श्रीरामसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


सर्वाधिपत्यं समरे गभीरं सत्यं चिदानन्दमयस्वरुपम् ।

सत्यं शिवं शान्तिमयं शरण्यं सनातनं राममहं भजामि ॥१॥

वन्दे शारदपूर्णचन्द्रवदनं वन्दे कृपाम्भोनिधिं

वन्दे शम्भुपिनाकखण्डनकरं वन्दे स्वभक्तप्रियम् ।

वन्दे लक्ष्मणसंयुतं रघुवरं भूपालचूडामणिं

वन्दे ब्रह्म परात्परं गुणमयं श्रेयस्करं शाश्वतम् ॥२॥

चिदाकारो धाता परमसुखदः पावनतनु-

र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता ।

सदा सेव्यः पूर्णो जनकतनयाङगः सुरगुरु

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥३॥

श्रीरामतो मध्यमतोदि यो न धीरोऽनिशं वश्यवतीवराद्वा ।

द्वारावती वश्यवशं निरोधी नयोदितो मध्यमातोमरा श्रीः ॥४॥

आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीयम् ।

रामधाम शरणीकरणीयं लीलया भवजलं तरणीयम् ॥५॥

अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् ।

चलस्यजस्त्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोऽतिमायिकः

यत्पादपङकजपरागपवित्रगात्रा

भागीरथी भवविरञ्चिमुखान्पुनाति ।

साक्षात्स एव मम दृग्विषयो यदास्ते

किं वर्ण्यते मम पुराकृतभागधेयम् ॥७॥

मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् ।

धनुर्धरं पद्मविनाशलोचनं भजामि नित्यंन परान्भजिष्ये ॥८॥

यत्पादपङकजरजः श्रुतिभिर्विमृग्यं

यन्नाभिपङकजभवः कमलासनश्च ।

यन्नामसाररसिको भगवान्पुरारि-

स्तं रामचन्द्रमनिशं हृदि भावयामि ॥९॥

भक्तिर्मुक्तिविधायिनी भगवतः श्रीरामचन्द्रस्य हे

लोकाः कामदुघाङ्‌घ्रिपद्मयुगलं सेवध्वमत्युत्सुकाः ।

नानाज्ञानविशेषमन्त्रविततिं त्यक्‍त्वा सुदूरे भृशं

रामं श्यामतनुं स्मरारिहृदये भान्तं भजध्वं बुधाः ॥१०॥

तव दासस्य दासानां शतसंख्योत्तरस्य वा ।

दासीत्वे नाधिकारोऽस्ति कुतः साक्षात्तवैव हि ॥११॥

जानन्तु राम तव रुपमशेषदेश-

कालाद्युपाधिरहितं घनचित्प्रकाशम् ।

प्रत्यक्षतोऽद्य मम गोचरमेतदेव

रुपं विभातु हृदये न परं विकाङ्‌क्षे ॥१२॥

त्वत्पादपद्मार्पितचित्तवृत्तिस्त्वन्नामसङ्गीतकथासु वाणी ।

त्वद्भक्तसेवानिरतौ करौ मे त्वदङगसङंग लभतां मदङगम् ॥१३॥

त्वन्मूर्तिभक्तान् स्वगुरुं च चक्षुः पश्यत्व जस्त्रं स श्रृणोतु कर्णः ।

त्वज्जन्मकर्माणि च पादयुग्मं व्रजत्वजस्त्रं तव मन्दिराणि ॥१४॥

अहं भवन्नाम गृणन् कृतार्थे वसामि काश्यामनिशं भवान्या ।

मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मन्त्रं तव रामनाम ॥१५॥

नान्या स्पृहा रघुपते हृदयेऽस्मदीये

सत्यं वदामि च भवानखिलान्तरात्मा ।

भक्तिं प्रयच्छ रघुपुङगव निर्भरां मे

कामादिदोषरहितं कुरु मानसं च ॥१६॥

कोशलेन्द्रपदकञ्जमञ्जुलौ कोमलावजमहेशवन्दितौ ।

जानकीकरसरोजलालितौ चिन्तकस्य मनभृङगसङगिनौ ॥१७॥

ब्रह्माम्भोधिसमुद्भवं कलिमलप्रध्वंसनं चाव्ययं

श्रीमच्छम्भुमुखेन्दुसुन्दरवरं संशोभितं सर्वदा ।

संसारामयभेषजं सुमधुरं श्रीजानकीजीवनं

धन्यास्ते कृतिनः पिबन्ति सततं श्रीरामनामामृतम् ॥१८॥

नीलाम्बुजश्यामलकोमलाङंगसीतासमारोपितवामभागम् ।

पाणौ महासायाकचारुचापं नमामि रामं रघुवंशनाथम् ॥१९॥

सान्द्रानन्दपयोदसौभगतनुं पीताम्बरं सुन्दरं

पाणौ बाणशरासनं कटिलसत्तूणीरभारं वरम् ।

राजीवायतलोचनं धृतजटाजूटेन संशोभितं

सीतालक्ष्मणसंयुतं पथि गतं रामाभिरामं भजे ॥२०॥

केकीकण्ठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नं

शोभाढयं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्र सन्नम् ।

पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानं

नौमीडयं जानकीशं रघुवरमनिशं पुष्पकारुढरामम् ॥२१॥

ध्येयं सदा परिभवघ्नमभीष्टदोहं

तीर्थास्पदं शिवविरञ्चिनुतं शरण्यम् ।

भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं

वन्दे महापुरुष ते चरणारविन्दम् ॥२२॥

त्यक्‍त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं

धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।

मायामृगं दयितयेप्सितमन्वधाव-

द्वन्दे महापुरुष ते चरणारविन्दम् ॥२३॥

पेयं पेयं श्रवणपुटके रामनामाभिरामं

ध्येयं ध्येयं मनसि सततं तारकं ब्रह्मरुपम् ।

जल्पञ्जल्पन् प्रकृतिविकृतौ प्राणिनां कर्णमूले

वीथ्यां वीथ्यामटति जटिलः कोऽपिकाशीनिवासी ॥२४॥

इदं शरीरं शतसन्धिजर्जरं पतत्यवश्यं परिणामि पेशलम् ।

किमौषधैः क्लिश्यसि मूढदुर्मते निरामयं रामरसायनं पिब ॥२५॥

कल्याणानां निधानं कलिमलमथनं पावनं पावनानां

पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।

विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां

बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥२६॥

अहल्या पाषाणः प्रकृतिपशुरासीत् कपिचमू-

र्गुहोऽभूच्चाण्डालस्त्रितयमपि नीतं निजपदम् ।

अहं चित्तेनाश्मा पशुरपि तवार्चादिकरणे

क्रियाभिश्चाण्डालो रघुवर न मामुद्धरसि किम् ॥२७॥

वामे भागे जनकतनया राजते यस्य नित्यं

भ्रातृप्रेमप्रवणहृदयो लक्ष्मणो दक्षिणे च ।

पादाम्भोजे पवनतनयः श्रीमुखे बद्धनेत्रः

साक्षाद्‌ब्रह्म प्रणतवरदं रामचन्द्र्म भजे तम् ॥२८॥

आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं

वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।

बालीनिग्रहणं समुद्रतरणं लङकापुरीदाहनं

पश्चाद्रावणकुम्भकर्णहननं चैतद्धि रामायणम् ॥२९॥

कदा वा साकेते विमलसरयूतीरपुलिने

चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् ।

अये राम स्वामिञ्जनकतनयावल्लभ विभो

प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥३०॥

रामनाम जपतां कुतो भयं सर्वतापशमनैकभेषजम् ।

पश्य तात मम गात्रसन्निधौ पावकोऽपि सलिलायतेऽधुना ॥

रसने त्वं रसज्ञेति वृथैव स्तूयसे बुधैः ।

अपारमाधुरीधामरामनामपराङ्‌मुखी ॥३२॥

क्षालयामि तव पादपङकजे नाथ दारुदृषदोः किमन्तरम् ।

मानुषीकरणचूर्णमस्ति ते पादयोरिति कथा प्रथीयसी ॥३३॥

न्यायावधिः श्रीनिकायाकरस्त्रिभुवनायावताररसिक-

श्छायावधीरितकलाया वलिः कनकदायादपट्टवसनः ।

जायास्पृहाजटिलमायातनू विहितकायाभिमानिचरितः

पायाददो जगदपायाददभ्रकरुणाया निधी रघुपतिः ॥३४॥

N/A

References : N/A
Last Updated : March 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP