द्वितीयकाण्डः - ३६ ते ४०
पैप्पलादसंहिता
३६
या वैश्वदेवीरिषवो या वसूनां या रुद्रस्य सोमस्य या भगस्य ।
विश्व देवा इषवो यावतीर्वस्ता वो अग्निना शर्मणा शमयामि ॥१॥
या आदित्यानामिषवो या वसूनां या रुद्रस्याश्विनोर्यावतीस्ता: ।
विश्वे देवा इषवो यावतीर्वस्ता वो देवः सविता शमयाति ॥२॥
यास्ते अग्न इषवो वात यास्ते ऽपामदित्यामुत या मरुत्सु ।
इन्द्रश्च साम्ना वरुणश्च राजा ता वः सूर्यो बृहता शमयाति ॥३॥
मा वृक्षमज्यादित्येभ्यो मा वसुभ्यो मा रुद्रायाग्नये पार्थिवाय ।
इन्द्रस्य शुचो वरुणस्य याः शुचस्ता वो देव्यदिति: शमयाति ॥४॥
याश्च वाते विष्वग्वाते याश्च रुद्रस्य धन्वनि ।
अग्निष्टा वसोरीशानः सर्वास्ता भेषजा: करत् ॥५॥
३७
चित्तिं यजामि मनसा चित्तिं देवाङ् ऋतावृध: ।
जातवेद: प्र पास्तिराग्ने विश्वाभिरूतिभिः ॥१॥
यावयास्मद् द्वेषांसि यवमयेन हविषा ।
यस्ते त्रित दुष्वप्न्यस्य भागः स त एष तं त एतं प्र हिण्मः ॥२॥
यथा कलां यथा शफं यथर्णं संनयन्ति ।
एवाह दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥३॥
अररो है शतमद्य गवां भक्षीय शतमजानां शतमवीनांशतमश्वानां शतं पुरुषाणाम् ।
तत्रापि भक्षीयामुमामुष्यायणममुष्या: पुत्रम् ॥४॥
तमहं निर्ऋतये प्र यच्छामि तं मृत्योः पाशे बध्नामि ।
स बद्धो हतो अस्तु स ततो मा मोचि ॥५॥
३८
ये नः शपन्त्यपि ते भवन्तु वृक्षानिव वृक्तां अति तां अयाम ।
द्राघीय आयुः प्रतरं दधाना वयं देवानां सुमतौ स्याम ॥१॥
कृत्याकृतं प्रत्यवसानदर्शनमग्ने प्रति स्म बुध्यस्व ।
प्रति स्म देव तं दह ॥२॥
यस्त्वा कृत्ये प्रतिघाय विद्वाङ् अविदुषो गृहम्।
पुनस्त्वा तस्मा आ दध्मो यथा कृत्याकृतं हनत् ॥३॥
पुन: कृत्यां कृत्याकृते हस्तगृह्य परा णय ।
उतो तमुत सा पुनस्तर्द इव सदनं स्वम् ॥४॥
कृत्या यन्तु कृत्याकृतं वृकीवाविमतो गृहम् ।
स्तोकं पाकस्य वर्धतां सुवृष्ट ओषधीरिव ॥५॥
३९
यत्ते ग्रावा बाहुच्युतो अचक्रोन्नरो यद्वा ते हस्तयोरधुक्षं ।
तत् त आ प्यायतां तत् ते नि ष्ट्यायतां सोम राजन् ॥१॥
यत् ते ग्रावणा चेच्छिदुः सोम राजन् प्रियाण्यङ्गानि सुकृता पुरूणि ।
तत् सं धत्स्वाज्येनोत वर्धयस्वानागसो यथा सदमित् संक्षियेम ॥२॥
यां ते त्वचं बिभिदुर्यां च योनिं यद्वा स्थानात् प्रच्युतो यदि वा सुतोसि।
त्वया सोम क्लृप्तिमस्माकमेतदुप नो राजन् सुकृते ह्वयस्व ॥३॥
सं प्राणापानाभ्यां समु चक्षुषा सं श्रोत्रेण गच्छस्वं सोम राजन्।
यत् ते विरिष्टं समु तत् त एतज्जानीतान्नः संगमने पथीनाम् ॥४॥
अहा: शरीरं पयसा समेत्यन्योअन्यो भवति वर्णो अस्य ।
तस्मै त इन्द्रो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥५॥
अभि क्षरन्ति जुह्वो घृतेनाङ्गा परूंषि तव वर्धयन्ती ।
तस्मै ते सोम नम इद्वषड्वोप नो राजन् सुकृते ह्वयस्व ॥६॥
४०
इहेत देवीरयमस्तु पन्था अयं वो लोकः शरणाय साधुः ।
इदं हविर्जुषमाणा उदेत क्षिप्रा राज्ञा वरुणेन प्रसूताः ॥१॥
इहैतु राजा वरुणोजिराभिर्देवो देवीभिर्हविषो जुषाणः ।
कृणुष्व पन्थामुदयानमूर्मिभिरनेन बभ्रो महता पृथिव्याः ॥२॥
प्रिये ध्रियध्वमुत या न मुञ्चतीरोकैघानामिह रारणीतु ।
अनेन वेगानसृजत् प्रजापतिरिह ध्रियध्वं शरणं सरस्वतीः ॥३॥
इह वो जूतिर्ध्रियतां समान्यपामग्नीनां वरुणस्य सोम ।
अनेन वेगानसृजत् त्विषीमतो हिंस्राञ्च्छम्भूनजिराङ् अतृष्णजः ॥४॥
ये पारतो मध्यतो ये ते अन्तयो अप्सुषदो निहितास्तीरे अग्नय:।
ते देवजा इह नो मृडयन्त्वापश्च जन्मन्नुभये सवन्तवः ॥५॥
इदं व आपो हृदयमयं वत्स ऋतावरी: ।
इहेत्थमेत शक्वरीर्यत्रेमं वेशयामसि ॥६॥
(इति पञ्चर्चोनाम द्वितीयकाण्डे अष्टमोऽनुवाकः)
N/A
References : N/A
Last Updated : May 10, 2021
TOP