१२११) क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी
१२१२) स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा
१२१३) मातुलानी तु भङ्गायां व्रीहि भेदस् त्वणुः पुमान्
१२१४) किंशारुः सस्यशूकं स्यात् कणिशं सस्यमञ्जरी
१२१५) धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस् तृणादिनः
१२१६) नाडी नालं च काण्डोऽस्य पलालोस्त्री स निष्फलः
१२१७) कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्
१२१८) शूकोऽस्त्री श्लक्ष्णतीक्ष्णाऽग्रे शमी शिम्बा त्रिषूत्तरे
१२१९) ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्
१२२०) माषादयः शमीधान्ये शूकधान्ये यवादयः
१२२१) शालयः कलमाद्याश् च षष्टिकाद्याश् च पुंस्यमी
१२२२) तृणधान्यानि नीवाराः स्त्री गवेधुर् गवेधुका
१२२३) अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्
१२२४) प्रस्फोटनं शूपर्मस्त्री चालनी तितौः पुमान्
१२२५) स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ
१२२६) समानौ रसवत्यां तु पाकस्थानमहानसे
१२२७) पौरोगवस् तदध्यक्षः सूपकारास् तु बल्लवाः
१२२८) आरालिका आन्धसिकाः सूदा औदनिका गुणाः
१२२९) आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु
१२३०) अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका
१२३१) अङ्गारधानिकऽअंगारशकट्यपि हसन्त्यपि
१२३२) हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम्
१२३३) क्लीबेऽम्बरीपं भ्राष्ट्रो ना कन्दुर् वा स्वेदनी स्त्रियाम्
१२३४) अलिञ्जरः स्यान्मणिकं कर्कर्यालुर्गलन्तिका
१२३५) पिठरः स्थाल्युखा कुण्डं कलशस् तु त्रिषु द्वयोः
१२३६) घटः कुटनिपावस्त्री शरावो वधर्मानकः
१२३७) ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्
१२३८) कुतूः कृत्तेः स्नेहपात्रं सैवाऽल्पा कुतुपः पुमान्
१२३९) सवर्मावपनं भाण्डं पात्रामत्रे च भाजनम्
१२४०) दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः
१२४१) अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका
१२४२) कलम्बश् च कदम्बश् च वेषवार उपस्करः
१२४३) तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्
१२४४) मरीचं कोलकं कृष्णभूषणं धर्मपत्तनम्
१२४५) जीरको जरणोऽजाजि कणाः कृष्णे तु जीरके
१२४६) सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका
१२४७) आर्द्रकं शृङ्गबेरं स्यादथ छत्रा वितुन्नकम्
१२४८) कुस्तुम्बरु च धान्याकमथ शुण्ठी महौषधम्
१२४९) स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्
१२५०) आरनालकसौवीरकुल्माषऽभिशुतानि च