चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः ॥१॥
अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥२॥
चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं
लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।
कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यभाराध्नुमः ॥३॥
बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥४॥
मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।
विषयविषामिषग्रसनगृध्नुषि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥५॥
मुकुलायमाननयनाम्बुजं विभो-
र्मुरलीनिनादमकरन्दनिर्भरम् ।
मुकुरायमाणमृदुगण्डमण्डलं
मुखपङ्कजं मनसि मे विजृम्भ्ताम् ॥६॥
कमनीयकिशोरमुग्धमूर्तेः
कलवेणुक्वणितादृताननेन्दोः ।
मम वाचि विजृम्भतां मुरारे-
र्मधुरिम्णः कणिकापि कापि कापि ॥७॥
मदशिखण्डिशिखण्डविभूषणं
मदनमन्थरमुग्धमुखांबुजम् ।
व्रजवधूनयनाञ्चलवञ्चितं
विजयतां मम वाङ्मयजीवितम् ॥८॥
पल्लवारुणपाणिपङ्कजसङ्गिवेणूरवाकुलं
फुल्लपातलपाटलीपरिवादिपादसरोरुहम् ।
उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥९॥
अपाङ्गरेखाभिरभङ्गुराभि-
रनङ्गलीलारसरञ्चिताभिः ।
अनुक्षनं वल्लवसुन्दरीभि-
रभ्यर्चमानं विभुमाश्रयामः ॥१०॥
हृदये मम हृद्यविभ्रमाणां
हृदयं हर्षविशाललोलनेत्रम् ।
तरुणं व्रजबालसुन्दरीणां
तरलं किञ्चन धाम सन्निधत्ताम् ॥११॥
निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् ।
प्रणमदभयदानप्रौढगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥१२॥
प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।
पतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः ॥१३॥
माधुर्यवारिधिमदान्धतरङ्गभङ्गी-
शृङ्गारसंकलितशीतकिशोरवेषम् ।
आमन्दहासललिताननचन्द्रबिम्ब-
मानन्दसंप्लवमनुप्लवतां मनो मे ॥१४॥
अव्याजमञ्जुलमुखाम्बुजमुग्धभावै-
रास्वाद्यमाननिजवेणुविनोदनादम् ।
आक्रीडितामरुणपादसरोरुहाभ्या-
मार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥१५॥
मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।
ललितानि यदीयनि लक्ष्माणि व्रजवीथिषु ॥१६॥
मम चेतसि स्फुरतु वल्लवीविभो-
र्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।
कमलावनेचरकलिन्दकन्यका-
कलहंसकण्ठकलकूजितादृतम् ॥१७॥
तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरपुलकीकृतहृदयम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम् ॥१८॥
आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-
हर्षाकुलव्रजवधूमधुराननेन्दोः ।
आरब्धवेणुरवमादिकिशोरमूर्ते-
राविर्भवन्ति मम चेतसि कोऽपि भावाः ॥१९॥
कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।
पुनः प्रसृतिचापलं प्रणियिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥२०॥
स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितं
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥२१॥
विचित्रपत्राङ्कुरशालिबाला-
स्तनान्तरं मौनिमनोन्तरं वा ।
अपास्य वृन्दावनपादपास्य-
मुपास्यमन्यन्न विलोकयामः ॥२२॥
सार्धं समृदैरमृतायमानै-
राध्यायमानैर्मुरलीनिनादैः ।
मूर्धाभिषिक्तं मधुराकृतीनां
बालं कदा नाम विलोकयिष्ये ॥२३॥
शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणश्शिशुर्दृशोः ।
युगलं विगलन्मधुद्रव
स्मितमुद्रामृदुना मुखेन्दुना ॥२४॥
कारुण्यकर्बुरकटाक्षनिरीक्षणेन
तारुण्यसंवलितशैशववैभवेन ।
आपुष्णता भुवनमद्भुतविभ्रमेण
श्रीकृष्णचन्द्र शिशिरी कुरु लोचनं मे ॥२५॥