दिवं प्रेहि शतौदने सहस्रस्यायनं भव॥
अयुतं प्रयुतं भवाक्षितिर्भवतात्त्वं स्वर्गं लोकमा रुहः ॥१॥
शतौदनां शतधा भक्षयन्ति शतं रोहान् रोहति यो ददाति ।
वामदेव्यं नौधसमस्या: पक्षौ तृतीये नाके अधि विष्टपि श्रिता ॥२॥
शतौदनां शतधा कल्पमाना शतं रूपाणि कृणुते स्वर्यती ।
सा नो देवी सुहवा शर्म यच्छत्वथो मृडातीदृशे ॥३॥
शतौदना द्वादशाहेन संमिता शतं पृष्ठानि ससृजे स्वर्यती ।
सर्वान् यज्ञान् परियती परस्तात् सा दातारं रायस्पोषे दधातु ॥४॥
अभि प्रेहि शतौदन ईजानान् सोमसत्वनः ।
यज्ञांस्त्वं सर्वानाप्त्वा कामप्रस्यायनं भव ॥५॥
अभि प्रेहि शतौदने यज्ञेनायज्वनस्तर ।
आा देवयूनरूरुहो यत्रादस्त्रिदिवं दिवः ॥६॥
इरापदी प्रथमा शतौदना सत्यं ह मध्यममृतं शिरस्तव ।
उभे देवी रोदसी आ पृणासि ॥७॥
ऋतं ह श्रोणी उत सक्थौ तवौजो ह बाहू उत तद्बलाय कम्।
अनुष्ठु जठरमादु पार्श्वे सर्वाल्लोकां छतौदना समाप ॥८॥
चक्षुष्मती प्रथमा शतौदना सूर्यो ह चक्षुरुत चन्द्रमास्तव ।
विश्वैर्देवैर्ऋतुभि: संविदाना सा दातारं तृप्त्या तर्पयासि ॥९॥
शतं पयांसि शतमस्या वत्साः शतधा पक्वां वि भजन्त्येनाम् ।
सप्त लोका दिव्यार्पिता ये तां जिगेथ प्रथमा शतौदने ॥१०॥


सहस्त्रेण शतमाना यदेषि लोकां जिगेथ प्रथमा शतौदने॥
सर्ववेदसमुत वाजपेयं सर्वाल्लोकां छतोदना समाप ॥१॥
इन्द्रः पपात प्रथम: शतौदनां सप्तऋषिभ्यः सुमनस्यमान: ।
तयासुराणां बलमोज आ ददे तया रुरोह विष्टपो देवलोकान् ॥२॥
सप्तर्षि विश्वामित्रोऽयं जमदग्निरत्रिर्भरद्वाजो गोतमोऽयं वसिष्ठः॥
इदं पक्वं कश्यपसप्तमा: प्राश्नन्तु प्रथमाः शतौदनाम् ॥३॥
ज्योतिष्मती प्रथमा शतौदना त्रीणि ज्योतींषि कृणुते स्वर्यती ।
तां दातार उपजीवन्ति यत्र तत्र देवैः सधमादं मदन्ति ॥४॥
छन्द:पक्षा बृहती शतौदना त्रीणि छन्दांसि ससृजे स्वर्यती ।
ऋतूनामधिराजं संवत्सरं पतिमस्या विन्दन् ॥५॥
अतिक्रम्याग्निष्टोममतिरात्रं शतौदने ।
यज्ञांस्त्वं सर्वानाप्त्वा चित्यमग्निं व्यश्नुहि ॥६॥
अश्वमेध्यमतिक्रम्य द्वादशाहं शतौदने॥
त्रिरात्रं साह्वमाप्त्वा वाजपेयेन कल्पते ॥७॥
ये सहस्रैरीजाना अग्निहोत्रहुतश्च ये ।
यजैर्ये सर्वेरीजानास्तान आप्नोति शतौदना ॥८॥
शं ते परूंषि सुभगे दधामि शं ते मांसान्यत्तथा भवन्ति ।
अस्थि यत्ते शमिता शशार तत्ते त्वष्टाविहृतं निष्कृणोतु ॥९॥
ये यज्ञेन जिता लोका या नु च्छन्दांसि भेजिरे ।
सर्वांस्तांल्लोकानाप्नोति यो ददाति शतौदनाम् ॥१०॥


इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।
अश्वक्षता सुहवा संभूतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥
अव विश्वान्यरुहद् गभीरोद्वर्षिष्ठमरुहदश्रमिष्ठा ।
उशती रात्र्यनुसानु भद्राद्वि तिष्ठते मित्र इव स्वधाभिः ॥२॥
नर्ये वन्द्ये सुभगे सुजात आ त्वागन् रात्रि सुमना इह स्याम् ।
अस्मांस्त्रायस्व नर्याणि जाताश्व्या यानि गव्यानि पुष्टा ॥३॥
सिंहस्य रात्र्युशती पिशस्य व्याघ्रस्य द्वीपिनो वर्च आददे ।
अश्वस्य ब्रध्नं पुरुषस्य मायं पुरु रूपाणि कृणुषे विभाती ॥४॥
शिवां रात्रिमह्नि सूर्यं च हिमस्य माता सुहवा नो अस्तु ।
अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥
स्तोमस्य नो विभावरि रात्रि राजेव जोषसै ।
असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषस: ॥६॥
शम्या हि नाम दधिषे मम दिप्सन्ति ये धना ।
तात्रीहि तानसदपाथ स्तेनो न विद्यतेऽथ रिपुर्न विद्यते ॥७॥
भद्रासि रात्रि चमसो न पिष्टो विश्वं गोरूपं युवतिर्बिभर्षि ।
चक्षुष्मती मे मृषती वपूंषि प्रदित्यां दिव्यां रुक्मा ङ अमुक्थाः ॥८॥
यो अद्य स्तेन आयत्यघायुर्मृत्यो रिपुः ।
रात्री तस्य प्रतीत्य प्र ग्रीवा प्र शिरो हनत् ॥९॥
प्र पादौ न यथायति प्र हस्तौ न यथाशिषत् ।
यो मलिम्लरुपायति स संपिष्टो अपायति ।
आपायति स्वपायति शुष्के स्थाणावपायत ॥१o॥


अन्धं रात्रि तिष्ठधूममशीर्षाणामहिं कृणु ।
अक्षी वृकस्य निर्जह्या स्तेनं द्रुपदे जहि ॥१॥
ये ते रत्र्यनड्वाहस्तीक्ष्णशृङ्गः: स्वाशवः ।
तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥
रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् ।
गम्भीरमप्लवा इव न तरेयुररातय: ॥३॥
यथा शाम्याकः प्रपतन् प्रेदिवान्नानुविद्यते ।
एवा रात्रि प्र पातय यो अस्मा ङ अभ्यघायति ॥४॥
अप स्तेनं वासोमथं गोअजमुत तस्करम् ।
अथो यो अर्वत: शिरोऽभिधाय निनीषति ॥५॥
यदद्य रात्रि सुभगे विभजन्त्ययो वसु।
यदेह्यस्मान् भ्राजयाथेदन्यानुपायसि ॥६॥
उषसे नः परि धेहि सर्वान् रात्र्यनागसः ।
उषा नो अह्न आ भजादहस्तुभ्यं विभावरि ॥७॥
(इति सप्तदशर्चोनामचतुर्दशकाण्डे तृतीयोऽनुवाक:)
इत्यथर्ववेद पैप्पलादशाखा संहितायां सप्तदशर्चोनाम चतुर्दशकाण्डः समाप्तः

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP