गुलिकादि उपग्रह नमामि मान्दिं यमकण्टकाख्य- मर्द्धप्रहारं भुवि कालसंज्ञम् ।
धूमव्यतीपातपरिध्यभिख्यान्- उपग्रहानिन्द्रधनुश्च केतून् ॥१॥
चरं रुद्रदास्यं घटं नित्यतानं खनिर्मान्दनाढ्यः कार्यौ ।
अहर्मानवृद्धिक्षयौ तत्र कार्यौ निशायां तु वारेश्चरात्पञ्चमाद्याः ॥२॥
दिव्या घटी नित्यतनुः खनीनां चन्द्रे रुरुः स्याद्यमकण्टकस्य ।
अर्द्धप्रहारस्य भटो नटेन स्तनौ खनी चन्द्रखरौ जयज्ञः ॥३॥
कालस्य फेनं तनुरुद्रदिव्यं वन्द्यो नटस्तैरनुसूर्यवारात् ।
एषां समं मान्दिवदेव तत्त न्नाड्या स्फुट लग्नवदत्र साध्यम् ॥४॥
धूमो वेदगृहैस्त्रयोदशभिरप्यंशैः समेते रवौ स्यात्तस्मिन् व्यतिपातको विगलिते चक्रादथास्मि न्युते ।
षड्भिभैः परिवेश इन्द्रधनुरित्यस्मिंश्च्युते मण्डला- दत्यष्टयंशयुतेऽत्र केतुरथ तत्रैकर्क्षयुक्तो रविः ॥५॥
भावाध्याये पूर्वमेव मया प्रोक्तं समुच्चयम् ।
मुक्तानां यत्तदेवात्र वाच्यं भावफलं दृढम् ॥६॥
तथापि गुलिकादिनां विशेषोऽत्र निगद्यते ।
पूर्वाचार्यैयर्दाख्यातं तत्संगृह्य मयोदितम् ॥७॥
चोरः क्रूरो विनयरहितो वेदशास्त्रार्थहीनो नातिस्थूलो नयनविकृतो नातिधीर्नार्तिपुत्रः ।
नाल्पाहारी सुखविरहितो लम्पटो नातिजीवी शूरो न स्यादपि जडमतिः कोपनो मान्दिलग्ने ॥८॥
न चाटुवाक्यं कलहायमानो न वित्तधान्यं परदेशवासी ।
न वाङ्न सूक्ष्मार्थविवादवाक्यो दिनेशपौत्रे धनराशिसंस्थे ॥९॥
विरहगर्वमदादिगुणैर्युतः प्रचुरकोपधनार्जनसंभ्रमः ।
विंगतशोकभयश्च विसोदरः सहजधामनि मन्दयुतो यदा ॥१०॥
सुहृदि शनिसुते स्याद्बन्धुयानार्थहीन- श्चलमतिरवबुद्धिस्त्वल्पजीवी च पुत्रे ।
बहुरिपुगणहन्ता भूतविद्याविनोदी रिपुगतगुलिके सच्छेष्ठपुत्रः सशूरः ॥११॥
कलत्रसंस्थे गुलिके कलही वहुभार्यकः ।
लोकद्वेषी कृतघ्नश्च स्वल्पज्ञः स्वल्पकोपनः ॥१२॥
विकलनयनवक्त्रो ह्वस्वदेहोऽष्टमस्थे गुरुसुतवियुतोऽभूद्धर्मसंस्थेऽर्कपौत्रे ।
न शुभफलदकर्मा कर्मसंस्थे विदानः सुखसुतमतितेजः कान्तिमांल्लाभसंस्थे ॥१३॥
विषयविरहितो दीनो बहुव्ययः स्याव्द्यये गुलिकसंस्थे ।
गुलिकत्रिकोणभे वा जन्म क्रूयान्नवंशे वा ॥१४॥
रवियुक्ते पितृहन्ता मातृक्लेशी निशापसंयुक्ते ।
भ्रातृवियोगः सकुजे बुधयुक्ते मन्दजे च सोन्मादी ॥१५॥
गुरुयुक्ते पाषण्दी शुक्रयुते नीचकामिनीसङ्गः ।
शनियुक्ते शनिपुत्रे कुष्ठव्यार्ध्यदिंतश्च सोऽपल्पायुः ॥१६॥
विषरोगी राहुयुते शिखियुक्ते वह्निपीदितो मान्दौ ।
गुलिकस्त्याज्ययुतश्वेत्तस्मिञ्जातो नृपोऽपि भिक्षाशी ॥१७॥
गुलिकस्य तु संयोगे दोषान्सर्वत्र निर्दिशेत् ।
यमकण्टकसंयोगे सर्वत्र कथयेच्छभम् ॥१८॥
दोशप्रदाने गुलिको बलीयान् शुभप्रदाने यमकण्टकः स्यात् ।
अन्ये च सर्वे व्यसनप्रदाने मान्द्युक्तवीर्यर्द्धिबलान्विताः स्युः ॥१९॥
शनिवद्गुलिके प्रोक्तं गुरुवद्यमकण्टके ।
अर्धप्रहारे बुधवत्फलं काले तु राहुवत् ॥२०॥
कालस्तु राहुर्गुलिकस्तु मृत्यु- र्जीवातुकः स्याद्यमकण्टकोपि ।
अर्द्धप्रहारः शुभदः शुभाङ्क- युक्तोऽन्यथा चेदशुभं विदध्यात् ॥२१॥
आत्मादयोऽधिपैर्युक्ता धुंआदिग्रहसंयुत्तः ।
ते भावा नाशतां यान्ति वदतीति पराशरः ॥२२॥
धूमे सन्ततमुष्णं स्यादग्निभीतिर्मनोव्यथा ।
व्यतीपाते मृगभयं चतुष्पान्मरणं तु वा ॥२३॥
परिवेषे जले भीरुर्जलरोगश्च बन्धनम् ।
इन्द्रचापे शिलाघातः क्षतं शस्त्रैरपि च्युतिः ॥२४॥
केतौ पतनघाताद्यं कार्यनाशोऽशनेर्भयम् ।
एते यद्भावसहितास्तद्दशायां फलं वदेत् ॥२५॥
अल्पायुः कुमुखः पराक्रमगुणो दुःखी च नष्टात्मजः प्रत्यर्थिक्षुभितो विशीर्णमदनो दुर्मर्गिमृत्युं गतं ।
धर्मादिप्रतिक्रूलताटनरुचिलार्भान्वितो दोषवा- नित्येवं क्रमशो विलग्नभवनात्केतोः फलं कीर्तयेत् ॥२६॥
अप्रकाशाः सचरन्ति धूमाद्याः पंच खेचराः ।
क्वचित्कदाचिद्दृश्यन्ते लोकोपद्रवहेतवे ॥२७॥
धूमस्तु धूमपटलः पुच्छर्क्षमिति केचन ।
उल्कापातो व्यतीपातः परिवेषस्तु दृश्यते ॥२८॥
लोके प्रसिद्धं यद्दृष्टं सदेवेन्द्रधनुः स्मृतम् ।
केतुश्च धूमकेतुः स्याल्लोकोपद्रवकारकः ॥२९॥
गुलिकभवननाथे केन्द्रगे वा त्रिकोणे बलिनि निजगृहस्थे स्वोच्चमित्रस्थिते वा ।
रथगजतुरगाणां नायको मारतुल्यो महितपृथुयशास्स्यान्मेदिनीमङ्डलेन्द्रः ॥३०॥