सर्पयुक्ते सर्पभयं देवालयगते क्षयः । कन्याजन्म तु कन्यांके सच्छिद्रेस्वामिनो भयम ।
लिंगे वा प्रतिमायां वा तथा शक्रध्वजेऽपि च ॥२१॥
आग्नेयपञ्चके चन्द्रे न विदध्यात्कदाचन । गृहे देवालये वापि परीक्षेत प्रयत्नतः ।
मासदग्धं वारदग्धं तिथिदग्धं तथैव च ॥२२॥
रिक्तातिथि च दर्श च तिथिं षष्ठीं च वर्जयेत । एकार्गलं तथा भद्रां ये च योगाः कुसंज्ञकाः ॥२३॥
उत्पातदूषित मृक्षं संक्रान्तौ ग्रहणेषु च । वैधृतौ च व्यतीपाते न विदध्यात्कदाचन ॥२४॥
सौम्यं पुनर्वसुर्मैत्रं करं मूलोत्तराद्वये । स्वातौ च श्रवणं चैव वृक्षाणां छेदनं शुभम ॥२५॥
समभूमिर्वने यस्मिंस्तस्मिन्वृक्षं प्रपूजयेत । गन्धपुष्पादिनैवेद्यं बलिं दद्याद्विशेषतः ॥२६॥
वस्त्रेणाच्छदितं कृत्वा वेष्टयेत्तन्तुना तथा श्वेतवर्णानुवर्णेन वर्णानुक्तक्रमेण च ॥२७॥
मन्त्रैरेतैर्यथान्यायं प्रार्थयेत्त पुनः पुनः । आचार्यः सूत्रधारश्च रात्रौ तमधिवास्य च ॥२८॥
स्पृष्ट्वा वृक्षमिमं मन्त्रं ब्रूपाद्रात्रौ विधानवित । यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः ॥२९॥
उपहारं गृहीत्बेमं क्रियतां वासपर्ययः । प्रार्थयित्वा वरयते स्वस्ति तेऽस्तु नगोत्तम ॥३०॥
गृहार्थ वान्यकार्यार्थ पूजेय प्रतिगृह्यताम । परमान्नमोदकौदनदधिपल्लोलादिभिर्दशैः ॥३१॥
मद्यैः कुसुमधूपैश्च गन्धैश्चैव तरुं पुनः ॥ सुरपितृपिशाचराक्षसभुजगासुरविनायकाश्च ।
गृह्णंतु मत्प्रयुकां वृक्षं संस्पृश्य ब्रूयात ॥३२॥
यानीह भूतानि वसंति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम ।
अन्यत्र वासं परिकल्पयतु क्षमन्तु तानद्य नमोऽस्तु तेभ्यः ॥३३॥
वृक्षं प्रभाते सलिलेन सिक्ता मध्वाज्यलिप्तेन कुठारकेण ।
पूर्वोत्तरस्यां दिशि संनिकृत्यं प्रदक्षिणं शेषमतो विहन्यात ॥३४॥
छेदयेद्वर्तुलाकारं पतन चोपलक्ष्ययेत । प्राग्दिशः पतन कुर्याद्धनधान्यसमर्चितम ।
आग्नेय्यामग्निदाहः स्याद्दक्षिणे मृत्युमादिशेत । नैऋत्ये कलहं कुर्यात्पश्चिमे पशुवृद्धिदम ॥३५॥
वायव्ये चौरभीतिः स्यादुत्तरे च धनागमम । ईशाने च महाश्रेष्ठ नानाश्रेष्ठ तथैव च ॥३६॥
भग्नं वा यत्भवेकाष्ठं यच्चान्यक्तरुमध्यगम । तन्न शस्तं गृहे वर्ज्य दोषदं कर्म कारयेत ॥३७॥
भग्नकाष्ठे हता नारी स्वामीनायुधसंज्ञके । कर्मकर्त्तारमन्तस्थं धननाशकरं महत ॥३८॥
एकमाद्यं महाश्रेष्ठं धनधान्यसमृद्धिदम । पुत्रदार पशूश्चैव नानारत्नसमन्वितम ॥३९॥
द्विभागं सफलं प्रोक्तं त्रिभागं दुःखदं स्मृतम । चतुष्षष्ठे बन्धनं च पञ्चमे मृत्युमादिशेत ॥४०॥
जर्ज्जरे धननाशः स्यान्मध्ये छिद्र गदप्रदम । निष्फले निष्फलं गेहं सफले फलमेव च ॥४१॥
विरुपे धननाशः स्यात सक्षते रोगमेव च । हीनांगे क्षीरनाशं च विकटे कन्यकोद्भवम ॥४२॥
काष्ठं नो भुज्यते कीटैर्यदि पक्षं धृतं जले । कृष्णपक्षे छेदनं च न शुक्ले कारयेद्बुधः ॥४३॥
उद्धृत्य काष्ठं शकटैर्मनुष्यैर्वा समन्ततः । वैन्यानाशे तस्य नाशः आरभंगे बलक्षयः ॥४४॥
अर्थक्षयोऽक्षयभेदे च तथा भंगे च वर्धके । विजयाय भवेच्छवेतः पीतो रोगप्रदो मतः ॥४५॥
जयदश्चित्ररुपश्च रक्तैः शस्त्राद्भयं भवेत । प्रवेशे चैव दारुणां बालकाश्चापि तारुणाः ॥४६॥
यद्वा वाचं कथयन्ति तत्तथैव भविष्यति । रज्जुच्छेदे बालपीडा यन्त्रभेदे तथैव च ॥४७॥
इति प्रोक्तं मया वृक्षच्छेदनार्थ विधानतः । शकुनानि परीक्षेत दारुच्छेदनकर्मणि ॥४८॥
इति वास्तुशास्त्रे वृक्षच्छेदनविधिर्नाम नवमोऽध्यायः ॥९॥