सप्तदशः पटलः - वसिष्ठस्य महाचीने गमनम्
शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम्
ततो मुनिवरः श्रुत्वा महाविद्यां सरस्वतीम् ।
जगाम चीनभूमौ च यत्र बुद्धः प्रतिष्ठति ॥१२५॥
पुनः पुनः प्रणम्यासौ वसिष्ठः क्षितिमण्डले ।
रक्ष रक्ष महादेव सूक्ष्मरुपधराव्यय ॥१२६॥
अतिदीनं वसिष्ठं मां सदा व्याकुलचेतसम् ।
ब्रह्मपुत्रो महादेवीसाधनायाजगाम च ॥१२७॥
सिद्धिमार्गं न जानमि वेदमार्गपरो हर ।
तवाचारं समालोक्य भयानि सन्ति मे ह्रदि ॥१२८॥
तन्नाशय नम क्षिप्रं दुर्बुद्धिं भेदगामिनीम् ।
वेदबहिष्कृतं कर्म सदा ते चालये प्रभो ॥१२९॥
कथमेतत् प्रकारञ्च मद्यं मांसं तथाङनाम् ।
सर्वे दिगम्बराः सिद्धा रक्तपानोद्यता वराः ॥१३०॥
मुहुर्मुहुः प्रपिबन्ति रमयन्ति वराङनाम् ।
सदा मांसासवैः पूर्णा मत्ता रक्तविलोचनाः ॥१३१॥
निग्रहानुग्रहे शक्ताः पूर्णान्तःकरणोद्यताः ।
वेदस्तागोचराः सर्वे मद्यस्त्रीसेवने रताः ॥१३२॥
इत्युवाच महायोगी दृष्टवा वेदबहिष्कृतम् ।
प्राञ्जलिर्विनयाविष्टो वद चैतत् कुलं प्रभो ॥१३३॥
मनःप्रवृत्तिरेतेषां कथं भवति पावन ।
कथं वा जायते सिद्धिर्वेदकार्यं बिना प्रभो ॥१३४॥
N/A
References : N/A
Last Updated : April 10, 2011
TOP