त्रिधाप्येकं सदागम्यं गम्यमेकप्रभेदने ।
प्रेम प्रेमी प्रेमपात्रं त्रितयं प्रणतोऽस्म्यहम् ॥५८॥
अहो साहजिकं प्रेम दूरादपि विराजते ।
चकोरनयनद्वन्द्वमाह्लादयति चन्द्रमाः ॥५९॥
दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा ।
हृदयस्य द्रवत्वं यत्तत्प्रेम इति कथ्यते ॥६०॥
प्रेमप्रादुर्भावक्रमः
आदौ श्रद्धा ततः सङगस्ततोऽथ भजनक्रिया ।
ततोऽनर्थनिवृत्तिः स्यात्ततो निष्ठा रुचिस्ततः ॥६१॥
अथासक्तिस्ततो भावस्ततः प्रेमाभ्युदञ्चति ।
साधकानामयं प्रेम्णः प्रादुर्भावे भवेत्क्रमः ॥६२॥
रागात्मिका भक्तिः
इष्टे स्वारसिको रागः परमाविष्टता भवेत् ।
तन्मयी या भवेद्भक्तिः सात्र रागात्मिकोदिता ॥६३॥
अनुभावाः
क्षान्तिरव्यर्थकालत्वं विरक्तिर्मानशून्यता ।
आशाबद्धसमुत्कण्ठा नामगाने सदा रुचिः ॥६४॥
आसक्तिस्तद्गुणाख्याने प्रीतिस्तद्वसतिस्थले ।
इत्यादयोऽनुभावाः स्युर्जातभावाङकुरे जने ॥६५॥
सात्त्विका भावाः
ते स्वेदस्तम्भरोमाञ्चाः स्वरभेदोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥६६॥
सर्वेषां भावानुभावानां संकीर्णान्युदाहरणानि
बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णवाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिना-
मस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवनम् ॥६७॥
चन्द्रोदये चन्द्रकान्तो यथा सद्यो द्रवीभवेत् ।
कृष्णभक्त्युदये प्रेम्णा तथैवात्मा द्रवीभवेत् ॥६८॥
तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः ।
न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥
एवंव्रतः स्वप्रियनामकीर्त्या
जातानुरागो द्रुतचित्त उच्चैः ।
हसत्यथो रोदिति रौति गाय-
त्युन्मादवन्नृत्यति लोकबाह्यः ॥७०॥
यदा ग्रहग्रस्त इव क्वचिद्धस-
त्याक्रन्दते ध्यायति वन्दते जनम् ।
मुहुः श्वसन्वक्ति हरे जगत्पते
नारायणेत्यात्ममतिर्गतत्रपः ॥७१॥
पञ्चत्वं तनु रेतु भूतनिवहाः स्वांशान् विशन्तु प्रभो
धातस्त्वां शिरसा प्रणम्य कुरु मामित्यद्य याचे पुनः ।
तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयालये
व्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलम् ॥७२॥
संगमविरहविकल्पे वरमिह विरहो न सङगमस्तस्य ।
सङेग सैव तथैकस्त्रिभुवनमपि तन्मयं विरहे ॥७३॥
नयनं गलदश्रुधारया वदनं गद्गदरुद्धया गिरा ।
पुलकैर्निचितवपुः कदा तव नामग्रहणे भविष्यति ॥७४॥
इन्दुः क्व क्व च सागरः क्व च रविः पद्माकरः क्व स्थितः
क्वाभ्रं वा क्व मयूरपङ्क्तिरमला क्वालिः क्व वा मालती ।
मन्दाध्वक्रमराजहंसनिचयः क्वासौ क्व वा मानसं
यो यस्याभिमतः स तस्य निकटे दूरेऽपि वा वल्लभः ॥७५॥