
ज्वरयेयुर्यथा भूताधिष्ठितो विषमज्वरः
ताश्च सप्तविधाः ख्यातास्तासां भेदान् प्रचक्ष्महे
ज्वरपूर्वा बृहत्स्फोटैः शीतला बृहती भवेत्
बृहतीशीतलालक्षणम्
सप्ताहान्निस्सरत्येव सप्ताहात्पूर्णतां व्रजेत्
ततस्तृतीयसप्ताहे शुष्यति स्खलति स्वयम्
कोद्र वालक्षणम्
वातश्लेष्मसमुद्भूता कोद्र वा क्रोद्र वाकृतिः
कश्चित्तां प्राह पक्वेति सा तु पाकं न गच्छति
जलशूकवदङ्गानि सा विध्यति विशेषतः
सप्ताहाद्वा दशाहाद्वा शान्तिं याति विनौषधम्
पाणिसहालक्षणम्
ऊष्मणा सूक्ष्मजारूपा सकण्डूः स्पर्शनप्रिया
नाम्ना पाणिसहा ख्याता सप्ताहाच्छुष्यति स्वयम्
सर्षपिकालक्षणम्
चतुर्थी सर्षपाकारा पीतसर्षपवर्णिनी
नाम्ना सर्षपिका ज्ञेयाऽभ्यङ्गमत्र विवर्जयेत्
राजिकालक्षणम्
किञ्चिदूष्मनिमित्तेन जायते राजिकाकृतिः
एषा भवति बालानां सुखं च शुष्यति स्वयम्
मसूरिकालक्षणम्
कोठवज्जायते षष्ठी लोहितोन्नतमण्डला
ज्वरपूर्वा व्यथायुक्ता ज्वरस्तिष्ठेद्दिनत्रयम्
स्फोटानां मेलनादेषा बहुस्फोटाऽपि दृश्यते
द्वितीय मसूरिकालक्षणम्
एकस्फोटा च कृष्णा च बोद्धव्या चर्मजाभिधा
शीतलायाः शमनोपायः
शीतलासु क्रियाकार्या शीतला रक्षया सह
बध्नीयान्निम्बपत्राणि परितो भवनान्तरे
कदाचिदपि नो कार्यमस्पृश्यस्य प्रवेशनम्
स्फोटेष्वधिकदाहेषु रक्षा रेणूत्करो हितः
चन्दनं वासको मुस्तं गुडूची द्रा क्षया सह
एषां शीतकषायस्तु शीतलाज्वरनाशनः
जपहोमोपहारश्च दानस्वस्त्ययनार्चनैः
विप्रगोशम्भुगौरीणां पूजनैस्ताः शमं नयेत्
स्तोत्रं च शीतलादेव्याः पठेच्छीतलिनोऽन्तिके
ब्राह्मणः श्रद्धया युक्तस्तेन शाम्यन्ति शीतलाः
ग्रन्थान्तरात् अथोष्णवातलक्षणम्
व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम्
बस्तिं मेढ्रं गुदञ्चैव प्रदहेत् स्रावयेदधः
म्रूत्रं हारिद्र मथवा सरक्तं रक्तमेव वा
कृच्छ्रात्पुनः पुनर्जन्तोरुष्णवातं वदन्ति तम्
चिकित्सा
शृतशीतपयोऽन्नाशी चन्दनं तण्डुलाम्बुना
पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते
ब्रध्नस्य निदानं लक्षणञ्च
अत्यभिष्यन्दिगुर्वन्नशुष्कपूत्यामिषाशनात्
करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु
ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नेति विनिर्दिशेत्
चिकित्सा
भृष्टश्चैरण्डतैलेन सम्यक्कल्कोऽभयाभवः
कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः
अजाजी हपुषा कुष्ठं गोमेदं बदरान्वितम्
काञ्जिकेन तु संपिष्टं तल्लेपो ब्रध्नजित्परः
कालज्वरस्य निदानं लक्षणं च
प्रणष्टवह्नेरबलस्य जन्तोर्ज्वरो यदा धातुचयेषु लीनः
प्लीहोदरार्त्तिं कुरुते सशोथं तया स कालज्वरसंज्ञितः स्यात्
सुदुःसहं प्राप्य विकारमेनं दिने दिने कार्श्यमुपैति मत्तर्यः
कृष्णच्छविस्तस्य च पाण्डुभावो विलूनकेशोऽनियतज्वरेण
कालज्वरेण सुचिरं परिपीडितस्य जायेत चोत्कटतमस्त्वतिसाररोगः
घ्राणाच्च रक्तपतनन्त्वपि दन्तवेष्टादेतावुपद्र वकरौ मुहुरुद्भवेताम्
ग्रन्थिकज्वर प्लिए!गइ! निदानं लक्षणं च
कफोणि कक्षा गल वङ्क्षणेषु यो ग्रन्थिशोथार्त्तिकरो नराणाम्
ज्वरः प्रजायेत समस्तदोषात् तं ग्रन्थिकाख्यं ज्वरमामनन्ति
ज्वरः सुतीव्रः पुरतो हि भूम्ना पुनश्च कुत्राप्यथवा स मन्दः
सर्वाङ्गरुक् शीतमतिप्रकम्पो मूर्च्छा प्रलापो वमथुः पिपासा
स्वेदो भृशं स्वप्नविघात तन्द्रा खराऽतिजिह्वा शिथिलाङ्गता च
ग्लानिप्रमोहौ श्रुतिनेत्र सुप्तिर्निस्पन्दभावं धमनी च धत्ते
असाध्यलक्षणम्
सोऽय ज्वरो ग्रन्थिकनामधेयो निहत्य शक्तिं सकलेन्द्रि याणाम्
असंशयं हन्त्यतिसार जुष्टं विनष्टसंज्ञं रुधिरं वमन्तम्
प्रदुष्टवातोदकभूमिभागे जीवाणवस्ते विष वज्रकल्पाः
उन्दूरदेहं पुरतः प्रविश्य निहन्युराखून् मरणाग्रदूतान्
विषेण तीव्रेण विषण्णदेहाः पानाय नीरस्य विदूरभूमिम्
धावन्ति मूर्च्छन्ति नयन्ति दूरं विषं पिपासाकुल मूषिकास्ते
जीवाणुवाहिनां तस्मान्मूषिकाणां शरीरतः
देहाद् देहान्तरं यान्ति कीटा ग्रन्थिज्वरप्रदाः
मन्थरज्वरः मिधुरज्वरःइ! पूर्वरूपम्
स्वल्पकासोऽरुचिस्तृष्णा प्रलापो दाहवाञ्ज्वरः
अङ्गानां गौरवं ग्लानिरस्थिभेदो विनिद्र ता
रूपम्
ज्वरो दाहो भ्रमो मोहश्चातिसारो वमिस्तृषा
अनिद्रा च मुखं रक्तं तालु जिह्वा च शुष्यति
ग्रीवामध्ये तु दृश्यन्ते स्फोटकाः सर्षपोपमाः
एतच्चिह्नं भवेद्यत्र स मधुरक उच्यते
दण्डकज्वरस्य निदानं लक्षणं च
सन्ध्यस्थिकण्ठे ज्वरितस्य यस्य दण्डाभिघातप्रभवा रुजेव
रुजा प्रजायेत निशादिनेषु ज्वरं तमाहुः किल दण्डकाख्यम्
दिनद्वयं दिनैकं वा विश्रम्यासौ प्रवर्त्तते
सर्व्वदेहचरः शोथः प्लीहा चाप्यत्र जायते
स प्रतिश्याय कासार्त्तो ज्वरी प्रमुच्यते ज्वरात्
अष्टमे दिवसे प्रायो वातश्लेष्मसमुद्भवात्
रसाज्ञानलक्षणम्
भुञ्जानस्य नरस्यान्नं मधुरप्रभृतीन् रसान्
रसना यन्न जानाति रसाज्ञानं तदुच्यते
पाचकपित्तस्य वैगुण्यमस्य व्याधेर्निदानमित्येके भाषन्ते
सङ्क्रामकतरुणशोथविशेषः बिए!री बेरीइ!
निदानम्
वातश्लेष्मकरैर्भोज्यैः क्लिन्न शुष्कान्नभोजनैः
संयोगाद् विषतुल्यानां स्नेहानां च निषेवणैः
निःसारतण्डुलाहारैः प्राग्वातैर्हिमशीकरैः
आर्द्र भूमौ चिरं वासाज्जनाकीर्ण स्थलेषु च
क्षीणशोणितमांसाग्नेर्दौर्बल्यं हृदि जायते
यकृत्प्लीह्नोर्विकारश्च क्रमतः परिवर्द्धते
प्रजायते ततः शोथो रोगः सङ्क्रामको नवः
तस्य लक्षणमप्यग्रे समासेनाभिधीयते
पूर्वरूपम्
अल्पत्वादस्य रोगस्य प्राग्रूपं न च लक्ष्यते
दृश्यते केवलं तत्र वह्निसादो विवर्णता
लक्षणम्
जङ्घास्थिनि यदा शोथो जायते हृत्प्रवेपते
तदा तन्तु विजानीयाच्छोथं सङ्क्रामकं नवम्
स्नायूनां मांसपेशीनां क्रिया सम्यङ् न वर्तते
जङ्घायां प्रथमं भूत्वा शोथः सर्वतनौ व्रजेत्
विड्भेदः श्वासकृच्छ्रत्वमथवा विड्विबद्धता
स्वल्पत्वमस्य जायेत मूत्रस्य रुधिरस्य च
वेदना सर्वगात्रेषु जानुयुग्मे च दुःसहा
नानाप्रकारं जानीयादिमं व्याधिं विचक्षणः
वातरोगेण तुल्यानि वीक्ष्य लिङ्गानि कानिचित्
वातरोगमिमं केचिन्मन्यन्ते भ्रान्तिहेतुतः
तीव्रज्वरविशेषोऽय न चासौनूतनामयः
इत्यादीनि प्रभाषन्ते केचिदन्ये भिषग्विदः
नवाविर्भूतरोगोऽय शोथः सङ्क्रामको नवः
स वङ्गान् भूयसा हन्ति स्वच्छतण्डुलभोजिनः
गोधूमरोटिकाहाराः पञ्चनदादिवासिनः
सङ्क्रामकमिमं शोथं लभन्ते प्रायशो नहि
वाराणस्यादिदेशेषु रोगस्यास्य प्रकोपतः
प्रजानान्तु सहस्राणि तूर्णं मृत्युमुखं ययुः
असाध्यलक्षणम्
सव्यथं हृदयं यस्य क्षीणस्य स्पन्दते द्रुतम्
रक्तपूर्णं शिराकोष्ठं स शीघ्रं विजहात्यसून्
अनेन शोथेन निपीड्यमानः कष्टातिकष्टं शिरसो विकारम्
आन्ध्यं सुदुःखं त्वथवाऽभ्युपैति घोरांस्तथाऽन्यान् नयनामयांश्च
मृत्योर्भयं वितनुते जनमण्डलेषु प्रध्वंसने जनपदं प्रतिकूलदैवात्
शोथो ह्ययं बहुरुजस्तरुणः कदाचिद् हृद्रो गरक्तवमनैः सहसाऽतिदुःखैः
कफाश्रितवायोर्लक्षणम्
प्राक्सञ्चितं यस्य बलासजालमन्वेति भूयः प्रबलः समीरः
तेनावृतस्तं प्रविधाय शुष्कं कुर्यात् प्रवृद्धोऽथ विकारवृन्दम्
त्वक्स्फोटनं पाणिपदीक्षणानां दाहोऽतिशोषो वदनस्य तोदः
हृत्कम्पदौर्बल्यमतिश्रमत्वं भ्रान्तिर्मृषोद्भावनजल्पनं च
वैस्वर्यमालस्यमथाविपाको ह्युदासचिन्ताऽरुचिगात्रभङ्गाः
निद्रा क्षयो मूत्रपुरीषबन्धस्तमः प्रवेशो गमनेष्वशक्तिः
श्लेष्मान्वितोऽय कथितः समीरः
===============
अथ नेत्रादिपरीक्षाऽधिकारः ३३

नेत्रं स्यात्पवनाद्रू क्षं धूम्रवर्णं तथाऽरुणम्
कोटरान्तःप्रविष्टं च तथा स्तब्धविलोकनम्
हरिद्रा खण्डवर्णं वा रक्तं वा हरितं तथा
दीपद्वेषि सदाहञ्च नेत्रं स्यात्पित्तकोपतः
चक्षुर्बलासबाहुल्यात्स्निग्धं स्यात्सलिलप्लुतम्
तथा धवलवर्णञ्च ज्योतिहीनं बलान्वितम्
नेत्रं द्विदोषबाहुल्यात्स्याद् दोषद्वयलक्षणम्
त्रिदोषलिङ्गसङ्घेन तं मारयति रोगिणम्
त्रिदोषदूषितं नेत्रमन्तर्मग्नं भृशं भवेत्
त्रिलिङ्गं सलिलस्रावि प्रान्तेनोन्मीलयत्यपि
जिह्वापरीक्षा
शाकपत्रप्रभा रूक्षा स्फुटना रसनाऽनिलात्
रक्ता श्यावा भवेत्पित्ताल्लिप्ताऽद्रा धवला कफात्
परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके
सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा
मूत्रपरीक्षा
वातेन पाण्डुरं मूत्रं रक्तं नीलञ्च पित्ततः
रक्तमेव भवेद्र क्ताद्धवलं फेनिलं कफात्
पुरीषपरीक्षा
वातान्मले तु दृढता शुष्कता चापि जायते
पीतता जायते पित्ताच्छुक्लता श्लेष्मतो भवेत्
सन्निपाते च सर्वाणि लक्षणानि भवन्ति हि
विशेषतः
त्रुटितं फेनिलं रूक्षं धूमलं वातकोपतः
वातश्लेष्मविकारेण जायते कपिशं मलम्
बद्धं सुत्रुटितं पीतं श्यामं पित्तानिलाद् भवेत्
पीतश्वेतं श्लेष्मपित्तादीषत् सान्द्रं च पिच्छिलम्
श्यामत्रुटित पीताभं बद्धश्वेतं त्रिदोषतः
दुर्गन्धः शीतलश्चैव विष्ठोत्सर्गो यदा भवेत्
तदा जीर्णं मलं वैद्यैर्दोषज्ञैः परिभाष्यते
कपिलं गुटिकायुक्तं यदि वर्चोऽवलोक्यते
प्रक्षीणमलदोषेण दूषितः परिकथ्यते
वातस्य च मलं कृष्णं ततः पित्तस्य पीतविट्
रक्तवर्णं मलं किञ्चिन्मलं श्वेतं कफोद्भवम्
आमं वा श्लेष्मजं प्राहुर्मिश्रितं द्वन्द्वजं भवेत्
अपक्वं स्यादजीर्णे तु पक्वं स्वच्छं मलं भवेत्
अत्यग्नौ पिण्डितं शुष्कं मन्दाग्नौ तु द्र वीकृतम्
दुर्गन्धं चन्द्रि कायुक्तमसाध्यं मललक्षणम्

इति प्रथमं परिशिष्टम्

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP