संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः २१ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः २१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कौरव-सम्मेलनम् Translation - भाषांतर श्रीनारद उवाच -दुर्योधने गते तत्र हाहाकारो महानभूत् ॥तदा देवव्रतो भीष्मो गांगेयः प्रययौ त्वरम् ॥१॥यदूनां पश्यतां तेषां धनुष्टङ्कारयन्मुहुः ॥भस्मीकर्तुं यदुबलं वनं वह्निरिव ज्वलन् ॥२॥सर्वधर्मभृतां श्रेष्ठो महाभागवतः कविः ॥वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः ॥३॥शिरस्त्री मुकुटी गौरः सितश्मश्रुः पितामहः ॥यथा षोडशवर्षीयो युद्धान्तं विचरन्बलात् ॥४॥बाणैर्निपातयामासानिरुद्धस्य बलं महत् ॥करिणश्छिन्नशिरसो हयास्ते भिन्नकंधराः ॥५॥खड्गहस्ता भिन्नबाणैः पत्तयोऽपि द्विधाभवन् ॥रथाश्चूर्णीकृता येन हतसूताश्वनायकाः ॥६॥अधोमुखा ऊर्ध्वमुखाश्छिन्नपादा नृपात्मजाः ॥खड्गहस्तधनुर्हस्ताः पतिताश्छिन्नबाहवः ॥७॥केचिद्वै छिन्नकवचा निपेतुर्भूमिमण्डले ॥अश्वैर्वीरैर्रथैर्नागैः पतितैः स्वर्णभूषितैः ॥८॥युद्धमण्डलमारेजे वनं वृक्षैर्हतैर्यथा ॥शस्त्रदंता बाणकेशा ध्वजवस्त्रा करिस्तना ॥९॥रथांगकुशला राजन्महामारीव भूर्बभौ ॥क्षतजस्रावसंभूता रथाश्वनरवाहिनी ॥१०॥आपगाभून्महादुर्गा नरैर्वैतरणी यथा ॥कूष्माण्डोन्मादवेताला नदन्तो भैरवं स्वनम् ॥११॥हरमालार्थमागत्य जगृहुर्नृशिरांसि च ॥रथेनातिपताकेनानिरुद्धो धन्विनां वरः ॥१२॥स्वबलं पतितं दृष्ट्वा प्रागाद्भीष्मं मृधे महान् ॥प्रलयाब्धिमहावर्तभीमसंघर्षनादिनीम् ॥१३॥धनुर्ज्यां तस्य चिच्छेद बाणेनैकेन कार्ष्णिजः ॥तुण्डया तीक्ष्णया राजन् गरुडः सर्पिणीं यथा ॥१४॥भीष्मोऽन्यद्धनुरादाय सज्जं कृत्वा तदात्मवान् ॥सर्वेषां पश्यतां तत्र ब्रह्मास्त्रं संदधे मृधे ॥१५॥ततः प्रादुष्कृतं तेजः प्रचण्डं वीक्ष्य माधवः ॥स्वबलस्यापि रक्षार्थं ब्रह्मास्त्रं संदधे स्वयम् ॥१६॥द्वादशादित्यसंकाशे युयुधाते परस्परम् ॥त्रींल्लोकान्दहती द्वीपेऽनिरुद्धस्तं जहार ह ॥१७॥गांगेयस्यापि कोदण्डं तडिद्वर्णं यदूत्तमः ॥चिच्छेद सायकैः सूर्यो नीहारमीव रश्मिभिः ॥१८॥भीष्मो गृहीत्वाथ गदां लक्षभारमयीं दृढाम् ॥प्राहिणोदनिरुद्धाय सिंहनादं तदाकरोत् ॥१९॥गृहीत्वा वामहस्तेन गरुत्मानिव पन्नगीम् ॥प्रद्युम्नो भगवान्साक्षात्प्राहिणोत्स्वगदां हृदि ॥२०॥गदाप्रहारव्यथितो मूर्च्छितः पतितो रथात् ॥बभौ सूर्यो यथाऽऽकाशाद्गांगेयो मृधमण्डले ॥२१॥कृपाचार्योऽपि तत्रैवानिरुद्धाय महात्मने ॥शक्तिं चिक्षेप सहसा रुषा प्रस्फुरिताधरः ॥२२॥दीप्तिमान्कृष्णपुत्रस्तु पथि चिच्छेद तां नृप ॥खड्गेन शितधारेण कुवाक्येनेव मित्रताम् ॥२३॥द्रोणाचार्यो महाबाहुर्भानूपरि रुषान्वितः ॥चिक्षेप पार्वतं चास्त्रं धनुष्टङ्कारयन्मुहुः ॥२४॥पतंतः पर्वता व्योम्नश्चूर्णयंतो द्विषद्बलम् ॥तेषां पातेन राजेन्द्र हाहाकारो महानभूत् ॥२५॥तदा हरेः सुतो भानुर्वायव्यास्त्रं समादधे ॥तद्वातेनाद्रयः सर्वे उड्डीता ह्यभवन् रणात् ॥२६॥बाह्लीकस्तु तदा क्रुद्धो वह्न्यस्त्रं संदधे ततः ॥भस्मीभूतं बलं जातं वह्निनेव महद्वनम् ॥२७॥पार्जन्यमाददे तत्र साम्बो जांबवतीसुतः ॥तेन शांतिं गतो वह्निर्ज्ञानेनेव त्वहंकृतिः ॥२८॥कर्णस्ततो मधुं हित्वा साम्बोपरि रुषान्वितः ॥जघान बाणविंशत्या जगर्ज घनवद्बली ॥२९॥तद्बाणैः सरथः सांबो बभ्राम घटिकाद्वयम् ॥क्रोशं पुनः प्रपतितः किंचिद्व्याकुलमानसः ॥३०॥पुनर्गदां समादाय रथं त्यक्त्वा समेत्य सः ॥तताड गदया कर्णं सांबो जांबवीसुतः ॥३१॥गदाप्रहारव्यथितः पतितो धरणीतले ॥मूर्च्छां प्राप रणे राजन्कर्णो वीरो महाबलः ॥३२॥साम्बोऽपि स्वधनुर्नीत्वा रथमारुह्य वेगतः ॥शलं जघान विंशत्या सोमदत्तं च पंचभिः ॥३३॥द्रौणिं च दशभिर्बाणैर्धौम्यं षोडशभिस्तथा ॥लक्ष्मणं दशभिस्तत्र शकुनिं पञ्चभिस्तथा ॥३४॥दुःशासनं च विंशत्या विंशत्या संजयं पृथक् ॥भूरिं बाणशतै राजन्यज्ञकेतुं शतैः शितैः ॥३५॥बाणैर्जघान समरे जगर्ज घनवद्बली ॥दशभिर्दशभिर्नेतॄनेकैकेन गजान् हयान् ॥३६॥पञ्चभिः पञ्चभिर्वीरान् बाणैः सांबस्तताड ह ॥वीक्ष्य जांबवतीसूनोः सांबस्य करलाघवम् ॥३७॥स्वे परे सैनिकाः सर्वे विस्मयं परमं गताः ॥तदा भीष्मः समुत्थाय गृहीत्वा धनुरुत्तमम् ॥३८॥चिच्छेद दशभिर्बाणैः सांबकोदण्डमुत्तमम् ॥भीष्मो महाबलो वीरो द्रोणाचार्यश्च सायकैः ॥३९॥कर्णः सद्यो यदुबलं जघ्नुर्ज्ञानं यथा गुणाः ॥दुर्योधनः पुनर्योद्धुं रथमारुह्य मानदः ॥४०॥अक्षौहिणीभिर्दशभिर्नादयन्नाययौ मृधे ॥४१॥देवौ पुरणौ पुरुषौ तदावि-र्बभूवतुर्मैथिल रामकृष्णौ ॥सुपर्णतालध्वजशालियानौप्रद्योतयन्तौ परितौ हि शस्तौ ॥४२॥तदा जयारावसमाकुलाः सुरागंधर्वमुख्याश्च जगुर्मनोहरम् ॥सुरनका दुंदुभयो विनेदुःश्रीलाजपुष्पैर्ववृषुः सुरस्त्रियः ॥४३॥तदैव नेमुर्यदवः परेश्वरौदुर्योधनाद्याः कुरवस्तु सर्वतः ॥निघाय शस्त्राणि ददुर्बलिं परंसर्वे प्रसन्नाः कृतहस्तसंपुटाः ॥४४॥प्रद्युम्नमुख्यान् स्वसुतान् मदोद्धतान्निर्भर्त्स्य वाग्भिः परमेश्वरो हरिः ॥प्रणम्य देवव्रतमुख्यकौरवान्समेत्य दुर्योधनमूचतुः परौ ॥४५॥श्रीरामकृष्णावूचतुः -राजन् यदेभिः किल बालबुद्धिभि-स्तत्क्षम्यतां मा भव दुर्मनाः स्वतः ॥यदा तु किंचित्परुषं प्रकीर्तितंप्रकीर्ततां नौ भवतां नृपेश्वर ॥४६॥माभूत्कुरूणां भुवि यादवानांकदापि किंचित्कलिरेव राजन् ॥सम्बन्धिनो ज्ञातय एव सर्वेनिचौलवस्त्रांतरवत्प्रियार्थाः ॥४७॥श्रीनारद उवाच -पूजितौ कुरुभिः शश्वद्रामकृष्णौ सुरेश्वरौ ॥प्रद्युम्नाद्यैः सयदुभी रेजतुर्मैथिलेश्वर ॥४८॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे श्रीरामकृष्णागमनं नामैकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP