सन्धयः अखिल वृत्तीनाम् अभावाः च अवभासिताः । निर्विकारेण येन असौ कूटस्थः इति च उच्यते ॥ २१॥
घटे द्विगुण चैतन्यं यथा बाह्ये तथान्तरे । वृत्तिषु अपि ततः तत्र वैशद्यं सन्धितः अधिकम् ॥ २२॥
ज्ञातता अज्ञातते न स्तः घटवत् वृत्तिषु क्वचित् । स्वस्य स्वेन अग्रहीतत्वात् ताभिः च अज्ञान नाशनात् ॥ २३॥
द्विगुणी कृत चैतन्ये जन्म नाश अनुभूतितः । अकूटस्थं तत् अन्यत् तु कूटस्थम् अविकारितः ॥ २४॥
अन्तःकरण तत् वृत्ति साक्षि इति आदौ अनेकधा । कूटस्थः एव सर्वत्र पूर्व आचार्यैः विनिश्चितः ॥ २५॥
आत्मा आभास आश्रयः च एवं मुख आभास आश्रयाः यथा । गम्यन्ते शास्त्र युक्तिभ्याम् इति आभासः च वर्णितः ॥२६॥
बुद्धि अवच्छिन्न कूटस्थः लोकान्तरगम आगमौ । कर्तुं शक्तः घटाकाशः इव आभासेन किं वद ॥ २७॥
शृणु असङ्गः परिच्छेद मात्रात् जीवः भवेत् न हि । अन्यथा घट कुडि आद्यैः अवच्छिन्नस्य जीवता ॥ २८॥
न कुड्य सादृशी बुद्धिः स्वच्छत्वात् इति चेत् तथा । अस्तु नाम परिच्छेदे किं स्वाच्छ्येन भवेत् तव ॥ २९॥
प्रस्थेन दारुजन्येन कांस्यजन्येन वा न हि । विक्रेतुः तण्डुल आदिनां परिमाणं विशिष्यते ॥ ३०॥
परिमाणविशेषे अपि प्रतिबिम्बः विशिष्यते । कांस्ये यदि तदा बुद्धौ अपि आभासः भवेत् बलात् ॥ ३१॥
ईषद् भासनम् आभासः प्रतिबिम्बः तथाविधः । बिम्ब लक्षण हीनः सन् बिम्बवत् भासते सः हि ॥ ३२॥
ससङ्गत्वविकाराभ्यां बिम्बलक्षणहीनता । स्फूर्ति रूपत्वम् एतस्य बिम्बवत् भासनं विदुः ॥ ३३॥
न हि धीभावभावित्वात् आभासः अस्ति धियः पृथक् । यथा मृत् अल्पम् एव उक्तं धीः अपि एवं स्वदेहतः ॥ ३४॥
देहे मृते अपि बुद्धिः चेत् शास्त्रात् अस्ति तथा सति । बुद्धेः अन्यः चिदाभासः प्रवेश श्रुतिषु श्रुतः ॥ ३५॥
धीयुक्तस्य प्रवेशः चेत् न इतरेये धियः पृथक् । आत्मा प्रवेशन् संकल्प्य प्रविष्टः इति गीयते ॥ ३६॥
कथं नु इदं साक्षदेहं मत् दृते स्यात् इति ईरणात् । विदार्य मूर्धसीमानं प्रविष्टः संसरति अयम् ॥ ३७॥
कथं प्रविष्टः असङ्गः चेत् सृष्टिः वास्य कथं वद । मायिकत्वं तयोः तुल्यं विनाशः च समस्तयोः ॥ ३८॥
समुत्थाय एषः भूतेभ्यः तानि एव अनुविनश्यति । विनष्टम् इति मैत्रेय्यै याज्ञवल्क्यः उवाच हि ॥ ३९॥
अविनाशि अयम् आत्मा इति कूटस्थः प्रविवेचितः । मात्रासंसर्गः इति एवम् असङ्गत्वस्य कीर्तनात् ॥ ४०॥