सूत्रस्थानम् - षोडशोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथातः स्नेहविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
गुरुशीतसरस्निग्धमन्द सूक्ष्ममृदुद्र वम्
औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम् ॥१॥
सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम्
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥२॥
माधुर्यादविदाहित्त्वाज्जन्माद्येव च शीलनात्
पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम् ॥३॥
घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च
द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान् ॥४॥
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामा सक्तचिन्तकाः
वृद्धबालाबलकृशा रूक्षाः क्षीणास्ररेतसः ॥५॥
वातार्तस्यन्दतिमिरदारुण प्रतिबोधिनः
स्नेह्याः न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः ॥६॥
ऊरुस्तम्भातिसाराऽमगल रोगगरोदरैः
मूर्च्छाच्छर्द्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः ॥७॥
अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने
तत्र धीस्मृतिमेधादिकाङ्क्षिणां शस्यते घृतम् ॥८॥
ग्रन्थिनाडीकृमिश्लेष्ममेदो मारुतरोगिषु
तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु ॥९॥
वातातपाध्वभारस्त्रीव्यायाम क्षीणधातुषु
रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च ॥१०॥
शेषौ बसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च
तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि ॥११॥
तैलं प्रावृषि वर्षान्ते सर्पिरन्यौ तु माधवे
ऋतौ साधारणे स्नेहः शस्तोऽह्नि विमले रवौ ॥१२॥
तैलं त्वरायां शीतेऽपि घर्मेऽपि च घृतं निशि
निश्येव पित्ते पवने संसर्गे पित्तवत्यपि ॥१३॥
निश्यन्यथा वातकफाद्रो गाः स्युः पित्ततो दिवा
युक्त्याऽवचारयेत्स्नेहं भक्ष्याद्यन्नेन बस्तिभिः ॥१४॥
नस्याभ्यञ्जनगण्डूष मूर्द्धकर्णाक्षितर्पणैः
रसभेदैककत्वाभ्यां चतुःषष्टिर्विचारणाः ॥१५॥
स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः
यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा ॥१६॥
स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्
द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात् ॥१७॥
ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम्
कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम् ॥१८॥
ह्यस्तने जीर्ण एवान्ने स्नेहोऽच्छ शुद्धये बहुः
शमनः क्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते ॥१९॥
बृंहणो रसमद्याद्यैः सभक्तोऽल्प हितः स च
बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु ॥२०॥
स्त्रीस्नेहनित्यमन्दाग्नि सुखितक्लेशभीरुषु
मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च ॥२१॥
प्राङ्मध्योत्तरभक्तोऽसावधोमध्योर्ध्व देहजान्
व्याधीञ्जयेद्बलं कुर्यादङ्गानां च यथाक्रमम् ॥२२॥
वार्युष्णमच्छेऽनु पिबेत् स्नेहे तत्सुखपक्तये
आस्योपलेपशुद्ध्यै च तौवरारुष्करे न तु ॥२३॥
जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिवेत्
तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिः ॥२४॥
भोज्योऽन्न मात्रया पास्यन् श्वः पिबन् पीतवानपि
द्र वोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम् ॥२५॥
उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः
न वेगरोधी व्यायामक्रोधशोकहिमातपान् ॥२६॥
प्रवातयानयानाध्वभाष्यात्यासन संस्थितीः
नीचात्युच्चोपधानाहः स्वप्नधूमरजांसि च ॥२७॥
यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्
सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः ॥२८॥
उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्
त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत् ॥२९॥
सम्यक् स्निग्धोऽथवा यावदतः सात्म्यी भवेत्परम्
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम् ॥३०॥
स्नेहोद्वेगः क्लमः सम्यक्स्निग्धे रूक्षे विपर्ययः
अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः ॥३१॥
अमात्रयाऽहितो काले मिथ्याहारविहारतः
स्नेहः करोति शोफार्शस्तन्द्रा स्तम्भविसंज्ञताः ॥३२॥
कण्डूकुष्ठज्वरोत्क्लेश शूलानाहभ्रमादिकान्
क्षुत्तृष्णोल्लेखनस्वेद रूक्षपानान्नभेषजम् ॥३३॥
तक्रारिष्टखलोद्दालयवश्यामाक कोद्र वम्
पिप्पलीत्रिफलाक्षौद्र पथ्या गोमूत्रगुग्गुलु ॥३४॥
यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्
विरूक्षणे लङ्घनवत्कृतातिकृतलक्षणम् ॥३५॥
स्निग्धद्र वोष्णधन्वोत्थरसभुक् स्वेदमाचरेत्
स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः ॥३६॥
एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः
मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः ॥३७॥
स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः
संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते ॥३८॥
अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः
बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु ॥३९॥
योगानिमाननुद्वेगान् सद्यःस्नेहान् प्रयोजयेत्
प्राज्यमांसरसास्तेषु पेया वा स्नेहभर्जिता ॥४०॥
तिलचूर्णश्च सस्नेहफाणितःकृशरा तथा
क्षीरपेया घृताढ्योष्णा दध्नोवा सगुडः सरः ॥४१॥
पेया च पञ्चप्रसृता स्नेहैस्तण्डुलपञ्चमैः
सप्तैते स्नेहनाः सद्यः स्नेहाश्च लवणोल्बणाः ॥४२॥
तद्ध्य्भिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च
गुडानूपामिषक्षीरतिलमाष सुरादधि ॥४३॥
कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्
त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान् ॥४४॥
स्नेहान् यथास्वमेतेषां योजयेदविकारिणः
क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान् ॥४५॥
दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः
दृढेन्द्रि यो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः ॥४६॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदय संहितायां
सूत्रस्थाने स्नेह विधिर्नाम षोडशोऽध्यायः ॥१६॥
N/A
References : N/A
Last Updated : March 15, 2021
TOP