द्वाविंशः पटलः - विशुद्धचक्रमहापद्मविवेचनम्

षट्‍चक्रसारसंकेते योगशिक्षाविधिनिर्णयः


विशुद्धाख्यम्‍ महापुण्य धर्मार्थकाममोक्षदम् ।
धूम्रधूमाकरं विद्युत्पुञ्जं भजति योगिराट् ॥१०॥

आज्ञानामोत्पलं शुभ्रं हिमकुन्देन्दुमन्दिरम् ।
हंसस्थान बिन्दुपदं द्विदलं भ्रूकुटे भजेत् ॥११॥

लक्षवर्णाद्वयाढ्यं यद् बिन्दुयुक्तं मनोलयम् ।
तयोः स्त्रीपंप्रकृयुत्याख्यं कोटिचन्द्रोज्ज्वलं भजेत् ॥१२॥

कण्ठे षोडशपत्रे च षोडशस्वरवेष्टितम् ।
अकारादिविसर्गान्तं विभाव्य कुण्डलीं नयेत् ॥१३॥

आज्ञाचक्रे समानीय कोटिचन्द्रसमोदयाम् ।
कण्ठाधारां कुण्डलिनीं जीवन्मुक्तो भवेदिह ॥१४॥

यदि श्वासं न त्यजति बाह्यचन्द्रमसि प्रभो ।
भ्रूमध्ये चन्द्रनिकरे त्यक्त्या योगी भवेदिह ॥१५॥

सूक्ष्मवायूद्गमेनैव त्यजेद् वायुं मुहुर्मुहुः ।
सहस्त्रादागतं मूले मूलात्तत्रैवमानयेत् ॥१६॥

चन्द्रः सूर्ये लयं याति सूर्यश्चन्द्रमसि प्रभो ।
यो बाह्ये नानयेत् शब्दं तस्य बिन्दुचयो भवेत् ॥१७॥

यावद् बाह्ये चन्द्रमसि मनो याति रविप्लुते ।
अन्तर्गते चन्द्रसूर्ये न तस्य दुरितं तनौ ॥१८॥

केवलं सूक्ष्मवायुस्थं वायवीशक्तिलालितम् ।
मानसं यः करोतीति तस्य योगदिवर्द्धनम् ॥१९॥

प्राप्ते यज्ञोपवीते यः श्रीधरो ब्राह्मणोत्तमः ।
योगाभ्यासं सदा कुर्यात स भवेद्योगिवल्लभः ॥२०॥

यावत्कालं स्थितं बिन्दुं बाल्यभावे यथा यथा ।
तथा तथा योगमार्ग बिन्दुपातान्मरिष्यति ॥२१॥

तथापि यदि मासं वा पक्षं वा दशभिर्दिनम् ।
यदि तिष्ठति बिन्दूग्रः साक्षादभ्यासतो जयी ॥२२॥

कामानल महापीडाविशिष्टः पुरुषो यदा ।
तत्कामादिसंहरणे विना योगेन कः क्षमः ॥२३॥

समसंसर्गगूढेन कामो भवति निश्चितम् ।
तत्कामात् क्रोध उत्पन्नो महाशत्रूर्विनाशकृत् ॥२४॥

क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धनाशो बुद्धिनशाद् विनाशनम् ॥२५॥

अतः सम्बुद्धिमाधार्य मूलादिब्रह्ममण्डले ।
ध्यात्वा श्रीनाथपादाब्जं सिद्धो भवति साधकः ॥२६॥

ईश्वरस्य कृपाचिन्हमादौ शान्तिर्भवेद् ह्रदि ।
शान्तिभिर्जायते ज्ञानं ज्ञानन्मोक्शवाप्नुयात् ॥२७॥

शान्तिर्विद्या प्रतिष्ठा च निवृत्तिरिति ताः स्मृताः ।
चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥२८॥

इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः ।
पठन्त्यहर्निशं शास्त्रं परतत्त्वपराड्‌मुखाः ॥२९॥

शिरो वहति पुष्पाणि गन्धं जानाति नासिका ।
पठन्ति मम तन्त्राणि दुर्लभा भावबोधकाः ॥३०॥

यज्ञोपवीतकाले तु पशुभावाश्रयो भवेत् ।
यावद्योगं स सम्प्राप्तं तावद् वीराचरं न च ॥३१॥

आचारो विनयो विद्या प्रतिष्ठा योगसाधनम् ।
तस्यैव जायते सिद्धिरेष्टपादाम्बुजे मतिः ॥३२॥

देवे गुरौ महाभक्तिर्यस्य नित्यं विवर्धते ।
संवत्सरात्तस्य सिद्धिर्भवत्येव न संशयः ॥३३॥

वेदागमपुराणानां सारमालोक्य यत्नतः ।
मनः संस्थापयेदिष्टपादाम्भोरुहमण्डले ॥३४॥

चेतसि क्षेत्रकमले षट्चक्रे योगनिर्मले ।
मनो निधाय मौनी यः स भवेद् योगवल्लभः ॥३५॥

मनः करोति कर्माणि मनो लिप्यति पातके ।
मनःसंयमनी भूत्वा पापपुण्ययैर्न लिप्यते ॥३६॥

श्री भैरव उवाच
वद कान्ते रहस्यं मे येन सिद्धो भवेन्नरः ।
तत्प्रकारं विशेषेण योगिनामप्यगोचरम् ॥३७॥

यत्रैव गोपयेद्यद्यदानन्देन निरीक्षयेत् ।
पूजयेद् भावयेच्चैव वर्जयेन्न जुगुप्सयेत् ॥३८॥

क्रमेण वद तत्त्वञ्च यदि स्नेहोऽस्ति मां प्रति ।
न ज्ञात्वापि भूतत्त्वं योगी मोहाश्रितो भवेत् ॥३९॥

आनन्दभैरवी उवाच
त्रैलोक्ये योगयोग्योऽसि षट्चक्रभेदने रतः ।
त्वमेव परमानन्द महाधिष्ठाननिर्मल ॥४०॥

सङ्कातयेन्महावीर एतान्दोषान् महाभयान् ।
कामक्रोधलोभमोहमदमात्सर्यसञ्ज्ञकान् ॥४१॥

सङ्कातयेन्महावीरो विकारं चेन्दियोद‌भवम् ।
निद्रा-लज्जा-दौर्मन्स्यं दशकालानलान् प्रभो ॥४२॥

सङोपयेन्महावीरो महामन्त्रं दुलक्रियाम् ।
मुद्राक्षसूत्रतन्त्रार्थं गोपिनां वीरसङुमम् ॥४३॥

अत्याचारं भैरवाणां योगिनीनां च साधनम् ।
नाडीग्रथनमानञ्च गोपयेन्मातृजारवत् ॥४४॥

न निन्देत् प्राणनिधने देवतां गुरुमीश्वरम् ।
सुरां विद्यां महाक्षेत्रं पीठ योगाधिकारिणम् ॥४५॥

योगिनी जडमुन्त्त्तं जन्मकर्मकुलक्रियाम् ।
प्रयोगे धर्मकर्तारं न निद्नेत् प्राणसंस्थितौ ॥४६॥

पत्नीं भ्रातृवधूञ्चैव बौद्धाचारञ्च योगिनीम् ।
कर्म शुभाशुभञ्चैव महावीरो न निन्दयेत् ॥४७॥

निरिक्षयेन्न कदापि कन्यायोनिं दिने रतिम् ।
पशुक्रिडां दिग्वसनां कामिनी प्रकटस्तनीम् ॥४८॥

विग्रहं द्यूतपाशार्थं क्लींब विष्ठादिकं शुचौ ।
अभिचारभारञ्च क्रियाप्रमत्तस्य नेक्षयेत् ॥४९॥

पूजयेत्परया भक्त्या देवताम गुरुमीश्वरम् ।
शक्तिं साधुमात्मरुपं स्थूलसूक्ष्मं प्रयत्नतः ॥५०॥

अतिथिं मातरं सिद्धं पितरं योगिनं तथा ।
पूजयेत् परया भक्त्या सिद्धमन्त्रं सुसिद्धये ॥५१॥

भावयेदेकचित्तेन साधूक्तं योगसाधनम् ।
गुरोर्वाक्योपदेशं च स्वधर्मं तीर्थदेवताम् ॥५२॥

कुलाचारं वीरमन्त्रमात्मानं परमेष्ठिनम् ।
भावयेद्विधिविद्यां च तन्त्रसिद्धार्थनिर्णयम् ॥५३॥

वर्जयेत् साधकश्रेष्ठोऽगम्यागमनादिकम् ।
धूर्तसङ वञ्चकञ्च प्रलापमनृताशुभम् ॥५४॥

वर्जयेत् पापगोष्ठीयमालास्यं बहुजल्पनम् ।
अवेदकर्मसञ्चारं गोसवं ब्राह्मणस्य च ॥५५॥

जुगुप्सयेन्न कदापि विण्मूत्रं क्लेदशोणितम् ।
हीनाङी पिशितं नाथ कपालाहरणादिकाम् ॥५६॥

सुरां गोपालनञ्चैव निजपापं रिपोर्भयम् ।
जुगुप्सयेन्न सुधर्म्मं यदि सिद्धिमिहेच्छति ॥५७॥

समयाचारमेवेदं योगिनां वीरभाविनाम् ।
गुर्वाज्ञया यः करोति जीवन्मुक्तो भवेद् भुवि ॥५८॥

वृथा धर्म वृथा चर्यं वृथा दीक्षा तपः ।
वृथा सुकृतमाख्येति गुर्वाज्ञालङ्कनं नृणाम् ॥५९॥

ब्राह्मणक्षत्रिदीनामादौ योगादिसाधनम् ।
पश्चात् कुलक्रिया नाथ योगविद्याप्रसिद्धये ॥६०॥

विना भावेन वीरेण पूर्णयोग कुतो भवेत् ।
आदौ कुर्तात् पशोर्भावं पश्चात कुलविचारणम् ॥६१॥

मम तन्त्रे महादेव केवलं सारनिर्णयम् ।
अकस्माद् भक्तिसिद्ध्यर्थ कुलाचारं च योगिनाम् ॥६२॥

ब्राह्मणानां कुलाचारं केवलं ज्ञानसिद्धये ।
ज्ञानेन जायते योगी योगादमरविग्रहः ॥६३॥

भूत्वा योगी कुलीनश्च योगाभ्यासमहर्निशम् ।
षट्चक्रं भूतनिलयं भावयेद् भावसिद्धये ॥६४॥

मूलपद्मस्योद्र्ध्वदेशे लिङुमूले महाशुचिः ।
स्वाधिष्ठाने महापद्मं पद्दले वायुना यजेत् ॥६५॥

एतत् षड्‌दलवर्णानां भावनां यः करोति हि ।
तस्य साक्षाद् भवेद्विष्णुः राकिणीसहितः प्रभो ॥६६॥

स्वाधिष्ठानषड्‌दलस्य कर्णिकामध्यमण्डले ।
दलाष्टकं भावयित्वा नागयुक्तं स ईश्वरः ॥६७॥

अष्टौ नागा अष्टदले प्रतिभान्ति यथारुणाः ।
जलस्योपरि पद्मे च ध्यायेत्तन्नावल्लभाम् ॥६८॥

अनन्तं वासुकिं पद्मं महापद्मं च तक्षकम‍ ।
कुलीरं कर्कटं शङ्क दक्षिणादौ दले भजेत् ॥६९॥

