शुभदा ब्राह्मणादीनां सर्वेषामपि शोभनाः । उत्तमाः शुद्धकालेषु स्थाप्याः शुद्धविधानतः ॥२१॥
काष्ठादिकृतगेहेषु कालापेक्षां न कारयेत । तृणदारुगृहारम्भे विकल्पं नैव कारयेत ॥२२॥
सौवर्णादिगृहारम्भे मासदोषो न विद्यते । पञ्चांगशुद्धकाले तु न चैत्रे सिंहपौषके ॥२३॥
प्रवेशनं च कर्तव्यं महोत्सवदिने तथा । पक्वेष्टकनिर्मिते तु शिल्पमानं प्रवक्ष्यते ॥२४॥
काष्ठादिनिर्मिते गेहे स्तम्भमानं प्रचक्षते । सौवर्णाद्ये हस्तमानं जातु षाद्ये न किञ्चन ॥२५॥
पादुकोपानहौ कार्यो अंगुलस्य प्रमाणतः । मञ्चादिकञ्चासनञ्च अंगुलैनैव कारयेत ॥२६॥
प्रतिमा पीठिका चापि लिंगं वा स्तम्भमेव वा । गवाक्षाणां प्रमाणश्च शिलामानं तथैव च ॥२७॥
खंगचर्मायुधादीनां प्रमाणं चांगुलानि च । विषमाः शुभदाः पुंसां समा सौख्यविनाशकाः ॥२८॥
अंगुलस्य प्रमाणन्तु कथयामि समासतः । नवाष्टसप्तषटू पूर्वा अंगुलाः परिकीर्तिताः ॥२९॥
त्रिविधस्यापि हस्तस्य प्रत्येकं कर्म दर्शितम । ग्रामखेटपुरादीनां विभागोऽयमविस्तरात ॥३०॥
परिखाद्वाररथ्याश्च स्तम्भाः प्रासादवेश्मनाम । तेषां निर्गममार्गे च सीमान्तेऽत्रान्तराणि च ॥३१॥
दिशान्तरविभागश्च वस्त्रायो धनयोस्तथा । अध्वनः परिमाणं च कोशगव्यूतियोजनैः ॥३२॥
खातक्रकचराशी च प्रासादायनमापम । नवयावांगुले हस्ते तस्य मानं प्रचक्षते ॥३३॥
आयोधनानि चर्माणि तथा चण्डायुधानि च । वापीकूपप्रमाणानि तथा च गजवाजिनाम ॥३४॥
इक्षुयंत्रारघण्टाश्च हलयूपयुगध्वजाम । अतोयानि च नावश्च शिल्पिनां वाप्युपस्करम ॥३५॥
पादुके वदशी छत्रं धर्मोद्यानानि चैव हि । मात्राष्टयवहस्तेन न च दण्डांश्च मापयेत ॥३६॥
जालन्धरे हस्तसंख्याऽवधे च दण्डकास्तथा । मध्यदेशे क्रोशसंख्या द्वीपान्तरे तु योजनम ॥३७॥
चतुर्विशत्यंगुलैस्तु हस्तमानं प्रचक्षते । चतुर्हस्तो भवेद्दण्डः क्रोशं तदद्विसहत्रक्रम ॥३८॥
चतुष्क्रोशं योजनं तु वशो दशौकरैमितः । निवर्त्तनं विंशतिकरैः क्षेत्रं तच्च चतुष्करैः ॥३९॥
शतवेश्मनि देशांश्च गृहादीनां निवर्त्तनम। एकाज्ञीतिपदेनैव सर्व स्थानं च मापयेत ॥४०॥