पञ्चमहाभूतविवेकः - श्लोक ४१ ते ६०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


ननु भूम्यादिकं मा भूत् परमाण्वन्त नाशतः । कथं ते वियतो ऽसत्वं बुद्धिम् आरोहतीति चेत् ॥४१॥

अत्यन्तं निर्जगद् व्योम यथा ते बुद्धिम् आश्रितम् । तथैव सन् निराकाशं कुतो नाश्रयते मतिम् ॥४२॥

निर्जगद् व्योम दृष्टं चेत् प्रकाश तमसी विना । क्व दृष्टं किं च ते पक्षे न प्रत्यक्षं वियत् खलु ॥४३॥

सद् वस्तु शुद्धं त्व् अस्माभिर् निश्चितैर् अनुभूयते । तूष्णीं स्थितौ न शून्यत्वं शून्य बुद्धेश् च वर्जनात् ॥४४॥

सद् बुद्धिर् अपि चेन् नास्ति मा ऽस्त्व् अस्य स्वप्रभत्वतः । निर्मनस्कत्व साक्षित्वात् सन्मात्रं सुगमं नृणाम् ॥४५॥

मनो जृम्भण राहित्ये यथा साक्षी निराकुलः । माया जृम्भणतः पूर्वं सत् तथैव निराकुलम् ॥४६॥

निस्तत्त्वा कार्यगम्या ऽस्य शक्तिर् मायाऽग्नि शक्तिवत् । न हि शक्तिः क्वचित् कैश्चिद् बुद्ध्यते कारयतः पुरा ॥४७॥

न सद्वस्तु सतः शक्तिर् न हि वह्नेः स्वशक्तिता । सद्विलक्षणतायां तु शक्तेः किं तत्त्वम् उच्यताम् ॥४८॥

शून्यत्वम् इति चेच् छून्यं मायाकार्यम् इतीरितम् । न शून्यं नापि सद् यादृक् तादृक् तत्त्वम् इहेष्यताम् ॥४९॥

नासद् आसीन् नो सद् आसीत् तदानीं किन्त्व् अभूत् तमः । सद्योगात् तमसः सत्त्वं न स्वतस् तन् निषेधनात् ॥५०॥

अत एव द्वितीयत्वं शून्यवन् न हि गण्यते । न लोके चैत्र तच् चक्त्योर् जीवितं लिख्यते पृथक् ॥५१॥

शक्त्य् आधिक्ये जीवितं चेद् वर्धते तत्र वृद्धि कृत् । न शक्तिः किन्तु तत् कार्यं युद्ध कृष्यादिकं तथा ॥५२॥

सर्वथा शक्ति मात्रस्य न पृथग् गणना क्वचित् । शक्ति कार्यं तु नैवास्ति द्वितीयं शंक्यते कथम् ॥५३॥

न कृत्स्न ब्रह्म वृत्तिः सा शक्तिः किन्त्व् एक देश भाक् । घट शक्तिर् यथा भूमौ स्निग्ध मृद्य् एव वर्तते ॥५४॥

पादो ऽस्य सर्वा भूतानि त्रिपाद् अस्ति स्वयं प्रभः । इत्य् एक देश वृत्तित्वं मायाया वदति श्रुतिः ॥५५॥

विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् । इति कृष्णो ऽर्जुनायाह जगतस्त्व् एकदेशताम् ॥५६॥

सा भूमिं विश्वतो वृत्वा ह्य् अत्यतिष्ठद् दशाङ्गुलम् । विकारावर्ति चात्रास्ति श्रुति सूत्र कृतोर् वचः ॥५७॥

निरंशे ऽपि अंशम् आरोप्य कृत्स्ने ऽंशे वेति पृच्छतः । तद् भाषयोत्तरं ब्रूते श्रुतिः श्रोतृ हितैषिणी ॥५८॥

सत् तत्त्वम् आश्रिता शक्तिः कल्पयेत् सति विक्रियाः । वर्ण भित्ति गता भित्तौ चित्रं नानाविधं यथा ॥५९॥

आद्यो विकार आकाशः सो ऽवकाश स्वरूपवान् । आकाशो ऽस्तीति सत् तत्त्वम् आकाशे ऽप्य् अनुगच्छति ॥६०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP