प्रथमः पटलः - विविध साधनानि ७
आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे.
गुरुणां परमहंसानां वाक्य त्रैलोक्यपावनम् ।
श्रुत्वा साधकसिद्धयर्थें योगी योगमवाप्नुयात्॥१२१॥
पञ्जरे शुकसारी च पतगाः पक्षियोनयः ।
गुहणाति साधकः स्वर्गान् मन्नामविमलं महत्॥१२२॥
यावत्ज्ञानस्य सञ्चारं तावत्कालं कुलेश्वर ।
साधकानाञ्च साधूनां निकटस्थो भवेन्नरः ॥१२३॥
विद्याभ्यासी न पतति यदि बुद्धिपरो भवेत्।
नहि चेज्जन्म व्याखार्थं नानाशास्त्रार्थंभाषणाम् ॥१२४॥
सुरज्ञानं बिना किञ्चिन्नहि सिद्धयति भूतले ।
मन्त्रं श्रीकायसिद्धिश्च कथं भवति भैरव ॥१२५॥
सांख्यज्ञानं वेदभाषाविधिज्ञानं तथा समम् ।
शक्ति बिना यथा शाक्तं सुरज्ञानं बिना हि सः ॥१२६॥
अहिताचारसम्यत्तिर्दरिद्रस्य गृहे यथा ।
साधकस्य गृहे शक्तिर्ज्ञानाचरविवेचना ॥१२७॥
जायते यदि सायुज्यपदनाशाय केवलम् ।
यद्यज्ञानविशिष्टा सा स्वशक्तिः शिवकामिनी ॥१२८॥
तदा न कुर्याद ग्रहणा शक्तिसाधनमेव च ।
यदि कुर्यादसंस्कारात्संसर्गं साधकोत्तमः ॥१२९॥
असंस्कृत्यादिदोषेण सिद्धिहानिः प्रजायते ।
शक्तिप्रधानं भावानां त्रयाणां साधकस्य च ॥१३०॥
दिव्यवीरपशूनाञ्च भावत्र्रयमुदाह्रतम् ।
पशु भावे ज्ञानसिद्धिः पश्वाचारनिरुपणम् ॥१३१॥
वीरभावे क्रियासिद्धिः साक्षाद्रुद्रो न संशयः ।
दिव्यभावे वीरभावे विभिन्नमेकभावतः ॥१३२॥
अण्डः पूर्वः सर्वगतं दिव्यभावस्य लक्षणम् ।
दिव्यभावे देवताया दर्शनं परिकीर्तितम् ॥१३३॥
वीरभावे मन्त्रसिद्धिद्वैताचारलक्षणम् ।
आदौ भावं पशोः प्राप्य रात्रिकर्मविवर्जयेत्॥१३४॥
दिवसे दिवसे स्नानं पूजानित्याक्रियान्वितः ।
पुरश्चरणवत्कार्यं शुचिभावेन सिद्धयति ॥१३५॥
पशुभावं विना वीरः को वशी भवति ध्रुवम् ।
इन्द्रियाणाञ्च दमनं दमनं शमनस्य च ॥१३६॥
योगशिक्षानिविष्टाङो यतिर्योगपरायणः ।
सर्वक्षणादभ्यसतः प्रभातवधि रात्रिषु ॥१३७॥
सर्वकालं च कर्वव्यो योगः सर्वसुखप्रदः ।
वाञ्छाकल्पतरुं नित्य्म तरुणं पातकापहम् ॥१३८॥
साधयेदवहितं मन्त्री पशुभाविस्थितो यदि ।
योगभाषाविधिज्ञान सर्वभावेषु दुर्लभम् ॥१३९॥
तथापि पशुभावेन शीघ्रं सिद्धयाति निश्चितम् ।
गुरुणां श्रीपदाम्भोजे यस्य भक्तिर्दृढा भवेत्॥१४०॥
N/A
References : N/A
Last Updated : April 06, 2011
TOP