द्वारकाखण्डः - अध्यायः २१
गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.
श्रीनारद उवाच ॥
तृतीयस्यापि दुर्गस्य पूर्वद्वारे महाबलः ॥
रक्षत्यहर्निशं राजन्हनूमानंजनीसुतः ॥१॥
तं प्रेक्ष्य भगवद्भक्तं हनूमंतं महाबलम् ॥
जायते भगवद्भक्तो हनूमाननिव मानवः ॥२॥
तथा वै दक्षिणद्वारं चक्रं नाम सुदर्शनम्।
रक्षत्यहर्निशं राजञ्छ्रीकृष्ण गतमानसम् ॥३॥
तस्य दर्शनमात्रेण भवेद्भक्तो हरेः परः ॥
भक्तस्यापि सदा रक्षां करोति हि सुदर्शनम् ॥४॥
तथा वै पश्चिमं द्वारं जांबवानृक्षराड्बली ॥
रक्षत्यहर्निशं राजन्भगवद्भक्तिसंयुतः ॥५॥
तं प्रेक्ष्य भगवद्भक्तं जांबवंतं महाबलम् ॥
चिरजीवी हरेर्भक्तो भवतीह च मानवः ॥६॥
तथा वै चोत्तरं द्वारं विष्वक्सेनो महाबलः ॥
रक्षत्यहर्निशं राजञ्छ्रीकृष्णहृदयो महान् ॥७॥
तस्यदर्शनमात्रेण नरो याति कृतार्थताम् ॥
शृणु राजन्बहिर्दुर्गात्तीर्थं पिंडारकं स्मृतम् ॥८॥
पिंडारकस्य माहात्म्यं शृणुताद्राजसत्तम ॥
यस्य स्मरणमात्रेण महापापात्प्रमुच्यते ॥९॥
अर्थसिद्धेरिव द्वार रैवताद्रिसमुद्रयोः॥
मध्ये पिंडारकक्षेत्रं तीर्थानां तीर्थमुत्तमुम् ॥१०॥
क्रतुराजं राजसूयं यदुराजो महाबलः ॥
चकार यत्र वैदेह परिपूर्णतमाज्ञया ॥११॥
सर्वाणि यत्र तीर्थानि समाहूतानि सर्वतः ॥
निवासं चक्रिरे राजन्नुग्रसेन क्रतूत्तमे ॥१२॥
तेन पिंडारकं नाम सर्वतीर्थस्य पिंडतः ॥
तत्र स्नात्वा नरः सद्यो राजसूयफलं लभेत् ॥१३॥
यत्रैव त्रिदिनं स्नात्वा व्रती भूत्वा समाहितः ॥
ब्राह्मणेभ्यः स्वर्णदानं दत्त्वा यः प्रणतो भवेत् ॥१४॥
इहैव नरदेवः स्यात्स महात्मा न संशयः ॥
नित्यं शृणोति सततं बन्दिवद्भि यशःस्वयम् ॥१५॥
सुवर्णरत्नवस्त्राद्यैः सुचन्द्रवदनैः परैः ॥
स्त्रीसंघैः सेवितो नित्यं हृष्टपुष्टो महा बलः ॥१६॥
अहोरात्रं प्रताड्यते द्वारि दुन्दुभयो घनाः॥
करीद्राणां च चीत्कारैरश्वहेषैस्समन्वितम् ॥१७॥
विराजते राजसंघैः प्रेक्षयन्प्रांगणाजिरम ॥
रत्नप्रासादनिचयं ध्वजमण्डलमंडितम् ॥१८॥
मत्तकुञ्जरकर्णाभ्यां ताडिता भृगमण्डली ॥
अलंकरोति तद्द्वारं मंडितं मंडलेश्वरैः ॥१९॥
पिंडारकस्नानमृते कथं राज्यं भवेदिह ॥
अन्ते मोक्षं कथं याति नरः पापयुतोपि हि ॥२०॥
पिंडारकस्नानमृते न शर्म पिंडारकस्नानमृते न कर्म॥
पिंडारक स्नानमृते न धर्मः पिंडारकस्नानमृते न वर्म ॥२१॥
पिंडारकस्नानमृते वियोगी पिंडारकस्नानकरो वियोगी ॥
पिंडारकस्नाकरः सुभोगी पिंडारक स्नानकरो न रोगी ॥२२॥
द्वारावतीं माधवमासमध्ये प्रदक्षिणीकृत्य नमस्करोति ॥
सर्वा इहामुत्र च सिद्धयोपि वैदेह तत्पाणितले भवन्ति ॥२३॥
तीर्थाप्लुतोधःशयनःशुचिश्च मौनी व्रती वायवभोजनेन॥
आरभ्य चैत्री किल पौर्णमासी यो माधवीमेत्य करोति यात्राम् ॥२४॥
तत्पुण्यसंख्यां गदितुं न शक्यश्चतुर्मुखो वेदमयो विधाता ॥
यो मेघधारां गणयेत्कदाचित्कालेन पुण्यानि न कृष्णपुर्याः ॥२५॥
यथा तिथीनां हरिवासरं च यथाहि शेषो फणिनां फणीन्द्रः ॥
यथा गरुत्मान्दिवि पक्षिणां च यथा पुराणेषु च भारतं च ॥२६॥
यथा हि देवेषु च देवदेवः श्री वासुदेवो यदुदेवदेवः ॥
तथा पुरी क्षेत्रसमस्तमध्ये द्वारावती पुण्यवती प्रशस्ता ॥२७॥
अहोति धन्या यदुमंडलीभिर्विराजते भूमितले मनोहरा ॥
वैकुण्ठलीलाधिकृता कुशस्थली यथा तडिद्भिर्जलदावलिर्दिवि ॥२८॥
यत्रैव साक्षात्पुरुषः परेश्वरो धृत्वा चतुर्व्यूहमलं विराजते॥
यस्तूग्रसेनाय ददौ नृपेशतां कृष्णाय तस्मै हरये नमोनमः ॥२९॥
यदा स्वलोकं भगवान्गमिष्यति संप्लावयिष्यत्यथ तां तदार्णवे॥
वैदेहदिव्यं हरिमंदिरं विना तस्मिन्निवासं भगवान्करिष्यति ॥३०॥
शृण्वंति तत्रैव कलौ जलध्वनिं कृष्णोक्तमित्थं ससतं दिनेदिने ॥
भवेदविद्यो यदि वा सविद्यो यो ब्राह्मणो वै स तु मामकी तनुः ॥३१॥
भूत्वाथ विप्रोब्धितटादगाधं गत्वा गृहीत्वा प्रतिमां परस्य॥
कृत्वा प्रतिंष्ठां च विधाय सौधं करिष्यते स्थापनमर्क एषः ॥३२॥
श्रीद्वारकानाथमिति स्वरूपं पश्यंति ये भक्तजनाः कलौ युगे॥
गच्छंति ते विष्णुपदं नृदेव योगीश्वराणामपि दुर्लभं यत् ॥३३॥
इदं मया ते कथितं नृदेव माहात्म्यमेतत्किल कृष्णपुर्याः ॥
शृणोति यः श्रावयते च भक्त्या श्रीद्वारकावासफलं लभेत्सः ॥३४॥
श्रीद्वारकाया नृपखण्डमेतन्मया तवाग्रे कथितं सुपुण्यम्॥
कीर्तिकुलंभक्तिमतीव मुक्तिं ददाति राज्यं च सदैव शृण्वताम् ॥३५॥
इति श्रीमद्गर्गसहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे तृतीयदुर्गे पिंडारक माहात्म्यंनामेकविंशोऽध्यायः ॥२१॥
इति श्रीद्वारकाखंडः समाप्तः ॥
N/A
References : N/A
Last Updated : May 20, 2021
TOP