सत्ता चितिः द्वयं व्यक्तं धी वृत्त्योः घोर मूढयोः । शान्त वृत्तौ त्रयं व्यक्तं मिश्रं ब्रह्म इत्थम् ईरितम् ॥ २१॥
अमिश्रं ज्ञान योगाभ्यां तौ च पूर्वम् उदीरितौ । आद्ये अध्याये योग चिन्ता ज्ञानम् अध्यायोः द्वयोः ॥ २२॥
असत्ता जाड्य दुःखे द्वे माया रूपं त्रयं तु इदम् । असत्ता नर शृङ्ग आदौ जाड्यं काष्ठ शिला आदिषु ॥ २३॥
घोर मूढ धियोः दुःखम् एवं माया विजृम्भिता । शान्त आदि बुद्धि वृत्ति ऐक्यान् मिश्रं ब्रह्म इति कीर्तितम् ॥ २४॥
एवं स्थिते अत्र यः ब्रह्म ध्यातुम् इच्छेत् पुमान् असौ । नृ शृङ्ग आदिम् उपेक्षेत शिष्टं ध्यायेत् यथायथम् ॥ २५॥
शिला आदौ नाम रूपे द्वे त्यक्त्वा अत् मात्र चिन्तनम् । त्यक्त्वा दुःखं घोर मूढ धियोः सत् चित् विचिन्तनम् ॥ २६॥
शान्तासु सच्चिदानन्दां त्रीन् अपि एवं विचिन्तयेत् । कनिष्ठ मध्यम उत्कृष्टाः तिस्रः चिन्ताः क्रमात् इमाः ॥ २७॥
मन्दस्य व्यवहारे अपि मिश्र ब्रह्मणि चिन्तनम् । उत्कृष्टं व्यक्तुम् एव अत्र विषयानन्दः ईरितः ॥ २८॥
औदासीन्ये तु धी वृत्तेः शैथिल्यात् उत्तमोत्तमम् । चिन्तनं वासनानन्दे ध्यानम् उक्तं चतुर्विधम् ॥ २९॥
न ध्यानं ज्ञान योगाभ्यां ब्रह्म विद्या एव सा खलु । ध्यानेन एकाग्र्यम् आपन्ने चित्ते विद्या स्थिरी भवेत् ॥ ३०॥
विद्यायां सच्चिदानन्दाः अखण्ड एक रसात्मताम् । प्राप्य भान्ति न भेदेन भदक उपाधि वर्जनात् ॥ ३१॥
शान्ताः घोराः शिला आद्या च भेदक उपाधयः मताः । योगात् विवेकतः वैषम् उपाधीनाम् अपाकृतिः ॥ ३२॥
निरुपाधि ब्रह्म तत्त्वे भासमाने स्वयं प्रभे । अद्वैते त्रिपुटी न अस्ति भूमानन्दः अतः उच्यते ॥ ३३॥
ब्रह्मानन्द अभिधे ग्रन्थे पञ्चमः अध्यायः ईरितः । विषयानन्दः एतेन द्वारेण अन्तः प्रवेश्यताम् ॥ ३४॥
प्रीयात् हरिहरः अनेन ब्रह्मानन्देन सर्वदा । पायात् च प्राणिनः सर्वान् स्वाश्रितान् शुद्ध मानसान् ॥३५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्री विद्यारण्यमुनि विरचितः पञ्चदशी ग्रन्थः समाप्तः ।