अष्टदलोपरि ध्यायेत् कर्णिकावृत्तयुग्मकम् ।
तदूर्ध्व षड्‌दलं वादिलान्तयुक्तं सबिन्दुकम् ॥७०॥

पूर्वदिक्रमयोगेन दक्षिणावर्त्तवायुना ।
पुनः पुनः कुम्भयित्वा ध्यायेत् षड्‌वर्णवायवीम् ॥७१॥

केशर युगलं ध्यायेत् कुलोर्ध्वे साकृतिं मुदा ।
अष्टदले षड्‌दले च विभाव्य योगिराड्‌ भवेत् ॥७२॥

अष्टदलस्योर्ध्वदेशे वृत्तयुग्मं मनोहरम् ।
तस्योपरि पुनर्ध्यायेत् षड्‌दले वादिलान्तकम् ॥७३॥

दलाष्टकाधो ध्यायेद्यो वृत्तयुग्मं मनोहरम् ।
वृत्ताधोमण्डलाकारं वं बीजं व्याप्य तिष्ठति ॥७४॥

वृत्तलग्नं समाव्याप्तं यं बीजं विद्युदाकरम् ।
कोटिसूर्यसमाभासं विभाव्य योगिनां पतिः ॥७५॥

यान्तबीजकलानां तु अधः ष‍ट्कोणमण्डलम् ।
षट्कोणे दक्षिणादौ च भावयेद् यादिलान्तकम् ॥७६॥

तत्षट्कोणमध्यदेशे षट्कोणं धूम्र मण्डलम् ।
तत्कोणे दक्षिणादौ च द्र्वयादिषट्कमाश्रयेत् ॥७७॥

द्रव्यं गुणास्तथा कर्म सामान्यं सविशेषकम् ।
समवायं क्रमेणैव षट्कोणेषु विभावयेत् ॥७८॥

पूर्वादिक्रमयोगेन दक्षिणावर्तवायुना ।
सर्वत्र भावयेन्मन्त्री मुम्भयित्वा पुनः पुनः ॥७९॥

द्रव्यषट्कोणमध्ये तु षट्कोणं चारुतेजसम् ।
कोणे कोणे च षड्‌वर्गान् भावयेत् स्थिरचञ्चलान् ॥८०॥

तन्मध्ये च त्रिकोणे च राकिणीसहितं हरिम् ।
कोटिचन्द्रमरीचिस्थं ध्यायेद्योगी विशालधीः ॥८१॥

षड्‌द्लान्तर्गतं पदं योगिनामपि साधनम् ।
यो नित्यं कुरुतेऽभ्यासं तस्य योगः प्रसिद्धयति ॥८२॥

एतच्चक्रप्रसादेन नीरोगी निरहङ्‌कृतः ।
सर्वज्ञो भवति क्षिप्रं श्रीनाथपदभावनात् ॥८३॥

ज्योतीरुपं योगमार्गं सूक्ष्मातिसूक्ष्मनिर्मलम् ।
त्रैलोक्यकामनासिद्धि षट्चक्रे भावयेद्धरिम् ॥८४॥

यो हरिः शेषशम्भुश्च यः शम्भुः सूक्ष्मरुपधृक्‍ ।
सूक्ष्मरुपस्थितो ब्रह्मा ब्रह्माधेनमिदं जगत् ॥८५॥

एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुपितामहाः ।
मम विग्रहसंश्लिष्टाः सृजत्यवति हन्ति च ॥८६॥

प्राणायामोद्गता एते योगविघ्नकराः सदा ।
प्राणायामेन निष्पीड्य प्रसभं सिद्धिमाप्नुयात् ॥८७॥

अकारं ब्रह्मणो वर्णं शब्दरुपं महाप्रभम् ।
प्रणवान्तर्गतं नित्यं योगपूरकमाश्रयेत् ॥८८॥

उकारं वैष्णवं वर्णं शब्दभेदिनमीश्वरम् ।
प्रणवान्तर्गतं सत्त्वं योगकुम्भकमाश्रयेत् ॥८९॥

