वास्तुहोमं ततः कुर्याद्भूम्यादीनां तथैव च । भैरवी भैरवाः सिद्धिग्रहा नागा उपग्रहाः ॥४१॥
भैरवस्य समीपस्थांस्तान सम्पूज्य यथाविधि । क्षेत्रपालस्य मन्त्रेण होमं कुर्याद्विधानतः ॥४२॥
होमान्ते पञ्चभिर्बिल्वैर्बिल्वबीजैस्तथापि वा । वास्तुहोमं प्रकुर्वीत कोटपालस्य नामतः ॥४३॥
स्वामिनामस्य मन्त्रेण प्रणवाद्येन वै द्विज । भूर्भुवः स्वरितिपूर्वेण पूजां वा होममेव च ॥
दुष्टग्रहाणां मंत्रैश्च हुनेदष्टोत्तरं शतम । प्रत्येकं जुहुयाद्विद्वांस्तिलैर्वाथ घूतेन वा ॥४४॥
उष्ट्रिमन्त्रं जपेन्मध्ये सहस्त्रेण शतेन वा । अष्टोत्तरं शतं हुत्वा बलिं दद्यादतः परम ॥४५॥
पूरिकाया बलिं पूर्वे दक्षिणे कृशर ततः । पश्चिमे पायसं दद्यादुत्तरे घृतपायसम ॥४६॥
दिक्पालानां बलि चैव क्षेत्रपालबलिं ततः । कोटपालंबलिं चैव कोटस्वामिबलिं ततः ॥४७॥
पुरोपरि पशून्दद्याद्द्वाराग्रे महिषं ततः । यमश्लोकं जपेत्पूर्वं सहस्त्रस्य प्रमाणतः ॥४८॥
पूर्णां दत्वाथ विधिवत्स्वशक्त्या दक्षिणां चरेत । ब्राह्मणान्भोजयेत्पश्चात्ततः सिद्धिर्भविष्यति ॥४९॥
पुरकर्म ततः कृत्वा सन्धाकाले च नैऋते । बलिं दद्याद्विधानेन मन्त्रान्पूर्वोदितान्पठेत ॥५०॥
मांसौदनबलिं चैव मन्त्रमेतदुदीरयेत । ॐ ह्रीं सर्वविघ्नानुत्सारय नननननन न मोहिनि स्तंभिनि
मम शत्रुं मोहय मोहय स्तम्भय स्तम्भय अस्य दुर्गस्य रक्षां कुरु क्रुरु स्वाहा ॥
बलिं दत्त्वा ह्यनेनापि कृतकृत्यो भवेन्नरः । दुष्ट ऋक्षस्य यः स्वामी तन्मन्त्रेण च कारयेत ॥५१॥
खादिरस्य च कीलं तु द्वादशांगुलमानतः । मृत्युजयेन मन्त्रेण अभिमंत्र्य सहस्त्रधा ॥५२॥
स्थिरलग्ने स्थिरांशे च सुलग्ने सुदिने ततः । रोपयेद्दुर्गमध्ये तु ततः सिद्धिभविष्यति ॥५३॥
सर्वदा सुखभागी च कोटापो भवति ध्रुवम । उष्ट्रीमन्त्रः - ॐ ह्रीं उष्ट्रि विकृतदंष्ट्रानने त्रुं फट ॥५४॥
उष्ट्रीमन्त्रं दशसहस्त्राणि जपित्वा घृतमधुना पुष्पैः सहस्त्रमेकं यजेत्ततः सिद्धो भवति ॥५५॥
यमश्लोकं द्वात्रिंशाक्षरं द्वात्रिंशत्सहस्त्राणि जपेत्ततः सिद्धो भवति ॥५६॥
तथा पूर्वविधिना शतशतानि होमयेत्ततः सिद्धो भवति तत्तसकलं कर्म करोति ॥५७॥
द्वादशारं लिखेच्चकं वृत्तत्रय विभूषितम । उष्ट्रिमन्त्रश्च तद्वाह्ये यमश्लोकौ च मध्यतः ॥५८॥
वज्रार्गलविधानन्तु कर्तव्यं दुर्गलक्षणे । भजने यमराजाख्यामित्युक्तं ब्रह्मयामले ॥५९॥
मृत्युञ्जयमंत्रः - ॐ जूॐसः ॥
इति वास्तुशास्त्रे कोटवास्तूकरणं नाम एकादशोऽध्यायः ॥११॥