युवा रूपी च विद्यावान् नीरोगः दृढचित्तवान् । सैन्य उपेतः सर्व पृथ्वीं वित्त पूर्णां प्रपालयन् ॥ २१॥
सर्वैः मानुष्यकैः भोगैः सम्पन्नः तृप्त भूमिपः । यम् आनन्दम् अवाप्नोति ब्रह्मवित् च तम् अश्नुते ॥ २२॥
मर्त्य भोगे द्वयोः न अस्ति कामः तृप्तिः अतः समा । भोगान् निष्कामता एकस्य परस्य अपि विवेकतः ॥ २३॥
श्रोत्रियत्वात् वद शास्त्रैः भोग दोषान् अवेक्षते । राजा बृहद्रथः दोषान् तान् गाथाभिः उदाहरत् ॥ २४॥
देह दोषान् चित्त दोषान् भोग्य दोषान् अनेकशः । शुनां वान्ते पायसे नो कामः तद्वत् विवेकिनः ॥ २५॥
निष्कामत्वे समे अपि अत्र राज्ञः साधन सञ्चये । दुःखम् आसीत् भावि नाशात् इति भीः अनुवर्तते ॥ २६॥
न उभयं श्रोत्रियस्य अतः तत् आनन्दः अधिकः अन्यतः । गन्धर्व आनन्दः आशा अस्ति राज्ञः न अस्ति विवेकिनः ॥ २७॥
अस्मिन् कल्पे मनुष्यः सन् पुण्यपाक विशेषतः । गन्धर्वत्वं समापन्नः मर्त्य गन्धर्वः उच्यते ॥ २८॥
पूर्व कल्पे कृतात् पुण्यात् कल्प आदौ एव चेत् भवेत् । गन्धर्वत्वं तादृषः अत्र देव गन्धर्व उच्यते ॥ २९॥
अग्निष्वात्तादयः लोके पितरः चिरवासिनः । कल्पादौ एव देवत्वं गताः आजान देवताः ॥ ३०॥
अस्मिन् कल्पे अश्वमेध आदि कर्म कृत्वा महत् पदम् । अवाप्य अजानदेवैः याः पूज्याः ताः कर्म देवताः ॥ ३१॥
यमाग्नि मुख्याः देवाः स्युः ज्ञतौ इन्द्र बृहस्पती । प्रजापतिः विराट् प्रोक्तः ब्रह्मा सूत्रात्म नामकः ॥ ३२॥
सार्वभौम आदि सूत्रान्ताः उत्तरोत्तर कामिनः । अवाङ्मनसगम्यः अयम् आत्मानन्दः ततः परः ॥ ३३॥
तैः तैः काम्येषु सर्वेषु सुखेषु श्रोत्रियः यतः । निस्पृहः तेन सर्वेषाम् आनन्दाः सन्ति तस्य ते ॥ ३४॥
सर्व काम आप्तिः एष उक्ता यद्वा साक्षि चिदात्मना । स्वदेहवत् सर्व देहेषु अपि भोगान् अवेक्षते ॥ ३५॥
अज्ञस्य अपि एतत् अस्ति एव न तु तृप्तिः अबोधतः । यः वेद सः अश्नुते सर्वान् कामान् इति अब्रवीत् श्रुतिः ॥ ३६॥
यद्वा सर्वात्मतां स्वस्य साम्ना गायति सर्वदा । अहम् अन्नं तथा अन्नादः च इति साम हि अधीयते ॥ ३७॥
दुःख अभावः च काम आप्तिः उभे हि एवं निरूपिते । कृत कृत्यत्वम् अन्यत् च प्राप्त प्राप्यत्वम् ईक्षताम् ॥ ३८॥
उभयं तृप्ति दीपे हि सम्यक् अस्माभिः ईरितम् । तः एव अत्र अनुसन्धेयाः श्लोकाः बुद्धि विशुद्धये ॥ ३९॥
ऐहिक आमुष्मिक व्रात सिद्ध्यै मुक्तेः च सिद्धये । बहु कृत्यं पुरास्य अभूत् तत् सर्वम् अधुना कृतम् ॥ ४०॥