गोधूलिधूसरितकोमलकुन्तलाग्रं
गोवर्धनोद्धरणकेलिकृतप्रयासम् ।
गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं
गोविन्दमिन्दुवदनं शरणं भजामः ॥२६॥
यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा
वाराहजन्मनि बभूवुरमी समुद्राः ।
तं नाम नाथमरविन्ददृशं यशोदा
पाणिद्वयान्तरजलैः स्नपयां बभूव ॥२७॥
वरमिममुपदेशमाद्रियध्वं
निगमवनेषु नितान्तचारखिन्नः ।
विचिनुत भवनेषु वल्लवीना-
मुपनिषदर्थमुलूखले निबद्धम् ॥२८॥
देवकीतनयपूजनपूतः
पूतनारिचरणोदकधौतः ।
यद्यहं स्मृतधनञ्जयसूतः
किं करिष्यति स मे यमदूतः ॥२९॥
भासतां भवभयैकभेषजं
मानसे मम मुहुर्मुहुर्मुहुः ।
गोपवेषमुपसेदुषस्स्वयं
यापि कापि रमणीयता विभोः ॥३०॥
कर्णलम्बितकदम्बमञ्जरी
केसरारुणकपोलमण्डलम् ।
निर्मलं निगमवागगोचरं
नीलमानमवलोकयामहे ॥३१॥
साचि सञ्चलितलोचनोत्पलं
सामिकुड्मलितकोमलाधरम् ।
वेगवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे ॥३२॥
स्यन्दने गरुडमण्डितध्वजे
कुण्डिनेशतनयाधिरोपिता ।
केनचिन्नवतमालपल्लव-
श्यामलेन पुरुषेण नीयते ॥३३॥
मा यात पान्थाः पथि भीमरथ्या
दिगंबरः कोऽपि तमालनीलः ।
विन्यस्तहस्तोऽपि नितम्बबिम्बे
धूर्तस्समाकर्षितचित्तवित्तम् ॥३४॥
अङ्गनामण्६गनामन्तरे माधवो
माधवं माधवं चान्तरेणाङ्गना ।
इथमाकल्पिते मण्डले मध्यगः
सञ्जगौ वेणुना देवकीनन्दनः ॥३५॥
केकिकेकादृतानेकपङ्केरुहा-
लीनहंसावलीहृद्यता हृद्यता ।
कंसवंशाटवीदाहदावानलः
सञ्जगौ वेणुना देवकीनन्दनः ॥३६॥
क्वापि वीणाभिराराविणा कम्पितः
क्वापि वीणाभिराकिङ्किणीनर्तितः ।
क्वापि वीणाभिरामन्तरं गापितः
सञ्जगौ वेणुना देवकीनन्दनः ॥३७॥
चारुचन्द्रावलीलोचनैश्चुम्बितो
गोपगोबृन्दगोपालिकावल्लभः ।
वल्लवीबृन्दबृन्दारकः कामुकः
सञ्जगौ वेणुना देवकीनन्दनः ॥३८॥
मौलिमालामिलन्मत्तभृङ्गीलता-
भीतभीतप्रियाविभ्रमालिङ्गितः ।
स्रस्तगोपीकुचाभोगसम्मेलितः
सञ्जगौ वेणुना देवकीनन्दनः ॥३९॥
चारुचामीकराभासभामाविभु-
र्वैजयन्तीलतावासितोरःस्थलः ।
नन्दबृन्दावने वासितामध्यगः
सञ्जगौ वेणुना देवकीनन्दनः ॥४०॥
बालिकातालिकाताललीलालया-
सङ्गसन्दर्शितभ्रूलताविभ्रमः ।
गोपिकागीतदत्तावधानस्स्वयं
सञ्जगौ वेणुना देवकीनन्दनः ॥४१॥
पारिजातं समुद्धृत्य राधावरो
रोपयामास भामागृहस्याङ्कणे ।
शीतशीते वटे यामुनीये तटे
सञ्जगौ वेणुना देवकीनन्दनः ॥४२॥
अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्त्मनी
सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा ।
तस्यास्तीरतमलकाननतले चक्रं गवां चारयन्
गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहृतम् ॥४३॥
गोधूलिधूसरितकोमलगोपवेषं
गोपालबालकशतैरनुगम्यमानम् ।
सायन्तने प्रतिगृहं पशुबन्धनार्थं
गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम् ॥४४॥
निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं
निजावासं भासां निरवधिकनिश्श्रेयसरसम् ।
सुधाधारासारं सुकृतपरिपाकं मृगदृशां
प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम् ॥४५॥
आताम्रपाणिकमलप्रणयप्रतोद-
मालोलहारमणिकुण्डलहेमसूत्रम् ।
आविश्रमाम्बुकणमम्बुदनीलमव्या-
दाद्यं धनञ्जयरथाभरणं महो नः ॥४६॥
नखनियमितकण्डून् पाण्डवस्यन्दनाश्वा-
ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः ।
अवतु विततगात्रस्तोत्रनिष्ठ्यूतमौलि-
र्दशनविधृतरश्मिर्देवकीपुण्यराशिः ॥४७॥
व्रजयुवतिसहाये यौवनोल्लासिकाये
सकलशुभविलासे कुन्दमन्दारहासे ।
निवसतु मम चित्तं तत्पदायत्तवृत्तं
मुनिसरसिजभानौ नन्दगोपालसूनौ ॥४८॥
अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा
सरण्यासंक्रान्तैस्सपदि मदयन् वेणुनिनदैः ।
धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः
शरण्यानामाद्यस्स् जयतु शरीरी मधुरिमा ॥४९॥
विदग्धगोपालविलासिनीनां
संभोगचिह्नाङ्कितसर्वगात्रम् ।
पवित्रमाम्नायगिरामगम्यम्
ब्रह्म प्रपद्ये नवनीतचोरम् ॥५०॥