सप्तविंशः पटलः - प्राणायाम लक्षणम्
षट्चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम्
आनन्दभैरव उवाच
विविधानि त्वयोक्तानि योगशास्त्राणि भैरवि ।
सर्वरुपत्वमेवास्या मम कान्ते प्रियंवदे ॥१॥
योगाष्टाङुफलान्येव सर्वतत्त्वजलानि च ।
इदानीं श्रोतुमिच्छामि शक्तितत्त्वक्रमेण तु ॥२॥
पूर्वोक्तप्राणवायूनां हरणं वायुधारणम् ।
प्रत्याहारं धारणख्यं ध्यानं समाधिमावद ॥३॥
आनन्दभैरव उवाच
श्रृणु लोकेश वक्ष्यामि प्राणायामफलाफलम् ।
न गृहणीयाद्विस्तरं तु स्वल्पं नैव तु कुम्भयेत् ॥४॥
शनैः शनैः प्रकर्तव्यं सङ्कातञ्च विवर्जयेत् ।
पूरकाहलादसिद्धेश्च प्राणायामशतं शतम् ॥५॥
वृद्धयै प्राणलक्षणं तु यस्मिन् दिने गतिः ।
कृष्णपक्षे शुक्लपक्षे तिथित्रिंशत्फलोदयः ॥६॥
शुक्लापक्षे इडायां तु कृष्णपक्षेऽन्यदेव हि ।
कुर्यात् सर्वत्र गमनं सुषुम्ना बहुरुपिणी ॥७॥
तिथित्रयं सितस्यापि प्रतिदादिसम्भवम् ।
तद्द्वयं दक्षनासायां वायोर्ज्ञेयं महाप्रभो ॥८॥
चतुर्थीं पञ्चमीं षष्ष्ठीं व्याप्योदयति देवता ।
वामनासुटे ध्येया वायुधारणकर्मणि ॥९॥
सप्तमीमष्टमीञ्चैव नवमीं व्याप्य तिष्ठति ।
वामनासापुटे ध्येया साधकैः कुलपण्डितैः ॥१०॥
दशम्येकादशीं चैव द्वादशीं व्याप्य तिष्ठति ।
वायुर्दक्षिणनासाग्रे ध्येयो योगिभिरिश्वरः ॥११॥
त्रयोदशीं व्याप्य वायुः पौर्णमासीं चतुर्दशीम् ।
वामनापुटे ध्येयः संहारहरणाय च ॥१२॥
कृष्णपक्षफलं वक्ष्ये यज्ज्ञात्वा अमरो भवेत् ।
कालज्ञानीं भवेत् शीघ्रं नात्र कार्या विचारणा ॥१३॥
प्रतिपद्द्वितीयामस्य तृतीयामपि तस्य च ।
पिङुलायां समावाप्य वायर्निःसरते सदा ॥१४॥
चतुर्थी पञ्चमीं षष्ठीं वामे व्याप्य प्रतिष्ठति ।
सप्तमीमष्टमीं वायुर्नवमीं दक्षिणे ततः ॥१५॥
दशम्येकादशीं वायुर्व्याप्य भ्रमति सर्वदा ।
वामे च दक्षिणेऽन्यानि तिथ्यादीनि सदानिशम् ॥१६॥
यदा एतद्व्यस्तभावं समाप्नोति नरोत्तमः ।
तदैव मरणं रोगं बन्धुनाशं त्रिपक्षके ॥१७॥
भिन्नजन्मतिथिं ज्ञात्वा काले विरोधयेत् ।
आरभ्य जन्मनाशाय प्राणायाम समाचरेत् ॥१८॥
यदा प्रत्यय भावेन देहं त्यक्त्वा प्रयच्छति ।
तदा निरुध्य श्वसनं कालग्नौ धारयेदधः ॥१९॥
यावत् स्वस्थानमायाति तावत्काल समभ्यसेत् ।
यावन्न चलते देहं यावन्न चलते मनः ॥२०॥
क्रमादभ्यसतः पुंसा देहे स्वेदोद्गमोऽधमः ।
मध्यमं कम्पसंयुक्तो भूमित्यागः परस्य तु ॥२१॥
षण्मासाद्भूतदर्शी स्यात् दूरश्रवणमेव च ।
संवत्सराभ्यासयोगात् योगविद्याप्रकाशकृत ॥२२॥
योगी जानाति सर्वाणि तन्त्राणि स्वक्रमाणि च ।
यदि दर्शनदृष्टिः स्यात्तदा योगी न संशयः ॥२३॥
प्रत्याहारफलं वक्ष्ये यत्कृत्वा खेचरो भवेत् ।
ईश्वरे भक्तिमाप्नोति धर्मज्ञानी भवेन्नरः ॥२४॥
N/A
References : N/A
Last Updated : April 16, 2011
TOP