नन्द नन्दय वासिष्ठे वसुभिश्च हितप्रजे । तिष्ठाप्यस्मिन्गृहान्ते त्वं सर्वदा सुखदा भव ॥६१॥
भद्रे त्वं भद्रदा पुंसां कुरु काश्यपनन्दिनि । आयुरारोग्यमतुलं सर्वशल्यान्निवारय ॥६२॥
जये भार्गवदायादे प्रजानां हितमावह । स्थापयाम्यत्र देवि त्वां सर्वाञ्छल्यान्निवारय॥६३॥
रिक्ते त्वं रिक्तदोषघ्ने सिद्धिदे सुखदे शुभे । सर्वदा सर्वदोषघ्ने तिष्ठास्मिन्नत्रिनंदिनि ॥६४॥
अव्यंगे चाक्षते पूर्णे मुनेरंगिरसः सुते । इष्टके त्वं प्रयच्छेष्टं शुभञ्च गृहिणां कुरु ॥६५॥
ताम्रकुम्भञ्च निक्षिप्य शिलां दीपं तथैव च । गीतवादित्रनिर्घोषं कृत्वा तं पूरयेन्मृदा ॥६६॥
त्दृदि कृत्य शिलाकुम्भं मन्त्रोनेतानुदीरयेत । नमस्ते वास्तुपुरुष भूमिशय्यारत प्रभो ॥६७॥
मद्गृहं धनधान्यादिसमृद्धं क्रुरु सर्वदा । नागनाथ नमस्तेऽस्तु शल्यस्योद्धरणे क्षम ॥६८॥
वास्तुरुपो विश्वधारी प्रजानां हितमावह । पृथ्वित्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वञ्च धारय मां देवि पवित्रं कुरु चासनम ॥६९॥
गणपत्यादयो लोका देवा दिक्पालकास्तथा सायुधाः सगणोपेताः शुद्धं कुर्वन्तु मे गृहम ॥७०॥
इतिमन्त्रपठित्वा तु दद्याद्वाह्यबलिं ततः । राक्षसानां पिशाचानां गुह्य कोरपक्षिणाम ॥७१॥
भूतानां च तथा यक्षगाणानां ग्रामवासिनाम । पूर्वोक्तैरागमैर्मत्रौर्विधानेन विधानवित ॥७२॥
संगृह्णन्तु बलिं सर्वे तृप्ताः शल्यं हरन्तु मे । कुम्भाष्टकानान्तु जलैस्तद्गृहं चाभिषिंचयेत ॥७३॥
भेद्त्रयं तथोत्पाता ग्रहपीडाश्च दारुणाः । ते सर्वे नाशमायन्तु शल्योद्धारे कृते गृहे ॥७४॥
आचार्याय च गां दद्यादृत्विग्भ्यो दक्षिणां तथा । दानमानेन संतोष्य दैवज्ञ स्थपतिं तथा ॥७५॥
अन्यांश्च विधिवत्पूज्य दक्षिणाभिः स्वशक्तितः । दीनान्धकृपणे भ्योऽपि लिंगिभ्योऽपि विशेषतः ॥७६॥
गायकेभ्यस्तथान्येभ्योः नटेभ्यो दक्षिणां ततः । दद्यात्स्ववेश्मनि यथाशक्ति विप्रांश्च भोजयेत ॥७७॥
भुञ्जीत बन्धुभिस्सार्द्ध विहरेच्च सुखं ततः । एवं यः कुरुते विप्राः शल्योद्धारं स्ववेश्मनि ॥७८॥
सुखवान दीर्घजीवी स्यात्पुत्रान पौत्रांश्च विन्दति ॥७९॥
इति वास्तुशास्त्रे शल्योद्धारनिर्णयो नाम द्वादशोऽध्यायः ॥१२॥