मकारं शाम्भवं रुपं बीजभूतं विधूद्गतम् ।
प्रणवान्तस्थितं कालं लयस्थानं समाश्रयेत् ॥९०॥

वर्णत्रय विभागेन प्रणवं परिकल्पितम् ।
प्रणवाज्जायते हंसो हंसः सोऽहं परो भवेत् ॥९१॥

सोऽहं ज्ञानं महाज्ञानं योगिनामपि दुर्लभम् ।
निरन्तरं भावयेद्यः स एव परमो भवेत् ॥९२॥

हं पुमान् श्वासरुपेण चन्द्रेण प्रकृतिस्तु सः ।
एतद्धंस विजानीयात् सूर्यमण्डलभेदकम् ॥९३॥

विपरीक्रमेणैव सोऽहं ज्ञानं यदा भवेत् ।
तदैव सूर्यगः सिद्धः स्वधास्वरप्रपूजितः ॥९४॥

हकारार्णं सकारार्णं लोपयित्वा ततः परम् ।
सन्धिं कुर्यात्ततः पश्चात् प्रणवोऽसौ महामनुः ॥९५॥

एतद् हंसं महामन्त्रं स्वाधिष्ठाने मनोगृहे ।
मनोरुपं भजेद्यस्तु स भवेत् सूर्यमध्यगः ॥९६॥

हंसं सूर्य विजानीयात सोऽहं चन्द्रों न संशयः ।
विपरीतो यदा भूयात्तदैव मोक्षभाग्‍ भवेत् ॥९७॥

यदि हंससमनोरुप स्वाधिष्ठाने हरेः पदे ।
विभाव्य श्रीगुरोः पादे नीयते नात्र संशयः ॥९८॥

सोऽहं यदा शक्तिकूटं अकाराकारसम्पुटम् ।
कृत्वा जपति यो ज्ञानी स भवेत् कल्पपादपः ॥९९॥

जपहोमादिकं सर्वं हंसेन यः करोति हि ।
तदैव चन्द्रसूर्य स्यात् हंसमन्त्रप्रसादतः ॥१००॥

एतज्जपं महादेव देहमध्ये करोम्यहम् ।
एकविंशसहस्त्राणि षट्शतानि च हंमनुः ॥१०१॥

पुंरुपेण हकारञ्च स्त्रीरुपेण सकारकम् ।
जप्त्वा रक्षां करोतीह चन्द्रबिन्दुशतेन च ॥१०२॥

प्रणवान्तं महामन्त्रं नित्यं जपति यो नरः ।
वायुसिद्धिर्भवेत्तस्य वायवी सुकृपा भवेत् ॥१०३॥

बृहद हंसं प्रवक्ष्यामि येन सिद्धो भवेन्नरः ।
कामरुपी क्षणादेव वाक्‍सिद्धिरिति निश्चितम् ॥१०४॥

आदौ प्रणवमुच्चार्य ततो हंसपदं लिखेत् ।
तत्पश्चात् प्रणवं ज्ञेय ततः परपदं स्मरेत् ॥१०५॥

तर्पयामि पदस्यान्ते प्रणवं फडिति स्मरेत् ।
एतद्धि हंसमन्त्रस्तु वीराणामुदयाय च ॥१०६॥

बृहद् हंसप्रसादेन षट्चक्रभेदको भवेत् ।
ष‌ट्चक्रे च प्रशंसन्ति सर्वे देवाश्चराचराः ॥१०७॥

योगसिद्धिं विघाताय भ्रमन्ति योगिनस्तनौ ।
यदि हंस बृहद्धंस जपन्ति वायुसिद्धये ॥१०८॥

तदा सर्वे पलायन्ते राक्षसान्मानुषा यथा ॥१०९॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवकल्पे षट्चक्रसारसङ्केते योगशिक्षाविधिनिर्णये सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे द्वाविंशः पटलः ॥२२॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP