तृतीयः पटलः - शिवचक्रम्
दीक्षायां सर्वचक्रानुष्ठानम्
शिवचंक्र प्रवक्ष्यामि महाकालकुलेश्वर ।
अवश्यं सिद्धिमाप्नोति शिवचक्रप्रभावतः ॥८५॥
षट्कोणमध्यदेशे तु चतुरस्त्र्म लिखेद् बुधः ।
तन्मध्ये विलिखेच्चारु चतुरस्त्रं सवर्णकम् ॥८६॥
मस्तकस्थत्रिकोणे तु शिवसंस्थानमन्त्रकम् ।
दक्षिणावर्तमानेन गणयेत् सर्वमन्त्रकम् ॥८७॥
विष्णुस्थाने स्वमन्त्रञ्च द्वितीये च त्रिकोणके ।
त्रिकोणे च तृतीये च ब्रह्मासंस्थानमन्त्रकम् ॥८८॥
शक्तिमन्त्रदिसंस्थानं त्रिकोणाधो मुखे तथा ।
नायिकामन्त्रसंस्थानं त्रिकोणाधो मुखे तथा ॥८९॥
नायिकामन्त्रसंस्थानं तद्वामे दुर्लभं शुभम ।
तदूद्र्ध्वे च त्रिकोण च भूतसंस्थानमन्त्रकम् ॥९०॥
शिवाधो यक्षमन्त्रस्य संस्थानमतिदुर्लभम् ।
विष्णुब्रह्मसन्धिदेशे महाविद्यापदं ध्रुवम् ॥९१॥
स्वरस्थानं तथा वर्णस्थानं श्रृणु महाप्रभो ।
अ-आवर्णद्वयं शैवे कवर्गञ्च सबिन्दुकम् ॥९२॥
विष्णौ नेत्रं चवर्गञ्च टवर्गं ब्रह्मणि श्रुतम् ।
तवर्गं नासिकशक्तौ सर्वमन्त्रार्थचेतनम् ॥९३॥
नायिकायां पवर्गञ्च न युगं परिकीर्तितम् ।
भूते यवान्तं विलिखेदोष्ठाधरसमन्वितम् ॥९४॥
प्रणवं यक्षमन्त्रे च शकारं परिकीर्तितम् ।
अधोदन्तं पिशाचे च षयुक्तं बिन्दुभूषितम् ॥९५॥
शिवो बीजं देवमन्त्रे सकारञ्च सबिन्दुकम् ।
महाविद्यादिसंस्थाने लक्षवर्णं प्रकीर्तितम् ॥९६॥
इति ते कथितं शम्भो श्रृणु वर्णाङ्क (ङु) वर्णनम् ।
शिवे एकविंशातिश्च द्वात्रिंशाद्विष्णुकोणके ॥९७॥
ब्रह्मणे षोडशाद्यञ्च शक्तिकूटे युगाष्टकम् ।
नायिकायाम वहिनबाणं भूते सप्ताङ्कमेव च ॥९८॥
यक्षे च चन्द्रवेदञ्च पिशाचेऽष्टवसुः स्मृतः ।
सर्वदेवे बाणवेदं कृत्यायाम षष्ठषष्ठकम् ॥९९॥
मध्ये षष्ठे हुताशञ्च महाविद्यागृहे शुभे ।
साधकस्य च साध्यस्यैकाङ्कं साध्यमन्दिरे ॥१००॥
साधकाङ्कमूर्ध्वदेशे साध्याङ्क गणयेदधः ।
भुजयुग्मंम शिवे प्रोक्तं विष्णौ वामाष्टकं तथा ॥१०१॥
ऋषिचन्द्रं विधौ प्रोक्तं शक्तौ रामाष्टंक तथा ।
नायिकायां वेदबाण भूतेऽष्टनवमं तथा ॥१०२॥
यक्षे युग्मं चतुर्थं च पिशाचे वज्रकाष्टकम् ।
शक्तौ वशकृतौ ज्ञेयौ कृत्या(ल)यां मुनिषष्ठकम् ॥१०३॥
यस्मिन् यस्मिन् गृहस्था ये देवतास्तु महाफलाः ।क०।
अनामाक्षरदेहस्थक्षरं द्विगुणं स्मृतम् ।
साध्याङ्केन योजयित्वा पूरयेत्षष्ठपञ्चमैः ॥१०४॥
तद्गेहं ग्राहयेद् यत्नात देवताद्यक्षरं यथा ।
एकशेषस्थितं वर्णं कुर्यान्नपि विवेचनम् ॥१०५॥
शुद्धं तद्धि विजानीयाद्विचारमन्यतोऽपि च ।
षष्ठाङ्केन च वेदाङ्कं तथा च देववर्णकम् ॥१०६॥
शशाङ्कं मिश्रित चाङ्कं द्विगुणं देवतार्णकम् ।क०।
पश्चात् कृत्वा तदङ्कञ्च हरेद्रामेण वल्लभ ।
यदि साध्याङ्कं विस्तीर्णं तदा नैव शुभं भवेत् ॥१०७॥
साधकाङ्कञ्च विस्तीर्णं यदि स्याज्जायते गृहे ।
तदा सर्वकुलेशः स्याद् रुद्रश्रवणसंशयः ॥१०८॥
द्विगुणं देवतावर्णं साधकाङ्केन योजयेत् ।
वर्णसंख्याङ्कमालिख्य गणयेत् साधकोत्तमः ॥१०९॥
रसबाणेन सम्पूर्य संहरेत् रससंख्यया ।
आत्माङ्कमिश्रित पश्चाद् यदि किञ्चिन तिष्ठति ॥११०॥
स्वीयाभिधानकाङ्कस्य द्विगुणञ्चापि योजयेत् ।
पश्चादनलसंख्याभिर्हरेत् सौख्यार्थिमुक्तये ॥१११॥
अङ्कं बहुतरं ग्राह्यं साधकस्य सुखावहम् ।
न ग्राह्यं साध्यविस्तीर्णमि(म?)तिशास्त्रार्थनिश्चयम् ॥११२॥
विचारादस्य चक्रस्य राजत्वं लभते ध्रुवम् ।
समानाङ्केन गृहणीयाद् गुण्याङ्कं वर्जयेदिह ॥११३॥
अवश्यं चक्रमेवं हि गोपनीयं सुरासुरैः ।
N/A
References : N/A
Last Updated : April 07, 2011
TOP