आनन्दभैरवी उवाच
अथातः सम्प्रवक्ष्यामि दिव्यभावादिनिर्णयम् ।
यमाश्रित्य महारुद्रो भुवनेश्वरनामधृक् ॥१॥

यं ज्ञात्वा कमलानाथो देवतानामधीश्वरः ।
चतुर्वेदाधिपो ब्रह्मा साक्षाद्ब्रह्म सनातनः ॥२॥

बटुको मम पुत्रश्च शक्रः स्वर्गाधिदेवता ।
अष्टसिद्धियुताः सर्वे दिक्पालाः खेचरादयः ॥३॥

तत्प्रकारं महादेव आनन्दनाथभैरव ।
सुरानन्दं ह्रदयानन्द ज्ञानान्द दयामय ॥४॥

श्रृणुस्वैकमना नाथ यदि त्वं सिद्धिमिच्छसि ।
मम प्रियान्दरुप यतो मे त्वं तनुस्थितः ॥५॥

त्रिविधं दिव्यभावञ्च वेदागमविवेकजम् ।
वेदार्थमधमं सम्प्रोक्तं मध्यमं चागमोद्भवम् ॥६॥

उत्तमं सकलं प्रोक्तं विवेकाल्लाससम्भवम् ।
तथैव त्रिविधं भावं दिव्यवीरपशुक्रमम् ॥७॥

दिव्य-वीर-पशुभावानां स्वरुपकीर्तनम्
दिव्यं विवेकजं प्रोक्तं सर्वासिद्धिप्रदायकम् ।
उत्तमं तद्विजानीयादानन्दससागरम् ॥८॥

मध्यमं चागमोल्लासं वीरभावं क्रियान्वितम् ।
वेदोद्भवं फलार्थञ्च पशुभावं हि चाधमम् ॥९॥

सर्वनिन्दा समाव्याप्तं भावानामधमं पशोः ।
उत्तमे उत्तमं ज्ञानं भावसिद्धिप्रदं नृणाम् ॥१०॥

मध्यमे मधुमत्याश्च मत्कुलागमसम्भवम् ।
अकालमृत्युहरणं भावानामतिदुर्लभम् ॥११॥

वीरभावं विना नाथ न सिद्धयति कदाचन ।
अधमे अधमा व्याख्या निन्दार्थवाचकं सदा ॥१२॥

यदि निन्दा न करोति तदा तत्फलमाप्नुयात् ।
पशुभावेऽसिद्धिः स्यात् यदि वेदं सदाभ्यसेत् ॥१३॥

वेदार्थचिन्तनं नित्यं वेदपाठध्वनिप्रियम् ।
सर्वनिन्दविरहितं हिंसालस्यविवर्जितम् ॥१४॥

लोभ-मोह-काम-क्रोध-मद-मात्सर्यवर्जितम् ।
यदि भावस्थितो मन्त्री पशुभावेऽपि सिद्धिभाक् ॥१५॥

पशुभावं महाभावं ये जानन्ति महीतले ।
किमसाध्यं महादेव श्रमाभ्यासेन यान्ति तत् ॥१६॥

श्रमाधीनं जगत् सर्वं श्रमाधीनाश्च देवताः ।
श्रमाधीनं महामन्त्रं श्रमाधीनं परन्तपः ॥१७॥

श्रमाधीनं कुलाचारं पशुभावोपलक्षणम् ।
वेदार्थज्ञानमात्रेण पशुभावं कुलप्रियम् ॥१८॥

स्मृत्यागमपुराणानि वेदार्थविविधानि च ।
अभ्यस्य सर्वशास्त्राणि तत्त्वज्ञानात्तु बुद्धिमान् ॥१९॥

पललमिव धान्यार्थी सर्वशास्त्राणि सन्त्यजेत् ।
ज्ञानी भूत्वा भावसारमाश्रयेत् साधकोत्तमः ॥२०॥

वेदे वेदक्रिया कार्या मदुक्तवचनादृतः ।
पशूनां श्रमदाहानामिति लक्षणमीरितम् ॥२१॥

आगमार्थं क्रिया कार्या मत्कुलागमचेष्ट्या ।
वीराणामुद्धतानाञ्च मत् शरीरनुगामिनाम् ॥२२॥

मच्चेच्छाकुल तत्त्वानामिति लक्षणमीरितम् ।
विवेकसूत्रसंज्ञाज्ञा कार्या सुदृढचेतसाम् ॥२३॥

सर्वत्र समभावनां भावमात्रं हि साधनम् ।
सर्वत्र मत्पदाम्भोजसम्भवं सचराचरम् ॥२४॥

पृष्ट्‌वा यत्कुरुते कर्म चाखण्डफलसिद्धिदम् ।
अखण्डज्ञानचित्तानामिति भावं विवेकिनाम् ॥२५॥

निर्मलानन्ददिव्यानामिति लक्षणमीरितम् ।
दिव्ये तु त्रिविधं भावं यो जानति महीतले ॥२६॥

न नश्यति महावीरः कदाचित् साधकोत्तमः ।
दिव्यभावं विना नाथ मत्पदाम्भोजदर्शनम् ॥२७॥

य इच्छति महादेव स मूढः साधकः कथम् ।
पशुभावं प्रथमएक द्वितीये वीरभावकम् ॥२८॥

तृतीये दिव्यभावञ्च दिव्यभावत्रय्म क्रमात् ।
तत्प्रकारं श्रृणु शिव त्रैलोक्यपरिपावन ॥२९॥

भावत्रयविशेषज्ञः षडाधारस्य भेदनः ।
पञ्चतत्त्वार्थभावज्ञो दिव्याचाररतः तदा ॥३०॥

स एव भवति श्रीमान् सिद्धनामादिपारगः ।
शिववद् विहरेत् सोऽपि अष्टैश्वर्यसमन्वितः ॥३१॥

सर्वत्र शुचिभावेन आनन्दघनसाधनम् ।
प्रातःकालादिमध्याहनकालपर्यन्तधारणम् ॥३२॥

भोजनञ्चोक्तद्रव्येण संयमादिक्रमेण वा ।
यः साधयति स सिद्धो दिव्यभावे पशुक्रमात् ॥३३॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP