बलभद्रखण्डः - अध्यायः ७

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


प्राड्‌विपाक उवाच
अथ युवराज धार्तराष्ट्र तयोर्द्वारकालीला संक्षेपेण शृणुतात् ॥
ततः कंसस्य पारोक्ष्यं सौहृदं कुर्वतं समागतं जरासंधं जित्वा
द्वारकाख्यं समुद्रे दुर्गं निर्माय तत्रैकरात्रेण ज्ञातीन्समाधाय
मुचकुंददृशा कालं घातयित्वा पुनश्च रामकृष्णौ
प्रवर्षणाद्रिमेत्य तस्माद्‍द्वारकायां जग्मतुः ॥१॥
अथ ब्रह्मलोकात्समागतो रैवतः सुतां रत्‍नयुतां विधिवद्‌बलशालिने
बलभद्राय दत्वा तपः कर्तुं बदर्याख्यं वनं गतवान् ॥२॥
अथ श्रीकृष्णः शत्रूणां पश्यतां कुंडिनपुराद्‌रुक्मिणीं
जहार तथा जांबवतीं सत्यभामां कालिंदीं मित्रविंदां
नाग्निजितीं भद्रां लक्ष्मणां च भौमं हत्वा
षोडशसहस्रं शतं च राजकन्या उवाह ॥३॥
राजन् भीष्मककन्यायां रुक्मिण्यां श्रीकृष्णस्य
पुत्रः प्रथमं कामदेवावतारः पितृसमसुंदर आसीत् ॥
तस्मादनिरुद्धः सुरज्येष्ठावतारोऽभूत् ॥४॥
अथैकदोग्रसेनराजसूयाध्वरे नागवल्लीं गृहीत्वा
दिग्विजयार्थी निर्गतः प्रद्युम्नो यादवैर्भ्रातृभिः सह
जंबूद्वीपे नवखण्डविजयं कुर्वन् कामदुघनदसमीपे
वसंतमालतीपुराधिशेन पतंगेन गंधर्वराजेन युयुधे ॥५॥
तत्र गदायुद्धे गदामादाय गदो बलदेवानुजो गदाधरं
स्वगदया पतङ्ग तताड ॥ सोऽपि तं हृदि चौजसा
जघानेत्थं तयोर्गदायुद्धं घटिकाद्वयं बभूव॥ ततः
पतंगगदाप्रहारेण गदो युद्धे क्षणं मूर्च्छां जगाम ॥६॥
तदा हाहाकारे जाते कोटिमार्तंडसन्निभो बलभद्र
आविर्भूत्वा गंधर्वाणां सर्वं बलं हलाग्रेण समाकृष्य
तदुपरि क्लिष्टमुशलताडनं चकार ॥ तेन युगपत्सर्वं
सैन्यं सभटद्विपरथं चूर्णीबभूव ॥७॥
अथ पतंगोऽपि विरथो भयभीतस्तस्मात्पुरीं गत्वा
पुनर्योद्धुं यादवैः सेनाव्यूहं चकार ॥ तच्छ्रुत्वा क्रुद्धो
बलभद्रो गंधर्वाणां महापुरीं शतयोजनविस्तीर्णां
वसंतमालतीनाम्नीं सर्वां हलेन संविदार्य सहसा
कामदुघे नदे संकर्षणो विचकर्ष ॥८॥
अथ ह वाव पतितैर्गृहैर्हाहाकारे जाते तिर्यक्पोतमिवाघूर्णां
समस्तां नगरीं वीक्ष्य गंधर्वैगंधवेशः पतंगः कृतांजलिर्धर्षितो
विश्वकर्मकृतानां विमानानां द्विलक्षं गजानां चतुर्लक्षं
चाश्वशतार्बुदं च दिव्यानां रत्‍नानां भारं दशशतार्बुदं च बलिं
नीत्वा बलशालिने बलाय दत्त्वा प्रदक्षिणीकृत्य प्रणनाम ॥९॥
अथ तथा सांबमोक्षार्थं बलभद्र इहागतो भवतां पश्यतां
पुरमिदं हलाग्रेण संविदार्य श्रीगंगां साक्षात्संकर्षणो विचकर्ष ॥
तथैव नागकन्याभिर्गोपीभिर्निर्मिते रासमंडले कालिन्दिं हलाग्रेण विचकर्ष ॥१०॥
अथैकदा द्विविदो नाम वानरः सुग्रीवसचिवो भौमसखो नारदेन प्रेरितो
हरिं योद्धुकामोऽवतरद्रैवतकाचलमेत्य बलेन घटिकाचतुष्टयं युयुधे ॥
द्रुमदण्डशिलामुष्टिभिर्विनिघ्नन्तं तं बलभद्रो मुसलेन मूर्ध्नि निजघान ॥
पुनर्न मृतं मुष्टिना घातयित्वा पलायंतं भुजदंडाभ्यां गृहीत्वा
रैवतकाचलपृष्ठे पातयित्वाच्युताग्रजो दृढेन मुष्टिना हृदि तं तताड ॥
तत्पतनेन सटंकः शैलेंद्रः कमंडलुरिव चकंपे ॥११॥
अथ ह वाव राजन्नद्य भवतां पांडवैः सह युद्धोद्यमं श्रुत्वा
तीर्थाभिषेकव्याजेन ब्राह्मणैर्नागरैः सहितः पुराद्विनिर्गतो
द्वारकां प्रदक्षिणीकृत्य सिद्धाश्रमप्रभासयोः स्नात्वा पश्चिमायां
दिशि सरस्वतीप्रतिस्रोतः सैंधवारण्यजंबूमार्गोत्पलावर्ता-
र्बुदहेमवंतसिंधूनुपस्पृश्य पृथग्‌बिंदुसरस्त्रितकूपसुदर्शनात्रितौशनसाग्नेय-
वायवसौदासगुहतीर्थश्राद्धदेवादीनि तीर्थानि स्नात्वोत्तरस्यां दिशि
कैलासकरवीरमहायोगगणेशकौबेरप्राग्ज्योतिषरंगवल्ली-
सीतारामक्षेत्रचैत्रदेशवसंततिलकादशार्णभद्राकूर्मतीर्थपुष्पमाला-
चित्रवनचंद्रकांतानैःश्रेयसमनुपर्वतचक्षुःकामशालिनीकामवनवेदक्षेत्र-
सीतापृथुतीर्थ-तपोभूमिलीलावतीवेदनगरगांधर्वशक्रभीमरथी-
श्रीजाह्नवीकालिंदीहरिद्वारकुरुक्षेत्रमथुरापुष्करेषु स्नात्वा
पुनस्तस्माच्छांभलं सौकरं प्राप्य चान्यानि कुर्वन्
तीर्थानि साक्षात्संकर्षणो नैमिषारण्यं जगाम ॥१२॥
तं समागतं वीक्ष्य शौनकादयो मुनयः समुत्थाय ववंदिरे चार्चयन् ॥१३॥
तत्र वेदव्यासशिष्यं रोमहर्षणमप्रत्युत्थायिनं वीक्ष्य करस्थेन
कुशाग्रेण तं जघानेति तदा हाहेतिवादिनो मुनीन् वीक्ष्य लोकपावनोऽपि
लोकसंग्रहार्थ द्वादश मासान् तीर्थस्नानेन विशुद्धये मनो दधे ॥१४॥
तत्रेल्वलसुतो बल्वलो नाम दैत्य उपावृते पर्वणि
पांसुवर्षणप्रचंडेन वायुना पूयशोणितविण्मूत्रसुरामांसदुर्गन्धेन
समागतः खे दृष्टोऽभूत् ॥ अथ ललज्जिह्वं वज्रांगं
भिन्नकज्जलांजनचयकृष्णं तप्तताम्रश्मश्रुभयंकरं
ब्रह्मशांतये हलाग्रेण समाकृष्य गगनान्मुसलेन मूर्ध्नि बलभद्रस्तं
तताड ॥ तत्ताडनेनाकाशात्सोऽपि कमंडलुरिव व्यसुः पपात ॥१५॥
अथ प्रसन्ना मुनयोऽपि रामं संस्तुत्यावितथाशिषः
प्रयुज्य वृत्रघ्नं विबुधा इवाभ्यषिंचन् तैरभ्यनुज्ञातः
सरयूकौशिकीमानससरोवरगंडकीगौतमीषु
स्नात्वायोध्यानंदिग्रामबर्हिष्मतीब्रह्मावर्तादीन्युपस्पृश्य
तीर्थराजं प्रयागं जगाम ॥ तत्रायुतगजदानं चकार ॥१६॥
ततश्चित्रकूटविन्ध्याचलकाशीविपाशाशोणमिथिलागयादिषु
स्नात्वा गंगासागरसंगमं जगाम ॥ तत्र सुवर्ण शृङ्गाम्बरसंयुक्तं
पृथक् सुवर्णरत्‍नभारसहितं गवां कोटिशतं ब्राह्मणेभ्यः प्रादात् ॥
ततः क्रमशो दक्षिणस्यां दिशि महेन्द्राद्रिसप्तगोदावरीवेणीपंपाभीमरथी-
स्कंदक्षेत्रश्रीशैलर्वेंकटकांचीकावेरीश्रीरंगर्षभाद्रिसमुद्रसेतुकृत-
मालाताम्रपर्णीमलयाचलकुलाचलदक्षिणसिंधुफाल्गुनपंचाप्सरो-
गोकर्णशूर्पारकातापीपयोष्णीनिर्विन्ध्यादण्डकरेवा-
माहिष्मत्यवंतिकादीनि तीर्थानि साक्षात्संकर्षणः करिष्यति स्म ॥
ततस्त्वत्सहायार्थं विशसने चागमिष्यति ॥१७॥
इदं बलभद्रचरित्रं पवित्रं सर्वपापाभिहरणं तीर्थयात्रावर्णनं नितरां
मया वर्णितं सर्वमंगलकारणं कौरवेंद्र किं भूयः श्रोतुमिच्छसि ॥१८॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्‌विपाकदुर्योधनसंवादे
द्वारकालीलावर्णनं नामाष्टमोऽध्यायः ॥८॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP